________________
ier
सर्ववेदान्तासवान्तसारसंग्रहः.
__शिष्यःस्यात्तत्त्वंपदयोस्स्वामिन् अर्थः कतिविधो मतः । पदयोः को नु वाच्यार्थो लक्ष्यार्थ उभयोश्च कः ॥ ६७९ वाच्यैकत्वविवक्षायां विरोधः कः प्रतीयते । लक्ष्यार्थयोरभिन्नत्वे स कथं विनिवर्तते ॥ ६८० एकत्वकथने का वा लक्षणाऽत्रोररीकृता । एतत्सर्वं करुणया सम्यक्त्वं प्रतिपादय ॥ ६८१ श्रीगुरुः
तत्त्वंपदार्थः. शृणुष्वावहितो विद्वन् अद्य ते फलितं तपः । वाक्यार्थश्रुतिमात्रेण सम्यक् ज्ञानं भविष्यति ॥ यावन्न तच्चंपदयोः अर्थस्सम्यग्विचार्यते । तावदेव नृणां बन्धो मृत्युसंसारलक्षणः ॥ अवस्था सच्चिदानन्दाखण्डैकरसरूपिणी। मोक्षस्सिद्धयति वाक्यार्थापरोक्षज्ञानतस्सताम् ॥ वाक्यार्थ एव ज्ञातव्यो मुमुक्षोर्भवमुक्तये । तस्मादवहितो भूत्वा शृणु वक्ष्ये समासतः ॥ अर्था बहुविधाः प्रोक्ता वाक्यानां पण्डितोत्तमैः । वाच्यलक्ष्यादिभेदेन प्रस्तुतं श्रूयतां त्वया ॥
तत्पदार्थः. वाक्ये तत्त्वमसीसत्र विद्यते यत्पदत्रयम् । तत्रादौ विद्यमानस्य तत्पदस्य निगद्यते ॥