SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ सर्ववेदान्तसिद्धान्तसारसंग्रहः प्राणात्मवादः. इन्द्रियाणि कथं त्वात्मा करणानि कुठारवत् । करणस्य कुठारादेः चेतनत्वं न हीयते ॥ श्रुखाऽधिदेवतावादः इन्द्रियेषूपचर्यते । न तु साक्षादिन्द्रियाणां चेतनत्वमुदीर्यते ॥ अचेतनस्य दीपादेः अर्थाभासकता यथा । तथैव चक्षुरादीनां जडानामपि सिद्धयति ॥ इन्द्रियाणां चेष्टयता प्राणोऽयं पञ्चवृत्तिकः । सर्वावस्थास्ववस्थावान् सोऽयमात्मत्वमर्हति । अहं क्षुधावान् तृष्णावान् इयानुभवादपि ॥ साsन्योन्तर आत्मा प्राणमय इतीर्यते यस्मात् । तस्मात्प्राणस्यात्मत्वं युक्तं न करणाख्यानाम् ॥ मनआत्मवादः. इति निश्चयमेतस्य दूषययपरो जडः । भवात्मा कथं प्राणो वायुरेवैष आत्मनः ॥ वहिर्यान्तरायाति भस्त्रिकावायुवन्मुहुः । नहितं वाऽहितं सर्व अन्यद्वा वेद किंचन || जडस्वभावश्चपलः कर्मयुक्तश्च सर्वदा । प्राणस्य भानं मनसि स्थिते सुप्ते न दृश्यते ॥ मनस्तु सर्वं जानाति सर्ववेदनकारणम् । यत्तस्मान्मन एवात्मा प्राणस्तु न कदाचन ॥ सङ्कल्पवानहं चिन्तावानहं च विकल्पवान् । इसाद्यनुभवादन्योऽन्तर आत्मा मनोमयः ॥ १६९ iv-22 ५२० ५२१ ५२२ ५२३ ५२४ ५२५ ५२६ ६२७ ५२८ ५२९
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy