Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text ________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः
प्राणात्मवादः.
इन्द्रियाणि कथं त्वात्मा करणानि कुठारवत् । करणस्य कुठारादेः चेतनत्वं न हीयते ॥ श्रुखाऽधिदेवतावादः इन्द्रियेषूपचर्यते । न तु साक्षादिन्द्रियाणां चेतनत्वमुदीर्यते ॥ अचेतनस्य दीपादेः अर्थाभासकता यथा । तथैव चक्षुरादीनां जडानामपि सिद्धयति ॥ इन्द्रियाणां चेष्टयता प्राणोऽयं पञ्चवृत्तिकः । सर्वावस्थास्ववस्थावान् सोऽयमात्मत्वमर्हति । अहं क्षुधावान् तृष्णावान् इयानुभवादपि ॥ साsन्योन्तर आत्मा प्राणमय इतीर्यते यस्मात् । तस्मात्प्राणस्यात्मत्वं युक्तं न करणाख्यानाम् ॥
मनआत्मवादः.
इति निश्चयमेतस्य दूषययपरो जडः । भवात्मा कथं प्राणो वायुरेवैष आत्मनः ॥ वहिर्यान्तरायाति भस्त्रिकावायुवन्मुहुः । नहितं वाऽहितं सर्व अन्यद्वा वेद किंचन || जडस्वभावश्चपलः कर्मयुक्तश्च सर्वदा । प्राणस्य भानं मनसि स्थिते सुप्ते न दृश्यते ॥ मनस्तु सर्वं जानाति सर्ववेदनकारणम् ।
यत्तस्मान्मन एवात्मा प्राणस्तु न कदाचन ॥ सङ्कल्पवानहं चिन्तावानहं च विकल्पवान् । इसाद्यनुभवादन्योऽन्तर आत्मा मनोमयः ॥
१६९
iv-22
५२०
५२१
५२२
५२३
५२४
५२५
५२६
६२७
५२८
५२९
Loading... Page Navigation 1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230