________________
७००
१८६
सर्ववेदान्तसिवान्तसारसंग्रहः. सङ्गच्छते न वाक्यार्थः तद्विरोधं च वच्मि ते ॥ ६९९ सर्वेशत्वस्वतन्त्रत्वसर्वज्ञत्वादिभिर्गुणैः । सर्वोत्तमस्ससकामः सससङ्कल्प ईश्वरः ॥ तत्पदार्थस्त्वमर्थस्तु किंचिज्ज्ञो दुःखजीवनः । संसार्ययं तद्गतिको जीवः प्रारूतलक्षणः ॥ कथमेकत्वमनयोः घटते विपरीतयोः। प्रसक्षेण विरोधोऽयं उभयोरुपलभ्यते ॥ विरुद्धधर्माकान्तत्वात् परस्परविलक्षणौ । जीवेशौ वह्नितुहिनौ इव शब्दार्थतोऽपि च ॥ ७०३ प्रसक्षादिविरोधः स्यादिक्ये तयोः परित्यक्ते । श्रुतिवचनविरोधो भवति महान् स्मृतिवचनरोधश्च ॥ ७०४ श्रुखाऽप्यकत्वमनयोः तात्पर्येण निगद्यते । मुहुस्तत्त्वमसीयस्मात् अङ्गीकार्य श्रुतेर्वचः ॥ ७८५ वाक्यार्थत्वे विशिष्टस्य संसर्गस्य च वा पुनः । अयथार्थतया सोऽयं वाक्यार्थो न मतश्श्रुतेः ॥ अखण्डैकरसत्वेन वाक्यार्थश्श्रुतिसम्मतः । स्थूलसूक्ष्मप्रपञ्चस्य सन्मात्रत्वं पुनःपुनः ॥ दर्शयित्वा सुषुप्तौ सत् ब्रह्माभिन्नत्वमात्मनः । उपपाद्य संदेकत्वं प्रदर्शयितुमिच्छय ॥ ऐतदात्म्यमिदं सर्व इत्युक्यैव सदात्मनोः । ब्रवीति श्रुतिरेकत्वं ब्रह्मणोऽद्वैतसिद्धये ॥ सति प्रपञ्चे जीवे वाऽद्वैतत्वं ब्रह्मणः कुतः अतस्तयोरखण्डत्वं एकत्वं श्रुतिसम्मतम् ॥ विरुद्धांशपरियागात् प्रत्यक्षादिर्न बाधते।।
७०७