________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः.
सर्वदाऽप्यासमित्येवाभिन्नप्रत्यय ईक्ष्यते ।
कदापि नासमित्यस्मात् आत्मनो नित्यता मता ॥ आयातासु गतासु शैशवमुखावस्थासु जाग्रन्मुखा - स्वन्यास्वप्यखिलासु वृत्तिषु धियो दुष्टास्वदुष्टास्वपि । गङ्गाभङ्गपरम्परासु जलवत्सत्तानुवृत्तात्मनः
तिष्ठत्येव सदा स्थिराहमहमित्येकात्मता साक्षिणः ॥ ५९३ प्रतिपदमहमादयो विभिन्नाः क्षणपरिणामितया विकारिणस्ते । न परिणतिरमुष्य निष्कळत्वात् अयमविकारितयैव निय आत्मा ॥ यस्स्वप्नमद्राक्षमहं सुखं योऽस्वाप्स स एवास्म्यथ जागरूकः । इसेवमच्छिन्नतयाऽनुभूयते सत्ताऽऽत्मनो नास्ति हि संशयोऽत्र ॥ श्रुत्युक्ताष्षोडशकलाः चिदाभासस्य नात्मनः । निष्कलत्वान्नास्य लयः तस्मान्नित्यत्वमात्मनः ॥ जडप्रकाशकस्सूर्यः प्रकाशात्मैव नो जडः । बुद्ध्यादिभासकस्तस्मात् चित्स्वरूपस्तथा मतः ॥ कुड्यादेस्तु जडस्य नैव घटते भानं स्वतस्सर्वदा
सूर्यादिप्रभया विना कचिदपि प्रत्यक्षमेतत्तथा । बुद्धयादेरपि न स्वतोऽस्त्यणुरपि स्फूर्तिर्विनैवात्मना
सोऽयं केवलचिन्मयश्रुतिमतो भानुर्यथा रुमयः ॥ १९८ स्वभासने वाऽन्यपदार्थभासने नार्कः प्रकाशान्तरमीषदिच्छति । स्वबोधने वाऽप्यहमादिबोधने तथैव चिद्धातुरयं परात्मा ॥ ५९९
१७६
१९२
५९६
अन्य प्रकाशं न किमप्यपेक्ष्य यतोऽयमाभाति निजात्मनैव । ततः स्वयंज्योतिरयं चिदात्मा न ह्यात्मभाने परदीप्यपेक्षणा ॥ ६०० यं न प्रकाशयति किंचिदिनोऽपि चन्द्रः
नो विद्युतः किमुत वह्निरयं मिताभः ।