________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः.
५८४
उपलभ्येत केनायं ह्युपलब्धा स्वयं ततः। उपलब्ध्यन्तराभावात् नायमात्मोपलभ्यते ॥ बुद्धयादिवेद्यविलयादयमेक एव
मुप्तौ न पश्यति शृणोति न वेत्ति किंचित् । सौषप्तिकस्य तमसः स्वयमेव साक्षी _ भूत्वा प्रतिष्ठति सुखेन च निर्विकल्पः ॥ सुषुप्तावात्मसद्भावे प्रमाणं पण्डितोत्तमाः। . विदुस्स्वमसभिज्ञानं आवालवृद्धसंमतम् ॥ प्रसभिज्ञायमानत्वात् लिङ्गमात्रानुमापकम् । स्मर्यमाणरूर सद्भावः सुखमस्वाप्समिययम् ॥ पुराऽनुभूतो नो चेत्तु स्मृतेरनुदयो भवेत् । इयादितर्कयुक्तिश्च सद्भावे मानमात्मनः ।। ५८५ यत्रात्मनोऽकामयितृत्वबुद्धिः स्वप्नानपेक्षाऽपि च तत्सुषुप्तम् । इसात्मसद्भाव उदीयतेऽत्र श्रुसाऽपि तस्माच्छ्रतिरत्र मानम् ॥ अकामयितृता स्वप्नादर्शनं घटते कथम् । अविद्यमानस्य ततः आत्मास्तित्वं प्रतीयते ॥ एतैः प्रमाणैरस्तीति ज्ञातस्साक्षितया बुधैः । आत्माऽयं केवलश्शुद्धः सच्चिदानन्दलक्षणः ॥ सत्त्वचित्त्वानन्दतादिलक्षणं प्रसगात्मनः । कालत्रये प्यबाध्यत्वं सखं नियस्वरूपतः ॥ शुद्धचैतन्यरूपत्वं चित्वं ज्ञानस्वरूपतः । अखण्डसुखरूपत्वं आनन्दत्वमितीर्यते ॥ अनुस्यूताऽऽत्मनस्सत्ता जाग्रत्स्वप्नसुषुप्तिषु । अहमस्मीसतो नित्यो भवत्यात्माऽयमव्ययः ॥
५८७