Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text ________________
१४
६४७
६४८
सर्ववेदान्तसिद्धान्तसारसंग्रहः. आनन्दघनतामस्य स्वरूपं प्रत्यगात्मनः । धन्यैर्महात्मभिधारैः ब्रह्मविद्भिस्सदुत्तमैः ॥ अपरोक्षतयैवात्मा समाधावनुभूयते । केवलानन्दमात्रत्वेनैवमत्र न संशयः ॥ स्वस्वोपाध्यनुरूपेण ब्रह्माद्यास्सर्वजन्तवः । उपजीवन्त्यमुष्यैव मात्रामानन्दलक्षणाम् ॥ आस्वाद्यते यो भक्ष्येषु सुखकृन्मधुरो रसः । स गुडस्यैव नो तेषां माधुर्य विद्यते कचित् ॥ तद्विषयसान्निध्यात् आनन्दो यः प्रतीयते । बिम्बानन्दांशविस्फूर्तिः एवासौ न जडात्मनाम् ॥ यस्य कस्यापि योगेन यत्र कुत्रापि दृश्यते । आनन्दस्स परस्यैव ब्रह्मणस्स्फूर्तिलक्षणः ॥ यथा कुवलयोल्लासः चन्द्रस्यैव प्रसादतः । तथाऽऽनन्दोदयोऽप्येषां स्फुरणादेव वस्तुनः ॥
आत्मनः अद्वितीयत्वम्. सत्त्वं चित्त्वं तथाऽऽनन्दः स्वरूपं परमात्मनः। निर्गुणस्य गुणायोगात् गुणास्तु न भवन्ति ते ॥ विशेषणं तु व्यावृत्त्यै खिले द्रव्यान्तरे सति । परमात्माऽद्वितीयोऽयं प्रपञ्चस्य मृषात्वतः ॥ वस्त्वन्तरस्याभावेन न व्यावृत्यः कदाचन । केवलो निर्गुणश्चेति निर्गुणत्वं निरुच्यते ॥ श्रुत्यैव न ततस्तेषां गुणत्वमुपपद्यते । उष्णत्वं च प्रकाशश्च यथा वह्नस्तथाऽऽत्मनः ॥
६५०
६५२
६५३
६५४
६५५
Loading... Page Navigation 1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230