SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १७७ १७७ सर्ववेदान्तसिदान्तसारसंग्रहः. यं भान्तमेतमनुभाति जगत्समस्तं सोऽयं स्वयं स्फुरति सर्वदशासु चात्मा ॥ ६०१ आत्मन आनन्दत्वनिरूपणम्. आत्मनस्सुखरूपत्वात् आनन्दत्वं स्वलक्षणम् । परप्रेमास्पदत्वेन सुखरूपत्वमात्मनः ॥ मुखहेतुषु सर्वेषां प्रीतिस्सावधिरीक्ष्यते । कदापि नावधिः प्रीतेः स्वात्मनि प्राणिनां कचित् ॥ ६०३ क्षीणेन्द्रियस्य जीर्णस्य संप्राप्तोत्क्रमणस्य वा । अस्ति जीवितुमेवाशा स्वात्मा प्रियतमो यतः ॥ ६०४ आत्माऽतः परमप्रेमास्पदस्सर्वशरीरिणाम् । यरूर शेषतया सर्वं उपादेयत्वमृच्छति ॥ एष एव प्रियतमः पुत्रादपि धनादपि । अन्यस्मादपि सर्वस्मात् आत्माऽयं परमान्तरः ॥ प्रियत्वेन मतं यत्तु तत्सदा नाप्रियं नृणाम् । विपत्तावपि संपत्तौ यथाऽऽत्मा न तथा परः ॥ ६०७ आत्मा खलु प्रियतमोऽसुभृतां यदर्थाः भार्यात्मजाप्तगृहवित्तमुखाः पदार्थाः । वाणिज्यकर्षणगवावनराजसेवा भैषज्यकप्रभृतयो विविधाः क्रियाश्च ॥ ६०८ प्रवृत्तिश्च निवृत्तिश्च यच्च यावच्च चेष्टितम् । आत्मार्थमेव नान्यार्थं नातः प्रियतमः परः ॥ ६०९ तस्मादात्मा केवलानन्दरूपः यस्सर्वस्माद्वस्तुनः प्रेष्ठ उन्नः । यो वा अस्मान्मन्यतेऽन्यं प्रियं यं सोऽयं तस्माच्छोकमेवानुभः ॥ iv-23
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy