Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 193
________________ १८. सर्ववेदान्तसिद्धान्तसारसंग्रहः. तथैव दुःखं जन्तूनां ब्रह्मादिपदभाजिनाम् । न काङ्क्षणीयं विदुषा तस्माद्वैषयिकं सुखम् ॥ ६३३ यो विम्बभूत आनन्दः स आत्मानन्दलक्षणः । शाश्वतो निर्भयः पूर्णः निस एकोपि निर्भयः ॥ ६३४ लक्ष्यते प्रतिविम्बेनामासानन्देन विम्बवत् । प्रतिबिम्बो बिम्बमूलः विना बिम्बं न सिध्यति ॥ ६३५ यत्ततो बिम्ब आनन्दः प्रतिविम्बेन लक्ष्यते । युक्त्यैव पन्डितजनैः न कदाऽप्यनुभूयते ॥ . ६३६ अविद्याकार्यकरणसङ्घातेषु पुरोदितः । आत्मा जाग्रसपि स्वप्ने न भवसेष गोचरः ॥ ६३७ स्थूलस्यापि च सूक्ष्मस्य दुःखरूपस्य वर्मणः । लये सुषुप्तौ स्फुरात प्रसगानन्दलक्षणः ॥ न ह्यत्र विषयः कश्चित् नापि बुद्धयादि किंचन । आत्मैव केवलानन्दमात्रस्तिष्ठति न द्वयः ॥ । प्रसभिज्ञायते सर्वैः एष सुप्तोत्थितजनैः । सुखमात्रतया नात्र संशयं कर्तुमर्हसि ॥ त्वयाऽपि प्रसभिज्ञातं मुखमात्रत्वमात्मनः । सुषुप्तादुत्थितवता सुखमस्वाप्समिसनु ॥ दुःखाभावस्सुखमिति यदुक्तं पूर्ववादिना । अनाघ्रातोपनिषदा तदसारं मृषा वचः ॥ दुःखाभावस्तु लोष्टादौ विद्यते नानुभूयते । सुखलेशोपि सर्वेषां प्रयक्षं तदिदं खलु ॥ सदयं ह्येत एवेति प्रस्तुत्य वदति श्रुतिः । सद्धनोऽयं चिदनोऽयं आनन्दघन इत्यपि ॥ ६३८

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230