________________
१८.
सर्ववेदान्तसिद्धान्तसारसंग्रहः. तथैव दुःखं जन्तूनां ब्रह्मादिपदभाजिनाम् । न काङ्क्षणीयं विदुषा तस्माद्वैषयिकं सुखम् ॥ ६३३ यो विम्बभूत आनन्दः स आत्मानन्दलक्षणः । शाश्वतो निर्भयः पूर्णः निस एकोपि निर्भयः ॥ ६३४ लक्ष्यते प्रतिविम्बेनामासानन्देन विम्बवत् । प्रतिबिम्बो बिम्बमूलः विना बिम्बं न सिध्यति ॥ ६३५ यत्ततो बिम्ब आनन्दः प्रतिविम्बेन लक्ष्यते । युक्त्यैव पन्डितजनैः न कदाऽप्यनुभूयते ॥ . ६३६ अविद्याकार्यकरणसङ्घातेषु पुरोदितः । आत्मा जाग्रसपि स्वप्ने न भवसेष गोचरः ॥
६३७ स्थूलस्यापि च सूक्ष्मस्य दुःखरूपस्य वर्मणः । लये सुषुप्तौ स्फुरात प्रसगानन्दलक्षणः ॥ न ह्यत्र विषयः कश्चित् नापि बुद्धयादि किंचन । आत्मैव केवलानन्दमात्रस्तिष्ठति न द्वयः ॥ । प्रसभिज्ञायते सर्वैः एष सुप्तोत्थितजनैः । सुखमात्रतया नात्र संशयं कर्तुमर्हसि ॥ त्वयाऽपि प्रसभिज्ञातं मुखमात्रत्वमात्मनः । सुषुप्तादुत्थितवता सुखमस्वाप्समिसनु ॥ दुःखाभावस्सुखमिति यदुक्तं पूर्ववादिना । अनाघ्रातोपनिषदा तदसारं मृषा वचः ॥ दुःखाभावस्तु लोष्टादौ विद्यते नानुभूयते । सुखलेशोपि सर्वेषां प्रयक्षं तदिदं खलु ॥ सदयं ह्येत एवेति प्रस्तुत्य वदति श्रुतिः । सद्धनोऽयं चिदनोऽयं आनन्दघन इत्यपि ॥
६३८