________________
१७८
m
संवैवेदान्तसिद्धान्तसारसंग्रहः. शिष्यःअपरः क्रियते प्रश्नः मयाऽयं क्षम्यतां प्रभो । अज्ञवागपराधाय कल्पते न महात्मनः ॥ आत्माऽन्यस्सुखमन्यच्च नात्मनस्सुखरूपता। आत्मनस्मुखमाशास्यं यतते सकलो जनः ॥ . ६१२ आत्मनस्सुखरूपत्वे प्रयत्नः किमु देहिनाम् । एष मे संशयस्वामिन् कृपयैव निरस्यताम् ॥ श्रीगुरु:
आत्मान्यस्य सुखरूपत्वनिरासः. आनन्दरूपमात्मानं अज्ञात्वैव पृथग्जनः । बहिस्सुखाय यतते न तु कश्चिद्विदन बुधः ॥ ६१४ अज्ञात्वैव हि निक्षेपं भिक्षामटति दुर्मतिः । । स्ववेश्मान निधि ज्ञात्वा को नु भिक्षापटेसुधीः ॥ . ६१५ स्थूलं च सूक्ष्मं च वपुस्स्वभावतः .
दुःखात्मकं स्वात्मतया गृहीत्वा । . विस्मृस च स्वं मुखरूपमात्मनः
दुःखमदेभ्यस्सुखमज्ञ इच्छति ।। न हि दुःखप्रदं वस्तु सुखं दातुं समर्हति । किं विषं पिबतो जन्तोः अमृतत्वं प्रयच्छति ॥ आत्माऽन्यस्सुखमन्यच्चेत्येवं निश्चिस पामरः । बहिस्सुखाय यतते सयमेव न संशयः ॥ इष्टस्य वस्तुनो ध्यानदर्शनाद्युपभुक्तिषु । मतीयते य आनन्दः सर्वेषामिह देहिनाम् ॥ स वस्तुधर्मो नो यस्मात् मनस्येवोपलभ्यते । वस्तुधर्मस्य मनसि कथं स्यादुपलम्भनम् ॥