________________
१७१
५४२
५४३
सर्ववेदान्तसिद्धान्तसारसंग्रह. दुःखप्रसयशून्यत्वात् आनन्दमयता मता। अज्ञाने सकलं सुप्तौ बुद्धयादि प्रविलीयते ॥ दुःखिनोपि सुषुप्तौ तु आनन्दमयता ततः। मुप्तौ किंचिन्न जानामीत्यनुभूतिश्च दृश्यते ॥ यत एवमतो युक्ता ह्यज्ञानस्यात्मता ध्रुवम् । इति तन्निश्चयं भाहा दूषयन्ति स्वयुक्तिभिः॥
ज्ञानाज्ञनात्मवादः. कथमज्ञानमेवात्मा ज्ञानं चाप्युपलभ्यते ॥ ज्ञानाभावे कथं विद्युः अज्ञोहमिति चाज्ञताम् । अस्वाप्सं सुखमेवाहं न जानाम्यत्र किं चन ॥ इत्यज्ञानमपि ज्ञानं प्रबुद्धेषु प्रदृश्यते । प्रज्ञानघन एवानन्दमय इत्यपि श्रुतिः ॥ प्रब्रवीत्युभयात्मत्वं आत्मनस्स्वयमेव सा । आत्माऽतश्चिजडतनुः खद्योत इव संमतः ॥ न केवलाज्ञानमयः घटकुड्यादिवजडः। इति निश्चयमेतेषां दृषयत्यपरो जडः ॥
शून्यात्मवादः, ज्ञानाज्ञानमयस्त्वात्मा कथं भवितुमर्हति । परस्परविरुद्धत्वात् तेजस्तिमिरवत्तयोः ॥ सामानाधिकरण्यं वा संयोगो वा समाश्रयः । तमःमकाशवज्ज्ञानाज्ञानयोर्न हि सिद्धयति ॥ अज्ञानमपि विज्ञानं बुद्धिर्वाऽपि च तद्गुणाः । मुषुप्तौ नोपलभ्यन्ते यत्किंचिदपि वाऽपरम् ॥
५४८
५४९