SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ सर्ववेदान्त सिद्धान्तसारसंग्रहः • आभासमात्रास्तास्सर्वा युक्तयोऽप्युक्तयोऽपि च । पुत्रस्य पितृवहे सर्वकार्येषु वस्तुषु ॥ स्वामित्वद्योतनायास्मिन् आत्मत्वमुपचर्यते । श्रुखा न मुख्यया वृत्त्या पुत्र आत्मेति नोच्यते ॥ औपचारिकमात्मत्वं पुत्रे तस्मान्न मुख्यतः । पदार्थो देह एव न चेतरः || १७२ मयक्षस्सर्वजन्तूनां देहोऽहमिति निश्चयः । एष पुरुषोsन्नरसमय इसपि च श्रुतिः ॥ पुरुषत्वं वदसस्य स्वात्मा हि पुरुषस्ततः । आत्माऽयं देह एवेति चार्वाकेण विनिश्चितम् ॥ इन्द्रियात्मवादः. तन्मतं दूषयन्योऽसहमान: पृथग्जनः । दह आत्मा कथं नु स्यात् परतन्त्रो ह्यचेतनः ॥ इन्द्रियैश्चाल्यमानोऽयं चेष्टते न स्वतः कचित् । आश्रयश्चक्षुरादीनां गृहवद्गृहमेधिनाम् ॥ वाल्यादिनानावस्थावान् शुक्कशोणितसंभवः । अतः कदापि हेहस्य नात्मत्वमुपपद्यते ॥ artist च काणोऽहं भूक इसनुभूतितः । इन्द्रियाणि भवन्साया येषामस्वर्थवेदनम् || इन्द्रियाणां चेतनत्वं देहमाणाः प्रजापतिम् । एतमेत्यूचुरिति श्रुलैव प्रतिपाय || यतस्तस्मादिन्द्रियाणां युक्तमात्मत्वमिमुम् । निश्चयं दूषयत्यन्योऽसहमान: पृथग्जनः ॥ ५०९ ५१० ५११ ५१२ ५१३ ५१४ ५१५ ५१६ ५१७ ५१८ ५१९
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy