Book Title: Satthisay Payaranam Author(s): Hargovinddas Publisher: Atmaram Sharma View full book textPage 6
________________ प्रस्तावना। मूलग्रन्थोऽयं षष्ट्यधिकशतप्राकृतगाथात्मक इति पञ्चाशीत्यादिग्रन्थसार्थ इव गाथापरिमाणोपलक्षितेन 'सट्टिसयपयरण'-( षष्टिशत. प्रकरण-) इत्यभिधानेनाभिधीयत इति नाममात्रेण सामान्यकोटिकतया प्रतिभासमानोऽपि वस्तुतो महत्त्वपरिपूर्ण एवास्तीत्यसंदिग्धं विदग्धैस्तत्परिशीलनप्रवृत्तैर्विज्ञायते । कारणमत्र, ग्रन्थकारेण गौणभावेन सम्यक्त्वादिकं साधारणमपि विषयमसाधारणेन विचारपाटव-स्वातन्त्र्यादिना निरूपयता, प्रधानभावेन स्वसमये, योऽतिप्राचीनोऽभवन्नपि नार्वाचीनः शक्यते वक्तुम् , विद्यमानाया जैनसमाजसंस्थितेर्विहिता निर्भीकमालोचना, या किलैतिहासिकदृष्ट्या यथा गौरवमाविभर्ति, आधुनिकजैनसमाजावस्थायास्तुलनायामपि तथैवोपयुक्ततामावहति, इत्यामूलचूल ग्रन्थमेनमवगाहिष्यमाणानां वर्तमानार्हतसंघस्थितिं च सम्यग् निरीक्षमाणानां विपश्चितां स्पष्टमेव प्रकटीभविष्यति। विनिर्माताऽस्य भाण्डागारिकोपपदः श्रीनेमिचन्द्रनामा श्राद्धप्रवरः ! यद्यपि निजसत्तासमयस्य क; न क्वाप्युल्लेखो विहितस्तथापि खरतरगच्छपट्टावल्यांसप्तचत्वारिंशत्तमपट्टनायकतया प्रसिद्धस्य श्रीजिनेश्वरसूरेर्ग्रन्थकारपुत्रत्वेन तत्सत्ताकाल एव ग्रन्थकारस्यापि सत्ताकालो निर्विवादं शक्यते विनिर्णेतुम् । श्रीजिनेश्वरसूरेश्च सत्तासमयः पट्टावल्यादिषु विक्रमीयत्रयोदशशताब्दीरूपः सुप्रसिद्ध एवं । अस्य लघीयसोऽपि ग्रन्थस्य महत्त्वसंवादकमिव टीकाद्वयं वर्तते । तत्र प्रथमा न तावदुपलब्धा, किन्तु द्वादश्याः कारिकाया व्याख्याने प्रस्तुतटीकाकारेण "इति षष्टिशतबृहवृत्तौ" इत्युल्लेखेन तस्या अस्तित्वं प्रतिपादितम् । द्वितीया पुनरियमेवोपस्थाप्यमाना, पूर्वापेक्षया लघ्वी, अनिर्दिष्टकर्तृनामा च, इति 'कदा केन वा विनिर्मितेयम् ?' इति न सम्यग् निश्चेतुं शक्यते । यद्यपि टीकाया अस्या अन्ते __ "स्वस्मृतिबीजकमेतत् षष्टिशतप्रकरणस्य सद्वृत्तेः । । अलिखल्लेखकवदयं शिष्यः श्रीधवलचन्द्रगुरोः ॥” . १ अन्तिमाया कर्तृनामादिप्रतिपादनपराया गाथाया गणनायामविवक्षयेति ध्येयम् । २ यदाह प्रस्तुतग्रन्थटीकाकार एवेहान्त्यगाथावृत्तौ;-"नेमिचन्द्रश्च सज्जनसुतः श्रोजिनेश्वरसूरः पिता च तेन रचिताः” इति । ३ खरतरगच्छपट्टावल्यां तत्संवन्धेऽयमुल्लेख उपलभ्यते;-"श्रीजिनपत्तिसरिपट्ट सप्तचत्वारिंशत्तमः श्रीजिनेश्वरसूरिः। तस्य च १२४५ मार्गशीर्षसुदि एकादश्यां............ जन्म......... तस्य भाण्डागारिकः श्रीनेमिचन्द्र; पिता, लक्ष्मीर्माता । अंबड इति मूलनमा । संवत् १२५५ वेडनगरे दीक्षां दत्त्वा गुरुभिर्वीरप्रभ इति नाम दत्तम्.........."Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56