Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 184
________________ १७१ ५४२ ५४३ सर्ववेदान्तसिद्धान्तसारसंग्रह. दुःखप्रसयशून्यत्वात् आनन्दमयता मता। अज्ञाने सकलं सुप्तौ बुद्धयादि प्रविलीयते ॥ दुःखिनोपि सुषुप्तौ तु आनन्दमयता ततः। मुप्तौ किंचिन्न जानामीत्यनुभूतिश्च दृश्यते ॥ यत एवमतो युक्ता ह्यज्ञानस्यात्मता ध्रुवम् । इति तन्निश्चयं भाहा दूषयन्ति स्वयुक्तिभिः॥ ज्ञानाज्ञनात्मवादः. कथमज्ञानमेवात्मा ज्ञानं चाप्युपलभ्यते ॥ ज्ञानाभावे कथं विद्युः अज्ञोहमिति चाज्ञताम् । अस्वाप्सं सुखमेवाहं न जानाम्यत्र किं चन ॥ इत्यज्ञानमपि ज्ञानं प्रबुद्धेषु प्रदृश्यते । प्रज्ञानघन एवानन्दमय इत्यपि श्रुतिः ॥ प्रब्रवीत्युभयात्मत्वं आत्मनस्स्वयमेव सा । आत्माऽतश्चिजडतनुः खद्योत इव संमतः ॥ न केवलाज्ञानमयः घटकुड्यादिवजडः। इति निश्चयमेतेषां दृषयत्यपरो जडः ॥ शून्यात्मवादः, ज्ञानाज्ञानमयस्त्वात्मा कथं भवितुमर्हति । परस्परविरुद्धत्वात् तेजस्तिमिरवत्तयोः ॥ सामानाधिकरण्यं वा संयोगो वा समाश्रयः । तमःमकाशवज्ज्ञानाज्ञानयोर्न हि सिद्धयति ॥ अज्ञानमपि विज्ञानं बुद्धिर्वाऽपि च तद्गुणाः । मुषुप्तौ नोपलभ्यन्ते यत्किंचिदपि वाऽपरम् ॥ ५४८ ५४९

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230