Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text ________________
४६८
१६८
सर्ववेदान्तसिद्धान्तसारसंग्रहः. अनात्मन्यात्मताध्यासः कथमेष समागतः ।। निवृत्तिः कथमेतस्य केनोपायेन सिद्धयति । उपाधियोग उभयोः सम एवेशजीवयोः ॥ जीवस्यैव कथं बन्धः नेश्वरस्यास्ति तत्कथम् । एतत्सर्वं दयादृष्टया करामलकवत् स्फुटम् । । प्रतिपादय सर्वज्ञ श्रीगुरो करुणानिधे ॥
श्रीगुरु:-- न सावयव एकस्य नात्मा विषय इष्यते । अस्यास्मत्प्रत्ययार्थत्वात् अपरोक्षाच सर्वशः ।। प्रसिद्धिरात्मनोऽस्त्येव न कस्यापि च दृश्यते । . प्रययेनाहमस्मीति ह्यस्ति प्रसय आत्मनि ॥ ४७१ न कस्यापि स्वसद्भावे प्रमाणमभिकायते । प्रमाणानां च प्रामाण्यं यन्मूलं किं तु बोधयेत् ॥ ४७२ मायाकार्यतिरोभूतो नैष आत्माऽनभूयते । मेघवृन्दैर्यथा भानुः तथाऽयमहमादिभिः ॥ पुरस्थ एव विषये वस्तुन्यध्यस्यतामिति । नियमो न कृतस्सद्भिः भ्रान्तिरेवात्र कारणम् ॥ ४७४ दृगाद्यविषये व्योम्नि नीलतादि यथाऽबुधाः । अध्यस्यन्ति तथैवास्मिन् आत्मन्यपि मतिभ्रमात् ॥ ४७५ अनात्मन्यात्मताध्यासे न सादृश्यमपेक्षते । पीतोऽयं शङ्ख इत्यादौ सादृश्यं किमपेक्षितम् ॥ निरुपाधिभ्रमेष्वस्मिन् नैवापेक्षा प्रदृश्यते । सोपाधिष्वेव तद्दष्टं रज्जुसर्पभ्रमादिषु ॥
४७३
५७८
४७७
Loading... Page Navigation 1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230