SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. अविरुद्धांशग्रहणं न श्रुत्याऽपि विरुध्यते ॥ लक्ष्यार्थनिरूपणम्. ૧૮૭ ७११ लक्षणा ह्युपगन्तव्या ततो वाक्यार्थसिद्धये । वाच्यार्थानुपपत्यैव लक्षणाऽभ्युपगम्यते ॥ सम्बन्धानुपपत्तिभ्यां लक्षणेति जगुर्बुधाः । गङ्गायां घोष इत्यादौ या जहल्लक्षणा मता ॥ न सा तत्त्वमसीत्यत्र वाक्य एषा प्रवर्तते । गङ्गाया अपि घोषस्याधाराधेयत्वलक्षणम् ॥ सर्वो विरुद्धवाक्यार्थः तत्र प्रत्यक्षतस्ततः । सङ्गात्सम्बन्धवत्तीरे लक्षणा सम्प्रवर्तते ॥ तथा तत्त्वमसीत्यत्र चैतन्यैकत्वलक्षणे | विवक्षिते तु वाक्यार्थोऽपरोक्षत्वादिलक्षणः ॥ विरुद्धयते भागमात्रो न तु सर्वो विरुद्धयते । तस्माज्जहल्लक्षणायाः प्रवृत्तिर्नात्र युज्यते ॥ वाच्यार्थस्य तु सर्वस्य सागे न फलमीक्ष्यते । नाळिकेरफलस्येव कठिनत्वधिया नृणाम् ॥ गङ्गापदं यथा स्वार्थं यक्त्वा लक्षयते तटम् । तत्पदं त्वंपदं वाऽपि यक्त्वा स्वार्थ यथाऽखिलम् ॥ ७१९ तदर्थं वा त्वमर्थं वा यदि लक्षयति स्वयम् । तदा जहल्लक्षणायाः प्रवृत्तिरुपपद्यते ॥ न शङ्कनीयमियायैः ज्ञातार्थे न हि लक्षणा । तत्पदं त्वंपदं वाऽपि श्रूयते च प्रतीयते ॥ तदर्थश्च कथं तत्र संप्रवर्तत लक्षणा । ७१२ ७१३ ७१४ ७१५ ७१६ ७१७ ७१८ ७२० ७२१
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy