Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text ________________
१७७
१७७
सर्ववेदान्तसिदान्तसारसंग्रहः. यं भान्तमेतमनुभाति जगत्समस्तं
सोऽयं स्वयं स्फुरति सर्वदशासु चात्मा ॥
६०१
आत्मन आनन्दत्वनिरूपणम्.
आत्मनस्सुखरूपत्वात् आनन्दत्वं स्वलक्षणम् । परप्रेमास्पदत्वेन सुखरूपत्वमात्मनः ॥ मुखहेतुषु सर्वेषां प्रीतिस्सावधिरीक्ष्यते । कदापि नावधिः प्रीतेः स्वात्मनि प्राणिनां कचित् ॥ ६०३ क्षीणेन्द्रियस्य जीर्णस्य संप्राप्तोत्क्रमणस्य वा । अस्ति जीवितुमेवाशा स्वात्मा प्रियतमो यतः ॥ ६०४ आत्माऽतः परमप्रेमास्पदस्सर्वशरीरिणाम् । यरूर शेषतया सर्वं उपादेयत्वमृच्छति ॥ एष एव प्रियतमः पुत्रादपि धनादपि । अन्यस्मादपि सर्वस्मात् आत्माऽयं परमान्तरः ॥ प्रियत्वेन मतं यत्तु तत्सदा नाप्रियं नृणाम् । विपत्तावपि संपत्तौ यथाऽऽत्मा न तथा परः ॥ ६०७ आत्मा खलु प्रियतमोऽसुभृतां यदर्थाः
भार्यात्मजाप्तगृहवित्तमुखाः पदार्थाः । वाणिज्यकर्षणगवावनराजसेवा
भैषज्यकप्रभृतयो विविधाः क्रियाश्च ॥ ६०८ प्रवृत्तिश्च निवृत्तिश्च यच्च यावच्च चेष्टितम् । आत्मार्थमेव नान्यार्थं नातः प्रियतमः परः ॥ ६०९ तस्मादात्मा केवलानन्दरूपः यस्सर्वस्माद्वस्तुनः प्रेष्ठ उन्नः । यो वा अस्मान्मन्यतेऽन्यं प्रियं यं सोऽयं तस्माच्छोकमेवानुभः ॥
iv-23
Loading... Page Navigation 1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230