________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः.
७०७
अत्र शोणो धावतीति वाक्यवन्न प्रवर्तते ॥ अजहल्लक्षणा वाऽपि साऽजहल्लक्षणा यथा । गुणस्य गमनं लोके विरुद्धं द्रव्यमेन्तरा ॥ अतस्तमपरियज्य तद्गुणाश्रयलक्षणः । लक्ष्यादिर्लक्ष्यते तत्र लक्षणाऽसौ प्रवर्तते ॥ . वाक्ये तत्त्वमसीसत्र ब्रह्मात्मैकत्वबोधके । परोक्षत्वापरोक्षत्वादिविशिष्टचिंतोयोः ॥ एकत्वरूपवाक्यार्थो विरुद्धांशाविवर्जनात् । . न सिध्यति यतस्तस्मात् नाजहल्लक्षणा मता ॥ ७२६ तत्पदं त्वंपदं चापि स्वकीयार्थविरोधनम् । . अंशं सम्यक्परियज्य स्वाविरुद्धांशसंयुतम् ॥ तदर्थं वा त्वमर्थ वा सम्यग्लक्षयतः स्वयम् । भागलक्षणया साध्यं किमस्तीति न शङ्कयताम् ॥ ७२८ अविरुद्धं पदार्थान्तरांशं स्वांशं च तत्कथम् । एकं पदं लक्षणया संलक्षयितुमर्हति ॥ पदान्तरेण सिद्धायां पदार्थप्रमितो स्वतः ।। तदर्थप्रसयापेक्षा पुनर्लक्षणया कुतः ॥ तस्मात्तत्त्वमसीसत्र लक्षणा भागलक्षणा । वाक्यार्थसत्त्वाखैण्डकरसतासिद्धये मता ॥ भागं विरुद्धं संसज्याविरोधो लक्ष्यते यदा । सा भागलक्षणेसाहुः लक्षणज्ञा विचक्षणाः ॥ ७३२ सौश्यं देवदत्त इति वाक्यं वाक्यार्थ एव वा । देवदत्तैक्यरूपस्ववाक्यार्थानवबोधकम् ॥ देशकालादिवैशिष्टयं विरुद्धांशं निरस्य च ।
-