Book Title: Satthisay Payaranam
Author(s): Hargovinddas
Publisher: Atmaram Sharma

View full book text
Previous | Next

Page 54
________________ सट्ठियपयरणं । ४७ प्रभुवचनोक्तविधितत्त्वं " वंदे उभओकालंपि " इत्यादि ज्ञात्वा यावदात्मा दृश्यते प्रतिमापन्नश्रावकस्यात्मनः स्वरूपं विचार्यते, 'ता' तदा ' कह ' इति कुत्र सुभावकत्वं यच्चीर्ण धीरपुरुषैः कामदेवादिभिः ॥ १५५ ॥ जोवि हु उत्तमसावयपयडीए चडणकरणअसमत्थो । तहविहु पहुवयणकरणे मणोरहो मज्झ हिययस्मि ॥ १५६ ॥ ( यद्यपि खत्तमश्रा वकपदिकायां चटनकरणासमर्थः । तथापि खलु प्रभुवचनकरणे मनोरथो मम हृदये || ) यद्यपि ' हु' निश्चये उत्तमश्रावक परिपाट्यां चटनकरणे आरोहणविधानेऽसमर्थोऽहमस्मि, कालादिवैषम्यात् ; तथाप्यर्हदुक्तविधाने मनोरथो मम हृदये 'अस्ति ' इति गम्यते ॥ १५६ ॥ ता पहु ! पणमिय चलणे एकं पत्थेमि परमभावेण । तुहवयणरयणगहणे अइलोहो हुज्ज मज्झ सया ॥ १५७ ॥ ( तस्मात् प्रभो ! प्रणम्य चरणावेकं प्रार्थये परमभावेन । त्वद्वचनरत्नग्रहणेऽतिलोभो भवेद् मम सदा ॥ ) तस्माद् हे प्रभो ! अर्हन् श्रीजिनपत्तिसूरिगुरो वा, त्वच्चरणौ प्रणम्य एकमेव प्रार्थयामि परमभावेन, त्वद्वचनान्येव रत्नानीव रत्नानि तद्ग्रहणेऽतिलोभो मम भवेत् सदा ॥ १५७ ॥ इह मिच्छवासनिक भावओ गलियगुरूविवेयाणं । अम्हाण कह सुहाई संभाविज्जंति सुमिणेवि ? ॥ १५८ ॥ ( इह मिथ्यावास निकृष्टभावतो गलितगुरुविवेकानाम् । अस्माकं कथं सुखानि संभाव्यन्ते स्वप्नेऽपि ? || ) इह दुष्षमाकाले मिथ्यावासेन मिथ्यात्ववासनया निकृष्टो विरूपो भावो मिथ्यावासनिकृष्टभावस्तस्माद् गलितगुरुविवेकानामस्माकं कथं सुखानि संभाव्यन्ते गण्यन्ते स्वप्नेऽपि ? ॥१५८ जं जीवियमित्तंपि ह धरेमि नामं च सावयाणंपि । तंपि पहु ! महाचोज्जं अइविसमे दूसमे काले || १५९ ॥ ९ वन्दत उभयकालमपि । 1

Loading...

Page Navigation
1 ... 52 53 54 55 56