________________
i७४
५७४.
सर्ववेदान्तसिद्धान्तसारसंग्रहः. अन्यथा विपरीतं स्यात् कार्यकारणलक्षम् । नियतं सर्वशास्त्रेषु सर्वलोकेषु सर्वतः ॥ कथमसतस्सज्जायतेति श्रुसा निषिध्यते तस्मात् । असतस्सज्जननं नो घठते मिथ्यैव शून्यशब्दार्थः ॥
५७२ अव्यक्तशब्दिते प्राज्ञे ससात्मन्यत्र जाग्रति । कथं सिध्यति शून्यत्वं तस्य भ्रान्तशिरोमणे ॥ ५७३ सुषुप्तौ शून्यमेवेति केन घुसा तवेरितम् । हेतुनाऽनुमितं केन कथं ज्ञातं त्वयोच्यताम् ॥ इति पृष्टे मूढतमो वदिष्यति किमुत्तरम् । नैवानुरूपकं लिङ्गं वक्ता वा नास्ति कश्चन । सुषुप्तिस्थितशून्यस्य बोद्धा कोऽन्वात्मनः परः ॥ ५७५ स्वेनानुभूतं स्वयमेव वक्ति स्वसुप्तिकाले स्थितशून्यभावम् । तत्र स्वसत्तामनवक्ष्य मूढः स्वस्यापि शून्यत्वमयं ब्रवीति ॥ ५७६ अवेद्यमानस्स्वयमन्यलोकैः सौषुप्तिकं धर्ममवैति साक्षात् । बुद्धयाद्यभावस्य च योऽत्र बोद्धा स एष आत्मा खलु निर्विकारः॥
आत्मस्वरूपम्. यस्येदं सकलं विभाति महसा ससस्वयंज्योतिषः
सूर्यस्येव किमस्ति भासकमिह प्रज्ञादि सर्व जडम् । न हर्कस्य विभासकं क्षितितले दृष्टं तथैवात्मनो - नान्यः कोऽप्यनुभासकोऽनुभविता नातः परः कश्चन॥५७८ येनानुभूयते सर्व जाग्रत्स्वप्नसुषुप्तिषु । विज्ञातारमिमं को नु कथं वेदितुमर्हति ॥
५७९ सर्वस्य दाहको वह्निः वह्वेर्नान्योस्ति दाहकः । यथातथाऽऽत्मनो ज्ञातुः ज्ञाता कोऽप्यनुदृश्यते ॥ ५८०