Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 185
________________ १७२ सर्ववेदान्तसिद्धान्तसारसंग्रहः. मात्रादिलक्षणं किं नु शून्यमेवोपलभ्यते । सुषुप्तौ नान्यदस्येव नाहमप्यासमित्यनु ॥ सुप्तोत्थितजनैस्सर्वैः शून्यमेवानुस्मर्यते । यत्ततश्शून्यमेवात्मा नज्ञानाज्ञानलक्षणः ॥ वेदेनाप्यसदेवेदं अग्र आसीदिति स्फुटम् । निरुच्यते यतस्तस्मात् शून्यस्यैवात्मता मता ॥ अन्नेव घटः पूर्वं जायमानः प्रदृश्यते । न हि कुम्भः पुरैवान्तः स्थित्वोदेति बहिर्मुखः ॥ यत्तस्मादस्तस्सर्वं सदिदं समजायत । ततस्सर्वात्मना शून्यं एवात्मत्वं समर्हति ॥ इत्येवं पण्डितंमन्यैः परस्परविरोधिभिः । तत्तन्मतानुरूपाल्पश्रुतियुक्त्यनुभूतिभिः ॥ निर्णीतमतजातानि खण्डितान्येव पण्डितैः । श्रुतिभिश्चाप्यनुभवैः बाधकैः प्रतिवादिनाम् ॥ यतस्तस्मात्तु पुत्रादेः शून्यान्तस्य विशेषतः । सुसाधितमनात्मत्वं श्रुतियुक्त्यनुभूतिभिः ॥ न हि प्रमाणान्तरवाधितस्य याथार्थ्य मङ्गीक्रियते महद्भिः । पुत्रादिशून्यान्तमनात्मतत्त्वं इत्येव विस्पष्टमतस्सुजातम् ॥ ५५९ ५५८ ५५१ ५५२ ५५३ ५५४ ५५५ ५५६ ५६७ शिष्य : सुतिकाले सकले विलीने शून्यं विना नान्यदिहोपलभ्यते । शून्यं त्वनात्मा नततः परः कोऽप्यात्माभिधानस्त्वनुभूयतेऽर्थः॥५६० यद्यस्ति चात्मा किमु नोपलभ्यते सुप्तौ यथा तिष्ठति किं प्रमाणम् । किलक्षणोऽसौ स कथं न बाध्यते प्रवाध्यमानेष्वहमादिषु स्वयम् ॥

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230