SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ ४६८ १६८ सर्ववेदान्तसिद्धान्तसारसंग्रहः. अनात्मन्यात्मताध्यासः कथमेष समागतः ।। निवृत्तिः कथमेतस्य केनोपायेन सिद्धयति । उपाधियोग उभयोः सम एवेशजीवयोः ॥ जीवस्यैव कथं बन्धः नेश्वरस्यास्ति तत्कथम् । एतत्सर्वं दयादृष्टया करामलकवत् स्फुटम् । । प्रतिपादय सर्वज्ञ श्रीगुरो करुणानिधे ॥ श्रीगुरु:-- न सावयव एकस्य नात्मा विषय इष्यते । अस्यास्मत्प्रत्ययार्थत्वात् अपरोक्षाच सर्वशः ।। प्रसिद्धिरात्मनोऽस्त्येव न कस्यापि च दृश्यते । . प्रययेनाहमस्मीति ह्यस्ति प्रसय आत्मनि ॥ ४७१ न कस्यापि स्वसद्भावे प्रमाणमभिकायते । प्रमाणानां च प्रामाण्यं यन्मूलं किं तु बोधयेत् ॥ ४७२ मायाकार्यतिरोभूतो नैष आत्माऽनभूयते । मेघवृन्दैर्यथा भानुः तथाऽयमहमादिभिः ॥ पुरस्थ एव विषये वस्तुन्यध्यस्यतामिति । नियमो न कृतस्सद्भिः भ्रान्तिरेवात्र कारणम् ॥ ४७४ दृगाद्यविषये व्योम्नि नीलतादि यथाऽबुधाः । अध्यस्यन्ति तथैवास्मिन् आत्मन्यपि मतिभ्रमात् ॥ ४७५ अनात्मन्यात्मताध्यासे न सादृश्यमपेक्षते । पीतोऽयं शङ्ख इत्यादौ सादृश्यं किमपेक्षितम् ॥ निरुपाधिभ्रमेष्वस्मिन् नैवापेक्षा प्रदृश्यते । सोपाधिष्वेव तद्दष्टं रज्जुसर्पभ्रमादिषु ॥ ४७३ ५७८ ४७७
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy