Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text ________________
सर्ववेदान्त सिखान्तसारसंग्रहः.
वाच्यार्थविरोधः.
शास्त्रार्थकोविदैरर्थो वाच्यो लक्ष्य इति द्विधा । वाच्यार्थ ते प्रवक्ष्यामि पण्डितैर्य उदीरितः ॥ समष्टिरूपमज्ञानं साभासं सत्त्ववृंहितम् । वियदादिविरान्तं स्वकार्येण समन्वितम् ॥ चैतन्यं तदवच्छिन्नं सवज्ञानादिलक्षणम् । सर्वज्ञत्वेश्वरत्वान्तर्यामित्वादिगुणैर्युतम् ॥ जगत्स्रष्टृत्वावितृत्व संहर्तृत्वादिधर्मकम् । सर्वात्मना भासमानं यदमेयगुणैश्च तत् ॥ अव्यक्तमपरं ब्रह्म वाच्यार्थ इति कथ्यते । नीलमुत्पल मित्रं यथा वाक्यार्थसङ्गतिः ॥ तथा तत्वमसीयत्र नास्ति वाक्यार्थसङ्गतिः । पक्षाद्वयावर्तते नील उत्पलेन विशेषितः ॥ शौक्ल्याद्वयावर्तते नीलेनोत्पलं तु विशेषितम् । इत्थमन्योन्यभेदस्य व्यावर्तकतया तयोः ॥
विशेषणविशेष्यत्व संसर्गस्येतरस्य वा । वाक्यार्थत्वे प्रमाणान्तरविरोधो न विद्यते ॥ अतस्तङ्गच्छते सम्यक् वाक्यार्थो बाधवर्जितः । एवं तत्त्वमसीत्यत्र वाक्यार्थो न समञ्जसः ॥ तदर्थस्य परोक्षत्वादिविशिष्टचितेरपि । त्वमर्थस्यापरोक्षत्वादिविशिष्टचितेरपि ॥ तथैवान्योन्यभेदस्य व्यावर्तकतया तयोः । विशेषणविशेष्यस्य संसर्गस्येतरस्य वा ॥ वाक्यार्थत्वे विरोधोऽस्ति प्रयक्षादिकृतस्ततः ।
१८५
૮
६८९
६९०
६९१
६९२
६९३
iv-24
६९४
६९५
६९६
६९७
६९८
Loading... Page Navigation 1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230