Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 183
________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः. इत्यादिश्रुतिसद्भावात् युक्ता मनस आत्मता । इति निश्चयमेतस्य दूषयत्यपरो जडः ॥ १७० बुद्ध्यात्मवादः. कथं मनस आत्मत्वं करणस्य दृगादिवत् । कर्तृप्रयोज्यं करणं न स्वयं तु प्रवर्तते ॥ करणप्रयोक्ता यः कर्ता स एवात्मत्वमर्हति । आत्मा स्वतन्त्रः पुरुषो न प्रयोज्यः कदाचन ॥ अहं कर्ताऽस्म्यहं भोक्ता मुखीयनुभवादपि । बुद्धिरात्मा भवसेव बुद्धिधर्मो कृतिः ॥ अन्योऽन्तर आत्मा विज्ञानमय इति वदति निगमः । मनसोऽपि च भिन्नं विज्ञानमयं कर्तुरूपमात्मानम् ॥ विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च । इयस्य कर्तृता श्रुखा मुखतः प्रतिपाद्यते । तस्माद्युक्तात्मता बुद्धेः इति बौद्धेन निश्चितम् ॥ अज्ञानात्मवादः. प्राभाकरस्तार्किकश्च तावुभावप्यमर्षया । तनिश्चयं दूषयतो बुद्धिरात्मा कथं न्विति ॥ बुद्धेरज्ञान कार्यत्वात् विनाशित्वात्प्रतिक्षणम् । बुद्ध्यादीनां च सर्वेषां अज्ञाने लयदर्शनात् ॥ अज्ञोऽहमियनुभवात् आस्त्रीबालादिगोचरात् । भवज्ञानमेवात्मा न तु बुद्धिः कदाचन ॥ ५३० ५३१ ५३२ ५३४ ५३५ ५३६ ५३७ ५३८ विज्ञानमयादन्यं त्वानन्दमयं परस्तथात्मानम् । अन्योऽन्तर आत्माऽऽनन्दमय इति वदति वेदोऽपि ॥ ५३९

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230