SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. एतत्संशयजातं मे हृदयग्रन्थिलक्षणम् । छिन्धि युक्तिमहाखनधारया कृपया गुरो ॥ गुरुःअतिसूक्ष्मतरः प्रश्नः तवायं सदृशो मतः । सूक्ष्मार्थदर्शनं सूक्ष्मबुद्धिष्वेव मदृश्यते ॥ णु वक्ष्यामि सकलं यद्यत्पृष्टं त्वयाऽधुना । रहस्यं परमं सूक्ष्मं ज्ञातव्यं च मुमुक्षुभिः ॥ शून्यवादनिरासः. बुद्धयादि सकलं सुप्तौ अनुलीय स्वकारणे । 'अव्यक्ते वटवीजे तिष्ठत्यविकृतात्मना || तिष्ठत्येव स्वरूपेण न तु शून्यायते जगत् । कचिदङ्कुररूपेण कचिद्वीजात्मना वटः ॥ कार्यकारणरूपेण यथा तिष्ठसदस्तथा । अव्याकृतात्मनाऽवस्थां जगतो वदति श्रुतिः ॥ सुषुप्तयादिषु तद्भेदं तर्ह्यव्याकृतमिससौ । इममर्थमविज्ञाय निर्णीतं श्रुतियुक्तिभिः ॥ जगतो दर्शनं शून्यं इति प्राहुरतद्विदः । नासतस्त उत्पत्तिः श्रूयते न च दृश्यते । उदेति नरशृङ्गात्किं खपुष्पात्किं भविष्यति ॥ प्रभवति न हि कुम्भोऽविद्यमानो मृदश्चेत् प्रभवतु सिकताया वाऽथ वा वारिणो वा । न हि भवति च ताभ्यां सर्वथा कापि तस्मात् यत उदयति योऽर्थोऽस्त्यत्र तस्य स्वभावः ॥ १७३ ५६२ ५६३ ५६४ ५६५ ५६६ ५६७ ५६८ ५६९ ५७०
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy