________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः.
. १८६ आधारभूतं यदखण्डमायं शुद्धं परं ब्रह्म सदैकरूपम् । सन्मात्रमेवास्वथ नो विकल्पः सतः परं केवलमेव वस्तु ॥ ६६८ एकश्चन्द्रस्सद्वितीयो यथा स्यात् दृष्टे दोपादेव पुंसस्तथैकम् । ब्रह्मास्येतद्बुद्धिदोषेण नाना दोषे नष्टे भाति वस्त्वेकमेव ॥ ६६९ रजोः स्वरूपाधिगमे न सर्पधीः रज्ज्वां विलीना तु यथा तथैव । ब्रह्मावगसा तु जगत्प्रतीतिः तत्रैव लीना तु सह भ्रमेण ॥ ६७० भ्रान्सोदितद्वैतमतिप्रशान्या सदैकमेवास्ति सदाऽद्वितीयम् । ततो विजातीयकृतोऽत्रभेदो न विद्यते ब्रह्मणि निर्विकल्पे॥ ६७१ यदाऽस्त्युपाधिस्तदभिन्न आत्मा तदा सजातीय इवावभाति । स्वप्नार्थतस्तख्य पात्मकत्वात् तदप्रतीतौ स्वयमेव चात्मा । ब्रह्मैक्यतामेति पृथक भाति ततस्सजातीयकृतो न भेदः ॥ ६७२ घटाभावे घटाकाशी महाकाशो यथा तथा । उपाध्यभावे त्वात्मैप स्वयं प्रौब केवलम् ॥ पूर्ण एव सदाकाशो घ? सत्यप्यससपि । नित्यपूर्णस्य महतो विच्छेदः केन सिद्धयति ॥ ६७४ अच्छिन्नीश्छन्नवद्भाति पामराणां घटादिना । ग्रामक्षेत्राद्यवधिभिः भिन्नैव वसुधा यथा ॥ ६७५ तथैव परमं ब्रह्म महतां च महत्तमम् । परिच्छिन्नमिवाभाति भ्रान्सा कल्पितवस्तुना ॥ तस्माद्ब्रह्मात्मनोः भेदः कल्पितो न तु वास्तवः । अत एव मुहुश्श्रुयाऽप्येकत्वं प्रतिपाद्यते ॥ ब्रह्मात्मनोस्तत्त्वमसीत्यद्वयत्वोपपत्तये । प्रसक्षादिविरोधेन वाच्ययोर्नोपयुज्यते । तत्त्वंपदार्थयोरैक्यं लक्ष्ययोरेव सिद्धयति ॥