SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ सर्ववेदान्त सिखान्तसारसंग्रहः. वाच्यार्थविरोधः. शास्त्रार्थकोविदैरर्थो वाच्यो लक्ष्य इति द्विधा । वाच्यार्थ ते प्रवक्ष्यामि पण्डितैर्य उदीरितः ॥ समष्टिरूपमज्ञानं साभासं सत्त्ववृंहितम् । वियदादिविरान्तं स्वकार्येण समन्वितम् ॥ चैतन्यं तदवच्छिन्नं सवज्ञानादिलक्षणम् । सर्वज्ञत्वेश्वरत्वान्तर्यामित्वादिगुणैर्युतम् ॥ जगत्स्रष्टृत्वावितृत्व संहर्तृत्वादिधर्मकम् । सर्वात्मना भासमानं यदमेयगुणैश्च तत् ॥ अव्यक्तमपरं ब्रह्म वाच्यार्थ इति कथ्यते । नीलमुत्पल मित्रं यथा वाक्यार्थसङ्गतिः ॥ तथा तत्वमसीयत्र नास्ति वाक्यार्थसङ्गतिः । पक्षाद्वयावर्तते नील उत्पलेन विशेषितः ॥ शौक्ल्याद्वयावर्तते नीलेनोत्पलं तु विशेषितम् । इत्थमन्योन्यभेदस्य व्यावर्तकतया तयोः ॥ विशेषणविशेष्यत्व संसर्गस्येतरस्य वा । वाक्यार्थत्वे प्रमाणान्तरविरोधो न विद्यते ॥ अतस्तङ्गच्छते सम्यक् वाक्यार्थो बाधवर्जितः । एवं तत्त्वमसीत्यत्र वाक्यार्थो न समञ्जसः ॥ तदर्थस्य परोक्षत्वादिविशिष्टचितेरपि । त्वमर्थस्यापरोक्षत्वादिविशिष्टचितेरपि ॥ तथैवान्योन्यभेदस्य व्यावर्तकतया तयोः । विशेषणविशेष्यस्य संसर्गस्येतरस्य वा ॥ वाक्यार्थत्वे विरोधोऽस्ति प्रयक्षादिकृतस्ततः । १८५ ૮ ६८९ ६९० ६९१ ६९२ ६९३ iv-24 ६९४ ६९५ ६९६ ६९७ ६९८
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy