________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः. अन्यत्र वन्यधर्माणामुपलम्भो न दृश्यते । तस्मान्न वस्तुधर्मोऽयं आनन्दस्तु कदाचन ॥ ६२१ नाप्येष धर्मो मनसोऽसयर्थे तददर्शनात् । असति व्यञ्जके व्यङ्गयं नोदेतीति च मन्यताम् ॥ ६२२ सखर्थेऽपि च नोदेति ह्यानन्दस्तूक्तलक्षणः । ससपि व्याके व्यङ्गयानुदयो नैव सम्मतः ॥ ६२३ दुरदृष्टादिकं नात्र प्रतिबन्धः प्रकल्प्यताम् । प्रियस्य वस्तुनो लाभे दुरदृष्टं न सिध्यति ॥ तस्मान्न मानसो धर्मः निर्गुणत्वान्न वात्मनः । किंतु पुण्यख्य सान्निध्यात् इष्टस्यापि च बस्तुनः ॥ ६२५ सत्त्वप्रधाने चित्तेऽस्मिन् आत्मैव प्रतिबिम्बति । आनन्दलक्षणस्वच्छपयसीय सुधाकरः ॥
६२६ सोऽयमाभास आनन्दः चित्ते यः प्रतिविम्बितः । पुण्योत्कर्षापकर्षाभ्यां भवत्युच्चावचस्वयम् ॥ ६२७ सार्वभौमादि ब्रह्मान्तं श्रुखा यः प्रतिपादितः । स क्षयिष्णुस्सातिशयः प्रक्षीणे कारणे लयम् ॥ यासेष विषयानन्दः यस्तु पुण्यैकसाधनः । ये तु वैषयिकानन्दं भुञ्जते पुण्यकारिणः ॥ ६२९ दुःखं च भोगकालेऽपि तेषामन्ते महत्तरम् । मुखं विषयसंपृक्तं विषसंपृक्तभक्तवत् ॥ ६३० भोगकालेऽपि भोगान्ते दुःखमेव प्रयच्छति । मुखमुच्चावचत्वेन क्षयिष्णुत्वभयेन च ॥ भोगकाले भवेन्नृणां ब्रह्मादिपदभाजिनाम् । राजास्थानप्रविष्टानां तारतम्यं मतं यथा ॥