Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 188
________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. ५८४ उपलभ्येत केनायं ह्युपलब्धा स्वयं ततः। उपलब्ध्यन्तराभावात् नायमात्मोपलभ्यते ॥ बुद्धयादिवेद्यविलयादयमेक एव मुप्तौ न पश्यति शृणोति न वेत्ति किंचित् । सौषप्तिकस्य तमसः स्वयमेव साक्षी _ भूत्वा प्रतिष्ठति सुखेन च निर्विकल्पः ॥ सुषुप्तावात्मसद्भावे प्रमाणं पण्डितोत्तमाः। . विदुस्स्वमसभिज्ञानं आवालवृद्धसंमतम् ॥ प्रसभिज्ञायमानत्वात् लिङ्गमात्रानुमापकम् । स्मर्यमाणरूर सद्भावः सुखमस्वाप्समिययम् ॥ पुराऽनुभूतो नो चेत्तु स्मृतेरनुदयो भवेत् । इयादितर्कयुक्तिश्च सद्भावे मानमात्मनः ।। ५८५ यत्रात्मनोऽकामयितृत्वबुद्धिः स्वप्नानपेक्षाऽपि च तत्सुषुप्तम् । इसात्मसद्भाव उदीयतेऽत्र श्रुसाऽपि तस्माच्छ्रतिरत्र मानम् ॥ अकामयितृता स्वप्नादर्शनं घटते कथम् । अविद्यमानस्य ततः आत्मास्तित्वं प्रतीयते ॥ एतैः प्रमाणैरस्तीति ज्ञातस्साक्षितया बुधैः । आत्माऽयं केवलश्शुद्धः सच्चिदानन्दलक्षणः ॥ सत्त्वचित्त्वानन्दतादिलक्षणं प्रसगात्मनः । कालत्रये प्यबाध्यत्वं सखं नियस्वरूपतः ॥ शुद्धचैतन्यरूपत्वं चित्वं ज्ञानस्वरूपतः । अखण्डसुखरूपत्वं आनन्दत्वमितीर्यते ॥ अनुस्यूताऽऽत्मनस्सत्ता जाग्रत्स्वप्नसुषुप्तिषु । अहमस्मीसतो नित्यो भवत्यात्माऽयमव्ययः ॥ ५८७

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230