Page #1
--------------------------------------------------------------------------
________________
मुनिश्रीमोहनलालजी जैन ग्रन्थमाला (२)
नाएमागारिक श्रीनेमिचन्द्र
। विरचितं
o lockch-khsIARE
(Glore
संशोधक:न्यायतीर्थ-व्याकरणतीर्थ-पण्डित
हरगोविन्ददासः।
Page #2
--------------------------------------------------------------------------
________________
Muni Shree Mohanlalji Jaina Granthamala No. 2.
SATTHISAYA PAYARANA
Nemichandra Bhandagarika
with a Commentary in Sanskrit.
EDITED BY
Pandit FARGOVINDDAS T. SHETH,
NYAYATIRTHA AND VYAKARANATIRTHA,
Sanskrit Professor and Examiner,
Calcutta University.
1917.)
| 8 annas.
Page #3
--------------------------------------------------------------------------
________________
PRINTED BY PT. ATMARAM SHARMA, at the George Printing Works, Kalbhairo, Benares City,
and Published by the MUNI SHREE MOHANLALJI JAIN GRANTHMALA OFFICE,
Ramghat, Jain Mandir, Benares City.
Page #4
--------------------------------------------------------------------------
________________
मुनिश्रीमोहनलालजी जैन ग्रन्थमाला नं० २
जाएमागारिक श्रीनेमिचन्द्रविरचितं .
सटीक सहिसयपयर।
राजधन्यपुरवास्तव्यश्रेष्ठित्रिकमचन्द्रतनुजनुषा कलिकाता
विश्वविद्यालयसंस्कृताध्यापक-परीक्षकेण . न्यायतीर्थ-व्याकरणतीर्थपदवीधारिणा पण्डित-हरगोविन्ददासेन परिष्कृत्य संशोधितम् ।
वीरसंवत् २४४३]
[ मूल्यमष्टाणकाः
Page #5
--------------------------------------------------------------------------
Page #6
--------------------------------------------------------------------------
________________
प्रस्तावना।
मूलग्रन्थोऽयं षष्ट्यधिकशतप्राकृतगाथात्मक इति पञ्चाशीत्यादिग्रन्थसार्थ इव गाथापरिमाणोपलक्षितेन 'सट्टिसयपयरण'-( षष्टिशत. प्रकरण-) इत्यभिधानेनाभिधीयत इति नाममात्रेण सामान्यकोटिकतया प्रतिभासमानोऽपि वस्तुतो महत्त्वपरिपूर्ण एवास्तीत्यसंदिग्धं विदग्धैस्तत्परिशीलनप्रवृत्तैर्विज्ञायते । कारणमत्र, ग्रन्थकारेण गौणभावेन सम्यक्त्वादिकं साधारणमपि विषयमसाधारणेन विचारपाटव-स्वातन्त्र्यादिना निरूपयता, प्रधानभावेन स्वसमये, योऽतिप्राचीनोऽभवन्नपि नार्वाचीनः शक्यते वक्तुम् , विद्यमानाया जैनसमाजसंस्थितेर्विहिता निर्भीकमालोचना, या किलैतिहासिकदृष्ट्या यथा गौरवमाविभर्ति, आधुनिकजैनसमाजावस्थायास्तुलनायामपि तथैवोपयुक्ततामावहति, इत्यामूलचूल ग्रन्थमेनमवगाहिष्यमाणानां वर्तमानार्हतसंघस्थितिं च सम्यग् निरीक्षमाणानां विपश्चितां स्पष्टमेव प्रकटीभविष्यति।
विनिर्माताऽस्य भाण्डागारिकोपपदः श्रीनेमिचन्द्रनामा श्राद्धप्रवरः ! यद्यपि निजसत्तासमयस्य क; न क्वाप्युल्लेखो विहितस्तथापि खरतरगच्छपट्टावल्यांसप्तचत्वारिंशत्तमपट्टनायकतया प्रसिद्धस्य श्रीजिनेश्वरसूरेर्ग्रन्थकारपुत्रत्वेन तत्सत्ताकाल एव ग्रन्थकारस्यापि सत्ताकालो निर्विवादं शक्यते विनिर्णेतुम् । श्रीजिनेश्वरसूरेश्च सत्तासमयः पट्टावल्यादिषु विक्रमीयत्रयोदशशताब्दीरूपः सुप्रसिद्ध एवं ।
अस्य लघीयसोऽपि ग्रन्थस्य महत्त्वसंवादकमिव टीकाद्वयं वर्तते । तत्र प्रथमा न तावदुपलब्धा, किन्तु द्वादश्याः कारिकाया व्याख्याने प्रस्तुतटीकाकारेण "इति षष्टिशतबृहवृत्तौ" इत्युल्लेखेन तस्या अस्तित्वं प्रतिपादितम् । द्वितीया पुनरियमेवोपस्थाप्यमाना, पूर्वापेक्षया लघ्वी, अनिर्दिष्टकर्तृनामा च, इति 'कदा केन वा विनिर्मितेयम् ?' इति न सम्यग् निश्चेतुं शक्यते । यद्यपि टीकाया अस्या अन्ते __ "स्वस्मृतिबीजकमेतत् षष्टिशतप्रकरणस्य सद्वृत्तेः । ।
अलिखल्लेखकवदयं शिष्यः श्रीधवलचन्द्रगुरोः ॥” . १ अन्तिमाया कर्तृनामादिप्रतिपादनपराया गाथाया गणनायामविवक्षयेति ध्येयम् । २ यदाह प्रस्तुतग्रन्थटीकाकार एवेहान्त्यगाथावृत्तौ;-"नेमिचन्द्रश्च सज्जनसुतः श्रोजिनेश्वरसूरः पिता च तेन रचिताः” इति । ३ खरतरगच्छपट्टावल्यां तत्संवन्धेऽयमुल्लेख उपलभ्यते;-"श्रीजिनपत्तिसरिपट्ट सप्तचत्वारिंशत्तमः श्रीजिनेश्वरसूरिः। तस्य च १२४५ मार्गशीर्षसुदि एकादश्यां............ जन्म......... तस्य भाण्डागारिकः श्रीनेमिचन्द्र; पिता, लक्ष्मीर्माता । अंबड इति मूलनमा । संवत् १२५५ वेडनगरे दीक्षां दत्त्वा गुरुभिर्वीरप्रभ इति नाम दत्तम्.........."
Page #7
--------------------------------------------------------------------------
________________
इति कारिकया लेखकेन निजगुरुनामपुरस्कारेण तच्छिष्यतया निजपरिचयः कारितः, परं स टीकायाः स्वयं निर्मातृत्वेन वा तत्प्रतिलिपिकारकत्वेन वा निजं शापयतीति न निर्णेतुं शक्यं यावदन्यं बलवत्प्रमाणोपलम्भम्। टीकायामस्यां क्वचित् पर्यायभड्ग्याऽन्यान्यशब्दोपादानेन, कुत्रचिञ्च भावार्थस्यैवोल्लेखेन प्राकृतग्रन्थमक्षरशो जिज्ञासूनां मा भूद् निराशा; इति तदर्थपर्यवसायिनी मूलानिम्नभागे संस्कृतच्छायामहमकार्षम् , टीकायामपि क्वचनापतितानां प्राकृतभाषोल्लेखानामप्यवबोधाय तच्छायां विरचय्य तत्तत्पृष्ठानामधोभागेषु समयोजयम् । प्रा. शासे, एतेन प्राकृतभाषामजानतामवश्यं कश्चिल्लाभो भविष्यतीति । ___ ग्रन्थस्यास्यादर्शपुस्तकत्रयं हस्तलिखितं वाराणसेयश्रीकुशलचन्द्रगणिबृहत्पुस्तकालयाद मण्डलाचार्यश्रीनेमिचन्द्रसूरिद्वारा प्राप्तम्, इति कृतज्ञोऽस्मि तेषाम् । आदर्शपुस्तकेषु तेषु
१ टीकया विभूषितम्, प्रायः शुद्धम्, त्रयोदशपत्रात्मकम् , लेखनसमयाद्युल्लेखरहितमप्यनुमानतः किञ्चित्प्राचीनं च । . २ मूलमात्रम् , गूर्जरभाषार्थेनान्वितम् , नातिशुद्धम् , अष्टादशपत्रात्मकम् , प्रान्ते एतदुल्लेखविराजितं च___ "संवत् १६६८ वर्षे जेठवदि ६ दिने शुक्रवारे सेरगढ स्थाने ॥ श्रीखरतरगच्छाधीश्वर श्रीजिनहंससूरीश्वरशिष्य श्रीपुण्यसागरमहोपाध्याय शिष्य श्रीपदमराजोपाध्याय शिष्य पं० ज्ञानतिलकगणि शिष्य पं० पूर्णसिंहमुनिना लिपीकृतं ॥ श्रीः॥"
३ मूलमात्रम्, शुद्धप्रायम्, अन्यैरपि प्रसिद्धप्रायैर्बहुभिलघुग्रन्यैः सहितमेकत्र पुस्तके संयोजितं चेति ।
एवं त्रिभिरादशैंः कृतसाहाय्येऽप्येतत्संशोधनकर्मणि याः काश्चन दृष्टिदोषभवा वा मतिमान्द्यनिबन्धना वा अशुद्धयो भवेयुः, प्रकृतिकृपा, लवः, कृपालवमाधाय मयि, संशोधयन्तु ता इति प्रार्थये ।
अन्ते, प्राचीनजैनग्रन्थोद्धारैकलक्ष्याया अस्या ग्रन्थमालाया उत्पादकस्यानल्पगुणगणविभूषितस्य साधुश्रेष्ठस्य श्रीप्रतापमुनेर्गुरुभ्योऽप्रतिमप्रतिभासौजन्यादिगुणाकरेभ्यः श्रीजयमुनिभ्यः, येऽत्र कार्ये निजोपदेशद्वारा बहु बहु साहाय्यमन्वतिष्ठन, सहस्रशः साधुवादान् वितरामि, विशपयामि च साग्रहं तान् भूयो भूयस्तथैव साहाय्यमनुष्ठाय निजप्रगुरुनामाङ्कितां ग्रन्थमालामिमामुन्नतिपथे पथिकीकर्तुम् ।
कलिकाता विक्रमसं.१९७३ भाद्रपदशुक्ला प्रतिपत् ।
हरगोविन्दः।
Page #8
--------------------------------------------------------------------------
________________
॥ अहम् ॥ श्रीनेमिचन्द्रभाण्डागारिकविरचितं
सटीकं
सट्ठिसय-पयरणं ।
॥ नमः सर्वविघ्नच्छिदे सर्वविदे श्रीपार्श्वनाथाय । इह प्राप्तसकलमानुष्यादिसामग्रीकेन पुंसा शानचारित्राधारभूते श्रीसम्यक्त्व एव प्राक् प्रवर्तितव्यमित्याकलय्य नेमिचन्द्रनामा श्रावकस्तदुपदेष्ट्रगीतार्थसंविग्नगुरुं परीक्षन् (? माणः) चिरस्य परिभ्रम्य तत्कालवर्त्तिसंविग्नगीतार्थमुनिजनानण्यं श्रीजिनपत्तिसूरिसुगुरुं लब्धवान् । ततस्तेभ्यो शातशुद्धदेवादितत्त्वः पराँश्च देवादितत्त्वेषु द्रढयनिद प्रकरणं चक्रे । तदाद्यगाथा
अरहं देवो सुगुरू सुद्धं धम्म च पंचनवकारो। धन्नाण कयत्थाणं निरंतरं वसह हिययम्मि ॥१॥ [ अर्हन् देवः सुगुरुः शुद्धो धर्मश्च पञ्चनमस्कारः ।
धन्यानां कृतार्थानां निरन्तरं वसति हृदये ॥]
॥ अरहं० ॥ इन्द्रादिदेवकृतां पूजामहतीत्यर्हन, अविद्यमानं रह एकान्तो यस्य वा स अरहाः, दीव्यति शिवे इति देवः, दीव्यति विजिगीषतेऽष्ट कर्माणीति देवः । तथा, गृणाति धर्मशास्त्रार्थमिति गुरुः, सुष्टु शोभनो गुरुः सुगुरुः, स च सविग्नो गीतार्थश्च । तथा, शुद्धो हिंसादिमलरहितो दुर्गतिपतजन्तुधरणाद् धर्मः । इह प्रथमार्थे द्वितीया। चः समुच्चये । तथा, पश्चानां परमेष्ठिनां नमस्कारः पञ्चनमस्कारः। धन्यानां पुण्यवताम्, कृतो ग्रन्थिभेदलक्षणोऽर्थो यैस्ते कृतार्थास्तेषां, हृदयेऽर्हदादयो निरन्तरं निवसन्ति ॥१॥
जइ न कुणसि तवचरणं न पढसि न गुणेसि देसि नो दाणं । ता इत्तियं न सकसि जं देवो एक अरहंतो ? ॥ २॥ [ यदि न करोषि तपश्चरणं न पठसि न गुणयसि ददासि नो दानम् । - तदैतावन्न शक्नोषि यद् देव एकोऽईन् ? ॥]
Page #9
--------------------------------------------------------------------------
________________
सटिसयपयरणं । यदीत्यभ्युपगमे, न कुरुषे तपः प्रधानं द्विभेदम्, चरणं चारित्रं तपश्चरणम्, तपसश्चरणं करणं वा, तस्य दुरनुष्ठेयत्वात् । तथा, न पठसि श्रुतं प्रकरणादि, आलस्यादिदोषात् । तथा, न गुणयसि निद्राविकथादिना पूर्वाधीतम् । न ददासि दानं देयवस्तु । 'ता' तदा, 'इत्तियं' इति एतावद् न शक्नोषि कर्तुम्, यद् देव एकोद्वितीयोऽर्हनेव ममाराध्य इति । उपलक्षणात् सुगुरुः सुधर्मश्च, श्रेणिकादेरिव ॥२॥
रे जीव ! भवदुहाई एकं चिय हरइ जिणमयं धम्म । इयराणं पणमंतो सुहकज्जे मूढ ! मुसिओ सि ॥३॥ [रे जीव ! भवदुःखान्येक एव हरति जिनमतो धर्मः ।
इतरान् प्रणमन् शुभकार्ये मूढ ! मूषितोऽसि ॥ ] 'रे' इति संभाषणेऽव्ययम्, जीव आत्मन् ! भवदुःखानि एक एव हरति जिनमतोऽहत्प्रणीतो धर्मः, उपलक्षणत्वात् प्रणेता देवः, तदुपदेष्टा च गुरुः । इह द्वितीया प्रथमार्थे । ततश्च 'इयराणं' इति द्वितीयास्थाने षष्ठीनिर्देशात्, इतरान् देवविशेषान् कुगुरूंश्च प्रणमन् शुभकार्ये पुण्यार्थ, मूढ मूर्ख ! मुषितोऽसि निस्सारीकृतोऽसि ॥३॥
देवेहिं दाणवेहि य सुओ मरणाओ रक्खिओ कोइ ?। दढकयजिणसम्मत्ता बहुयवि अजरामरं पत्ता ॥४॥ [ देवैर्दानवैश्च श्रुतो मरणाद् रक्षितो कोऽपि ।
दृढकृतजिनसम्यक्त्वा बहवोऽप्यजरामरं प्राप्ताः ॥] देवैः सुरैः, दानवैश्वासुरैः, श्रुत उपलक्षणत्वाद् दृष्टो वा मरणाद् रक्षितः कश्चिदपि ? प्रसादितप्रेतपतिशङ्करवन्न कश्चित् । किन्तु दृढीकृतजिनप्रणीतसम्यग्दर्शना बहवोऽपि जीवा अजरामरं 'पदम्' इति शेषः, प्राप्ताः, उपलक्षणत्वात् प्राप्नुवन्ति, प्राप्स्यन्ति चेति । भावप्रधानत्वानिर्देशस्याजरामरत्वं वा ॥४॥
जह कुवि वेसारत्तो मुसिज्जमाणोवि मन्नए हरिसं । तह मिच्छवेसमुसिया गयंपि न मुणंति धम्मनिहिं ॥५॥ [ यथा कोऽपि वेश्यारक्तो मुष्यमाणोऽपि मन्यते हर्षम् । तथा मिथ्यात्ववेश्यामुषिता गतमपि न जानन्ति धर्मनिधिम् ॥] यथा कश्चिद् वेश्यारक्तो मुष्यमाणोऽपि मन्यते हर्षम्, 'तथा'
Page #10
--------------------------------------------------------------------------
________________
सहिसयपयरणं। इत्यौपम्ये, मिथ्यात्ववेश्यामुषिता लोका गतमपि न जानन्ति चारित्रधर्मस्य निधिं सम्यक्त्वमित्यर्थः ॥५॥
अथ लोकप्रवाहरूपकुलक्रमं निरस्यन्नाहलोयपवाहे सकुलक्कमम्मि जइ होइ मूढ ! धम्मुत्ति । ता मिच्छाणवि धम्मो, थका य अहम्मपरिवाडी ॥६॥ [ लोकप्रवादे स्वकुलक्रमे यदि भवति मूढ ! धर्म इति ।
तदा म्लेच्छानामपि धर्मः स्थिता चाधर्मपरिपाटिः ॥] निर्विवेकलोकस्य प्रवाहोऽविचारिता प्रवृत्तिस्तद्रूपे स्वकुलाचारे क्रियमाणे यदि भवति रे मूढ ! धर्मः। 'इति' वाक्यसमाप्तौ । तदा म्लेच्छानामपि किरातादीनां धर्मो भावी । प्रायस्तेऽपि स्वकुलकमरता एव । ततः किम् ? । 'थक्का'. इति देशीयभाषायां स्थिता, चः पवधारणे, पापपद्धतिः ॥ ६॥
लोयम्मि रायनीई नायं न कुलक्कमम्मि कइयावि । किं पुण तिलोयपहुणो जिणिंदधम्माहिरायम्मि ? ॥ ७॥ [ लोके राजनीतितिं न कुलकमे कदापि ।
किं पुनस्त्रिलोकीप्रभोजिनेन्द्रधर्माधिराज्ये ? ॥]
लोके हातमस्ति । किं तत् ? । राजनीतिर्न कुलक्रमेण कुलक्रमापेक्षया प्रवर्तत इति, कस्मिन्नपि काले, यतो वणिगादिरपि राज्यं प्राप्य न वाणिज्यादिस्वकुलक्रममपेक्षते । यथा नापितभूनन्दः कुलक्रमे न प्रवृत्त इति। किं पुनस्त्रिलोकप्रभोरर्हतो जिनेन्द्रधर्माधिराज्ये ?। 'जिणिंदधम्माहियारम्मि' इति पाठे जिनेन्द्रधर्मस्याधिकार इव राज्यव्यापार इव तस्मिन् कुलक्रमे हिंसादिरूपे प्रवृत्तिर्न युक्तेति ॥ ७॥
जिणवयणवियन्नूणवि जीवाणं जं न होइ भवविरई । ता कह अवियन्नूणं मिच्छत्तहयाण पासम्मि ? ॥८॥ [जिनवचनविज्ञानामपि जीवानां यन्न भवति भवविरतिः ।
तदा कथमाविज्ञानां मिथ्यात्वहतानां पार्श्वे ? ॥ ] जिनवचनविज्ञानामपि केषाञ्चित् कदाप्रहिणां यद् न जायते भवविरागो गोष्ठामाहिलादीनामिव, तत् कथमविज्ञानां मिथ्यात्वहतानां पार्श्व भवविरतिर्भवतीति ॥ ८॥
Page #11
--------------------------------------------------------------------------
________________
सढिसयपयरण । विरयाणं अविरए जीवे दद्रूण होइ मणतावो । हाहा ! कह भवकूवे बुडंता पिच्छ नचंति ? ॥ ९ ॥ [विरतानामविरताञ्जीवान् दृष्टा भवति मनस्तापः ।
हाहा ! कथं भवकूपे ब्रुडन्तः पश्य नृत्यन्ति ? ॥] विरतानां षड्जीवनिकायवधादिविरतिमतामविरतान् जीवान् दृष्ट्वा भवति मनस्ताप इव, तेषां भाव्यपायचिन्तया करुणेत्यर्थः । कौशिक दृष्ट्वा श्रीवीरस्येव । 'हाहा' इति खेदे । कथं भवकृपे डन्तो मजन्तः, पश्य, 'हे प्रात्मन्' इति शेषः, नृत्यन्तीव हण्यन्तीत्यर्थः ॥६॥
आरंभयम्मि पावे जीवा पावंति तिक्खदुक्खाई । जं पुण मिच्छत्तलवं तेण न लहंति जिणबोहिं ॥ १० ॥ [ आरम्भने पापे जीवाः प्राप्नुवन्ति तीक्ष्णदुःखानि ।
यत्पुनर्मिथ्यात्वलवं तेन न लभन्ते जिनबोधिम् ॥ ]
आरम्भो जीवोपद्रवणं तस्माजाते पापे कृते जीवाः प्राप्नुवन्ति, कटुविपाकदुःखान्येव कृष्णादयः । यत् पुनर्मिथ्यात्वलवं कुर्वन्ति तेन न लभन्ते जिनबोधि प्रेत्य सम्यक्त्वम् ॥ १०॥ अथ येन बोधिर्न लभ्यते तमाहजिणवरआणाभंगं उम्मग्गउस्सुत्तलेसदेसणया ।
आणाभंगे पावं ता जिणमय दुकरं धम्मं ॥ ११ ॥ [जिनवराज्ञाभङ्ग उन्मार्गोत्सूत्रलेशदेशनात् ।
आज्ञाभङ्गे पापं तस्माजिनमतो दुष्करो धर्मः ॥] जिनवराशाऽर्हदागमस्तद्भङ्गः खण्डनं तम् । किमित्याह-उन्मार्गोत्सूत्रयोर्लेशस्य देशनात् कथनात् 'जातं वदन्ति तीर्थङ्कराः' इति क्रियाध्याहार्या । तर्हि को दोषः? । प्राक्षाभङ्गे पापं स्यात् । 'ता' तस्मात् पापात् जिनमतो धर्मो दुष्करः॥ ११ ॥
जिणवरआणारहियं वद्धारंतावि केवि जिणदव्वं ।
बुड्डुति भवसमुद्दे मूढा मोहेण अन्नाणी ॥ १२ ॥ [जिनवराज्ञारहितं वर्धयन्तोऽपि केऽपि जिनद्रव्यम् । ब्रुडन्ति भवसमुद्रे मूढा मोहेनाज्ञानाः ॥] -
Page #12
--------------------------------------------------------------------------
________________
सहिसयपयरणं । अर्हदाशारहितं यथा स्यादेवं देवद्रव्यं धान्यसंग्रह-क्षेत्रादिविधान-कल्पपाल-मात्सिकादिपापलोककलान्तरदानाद्यविधिना वर्धयन्तोऽपि मूढा भवाब्धौ ब्रुडन्ति । किंविधाः । मोहेन मोहनीयकर्मणाऽज्ञानिनो निर्विवेकाः । शुभस्थानेष्ववञ्चकवणिगादिषु कलान्तरप्रयोगं करोति जिनद्रव्यवृद्धये विवेकवानिति । तदुक्तम् “वेड्ढेइ य जिणव्वं विसुद्धभावो सयाकालं" इति। अमुं चोपायं विना जिनद्रव्यवृद्धिर्न भवति। तस्मादेवं वृद्धिः कर्तव्या पूर्वोक्तप्रकारेणेति षष्टिशतबृहवृत्तौ ॥१२॥
कुग्गहगहगहियाणं मुद्धो जो देइ धम्मउवएसं ।
सो चम्मासीकुक्कुरवयणम्मि खिबेइ कप्पूरं ॥ १३ ॥ [ कुग्रहग्रहगृहीतानां मुग्धो यो ददाति धर्मोपदेशम् ।
स चर्माशिकुर्कुरवदने क्षिपति कर्पूरम् ॥ ]
कुग्रहः स्वमतिकल्पितस्थापनं स एव ग्रहो भूतादिस्तेन गृहीतास्तेषां मूढो यो ददाति धर्मोपदेशं शुद्धधर्मप्ररूपणालक्षणम् , स चर्माशिकुर्कुरवदने क्षिपति कर्पूरमिव । तदुक्तम्
उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ।
पयःपानं भुजङ्गानां केवलं विषवर्धनम् ॥" रोसोवि खमाकोसो सुत्तं भासंतयस्स धन्नस्स । उस्सुत्तेण खमावि य दोस महामोहआवासो ॥१४॥ [ रोषोऽपि क्षमाकोषः सूत्रं भाषमाणस्य धन्यस्य ।
उत्सूत्रेण क्षमापि च दोषो महामोहावासः ॥ ]
रोषोऽपि, इह 'अपि' संभावने, स च संभाव्यते, प्रायः प्रावचनिकानां न तदुदयः, क्वचिदयोग्यदेशनानिषेधस्खलितचोदनादौ कृत्रिमः स चेद् भवति, सोऽपि तमाकोश एव । कस्य ?। सूत्रसंवादि भाषमाणस्य धन्यस्य । उत्सूत्रेण क्षमापि च दोषो दूषणम् । विभक्तिलोपोऽत्र । कि० महामोहस्यावास इव ॥१४॥
एक्कोवि न संदेहो जे जिणधम्मेण अस्थि मुक्खसुहं । तं पुण दुन्विन्नेयं अइउक्कडपुन्नरहियाणं ॥ १५ ॥
१ वर्धयति च निनद्रव्यं विशुद्धभावः सदाकालम् ।
Page #13
--------------------------------------------------------------------------
________________
.
सहिसयपवरणं । [ एकोऽपि न संदेहो यजिनधर्मेणास्ति मोक्षसुखम् ।
स पुनर्विज्ञेयोऽत्युत्कटपुण्यरहितानाम् ॥] इह 'अपि' पुनरर्थे, एकः पुनर्न संदेहो यज्जिनधर्मे, तृतीयाऽत्र सप्तम्यर्थे, आराध्यमानेऽस्ति मोक्षसुखम् । तं पुनर्जिनधर्ममत्युत्कटपुण्येन सम्यक्त्वलक्षणेन रहितानामभिनिवेशिनां दुर्विज्ञेयम्, न तु सर्वेषां लघुकर्मणाम् ॥१५॥
सव्वपि वियाणिज्जइ लब्भइ तह चउरिमाइ जणमझे । एकंपि भाय ! दुलहं जिणमयविहिरयणसुवियाणं ॥ १६ ॥ [ सर्वमपि विज्ञायते लभ्यते तथा चतुरिमादि जनमध्ये ।
एकमपि भ्रातः ! दुर्लभं जिनमतविधिरत्नविज्ञानम् ॥]
सर्वमपि लोकव्यवहारजनरञ्जनादि विज्ञायते, तथा, लभ्यते चतुरिमा-उचितकार्येषु दक्षता तथाविधजनमध्ये । किं तर्हि ? । 'अपिः' अवधारणे । एकमेव हे भ्रातः! दुर्लभम् । किं तत्?। अर्हन्मतस्य विधिरेव रत्नमिव रत्नं तस्य सुष्टु विज्ञानम्, उपलक्षणत्वात् करणं च ॥१६॥
मिच्छत्तबहुलयाए विसुद्धसम्मत्तकहणमवि दुलहं ।
जह वरनरवइचरियं पावनरिदस्स उदयम्मि ॥ १७॥ [ मिथ्यात्वबहुलतायां विशुद्धसम्यक्त्वकथनमपि दुर्लभम् ।
यथा वरनरपतिचरितं पापनरेन्द्रस्योदये ॥] मिथ्यात्वस्य पञ्चभेदस्य कालादिदोषाद् बहुलतायां मिथ्यात्वमिथ्यात्ववतोरभेदाद् मिथ्यात्वप्राचुर्ये विशुद्धसम्यक्त्वकथनमपि,प्रास्तां पालनम्, दुर्लभम्; यथा वरनरवरस्य राक्षश्चरितं शिष्टपालनदुष्टनिनहादि,तत् पापनरेन्द्रस्यान्यायनृपतेरुदये कथयितुमपि दुर्लभामिति ॥१७॥
बहुगुणविज्जानिलओ उस्सुत्तभासी तहावि मुत्तव्यो । जह वरमणिजुत्तोवि हु विग्धकरो विसहरो लोए ॥ १८ ॥ [ बहुगुणविद्यानिलय उत्सूत्रभाषी तथापि मोक्तव्यः । यथा वरमणियुक्तोऽपि हि विघ्नकरो विषधरो लोके ॥]
१ अत्र 'विदुः' इति क्रियाऽध्याहार्या, द्वितीयाया अन्यथानुपपत्तेः, धर्मशब्दस्य संस्कृते पुल्लिङ्गत्वात् ।
Page #14
--------------------------------------------------------------------------
________________
सहिसयपयरणं । बहवो गुणा निष्ठुरक्रियाकरणादयः, विद्याश्च श्रुताभ्यासरूपाः, तासां निलय इव, ईदृगपि, उत्सूत्रभाषी मोक्तव्य एव । यथा विषापहारमणियुक्तोऽपि, 'हुः' अवधारणे, स चाने योजयिष्यते, विषधरो विघ्नकर एवेति ॥ १८॥
सयणाणं वामोहे लोया घिपति अत्थलोहेण । नो धिप्पति सुधम्मे रम्मे हा ! मोहमाहप्पं ॥ १९ ॥ [ स्वजनानां व्यामोहेन लोका गृह्यन्तेऽर्थलोभेन ।
नो गृह्यन्ते सुधर्मेण रम्येण हा ! मोहमाहात्म्यम् ॥ ]
स्वजनानां स्वज्ञातीनां व्यामोहेन, तृतीयार्थे सप्तमीयम्,. लोका गृह्यन्ते स्वायत्तीक्रियन्ते । व्यामोहोऽत्र 'अस्मत्सगीनोऽयम् (?), मत्स्वजातेर्वा एत एवाहताः' इत्यादिः । अनुक्तस्य चस्येहाक्षेपादर्थलोभेन च गृह्यन्ते । अर्थोऽत्र प्रयोजनम् । एते ह्यस्माकं मन्त्रतन्त्रादिनोपकारं कुर्वन्तीति । परं नो गृह्यन्ते सुधर्मेण रम्येन रमणीयेन । यदुक्तम्;--"धर्माजन्म कुले शरीरपटुता सौभाग्यमायुर्बलं, धर्मेणैव भवन्ति निर्मलयशो-" इति वचनात् । 'हा' इति खेदे । मोहमाहात्म्यम् ॥ १६ ॥
गिहवावारपरिस्समखिन्नाण नराण वीसमणठाणं ।
एगाण होइ रमणी अन्नेसि जिणिंदवरधम्मो ॥ २०॥ [गृहव्यापारपरिश्रमखिन्नानां नराणां विश्रमणस्थानम् ।
एकेषां भवति रमण्यन्येषां जिनेन्द्रवरधर्मः ॥]
गृहं भार्या, उपलक्षणत्वात् पुत्रादिकुटुम्ब तन्निमित्तं व्यापारः कृषिवाणिज्य सेवादिको वित्तोपार्जनलक्षणस्तेन यः परिश्रमः खेदस्तेन खिनानां नराणां विश्रामस्थानमेकेषां केषाञ्चिद् भवति रमणी “वक्त्रं पूर्णशशी सुधाऽधरलता-" इतिवादिनाम् ; तथा, अन्येषां "सल्लं कामा विसं कामा" इतिवादिनां जिनेन्द्रवरधर्मः ॥२०॥
तुल्लेवि उयरभरणे मूढअमूढाण पिच्छसु विवागं ।
एगाण नरयदुक्खं अन्नेसि सासयं सोक्ख ॥ २१ ॥ [ तुल्येऽप्युदरभरणे मूढामूढानां पश्य विपाकम् । एकेषां नरकदुःखमन्येषां शाश्वतं सौख्यम् ॥]
१ शल्यं कामा विषं कामाः।
Page #15
--------------------------------------------------------------------------
________________
... सट्ठिसयपयरणं । तुल्येऽपि जठरपूरणे गृहव्यापारकार्य मूढामूढयोरविवेकिविवेकिनोः 'प्रेक्षस्व विपाकम् । एकेषां मूर्खाणां जठरमात्रभरणार्थ नानाविधाकृत्यकतामुत्तरोत्तरमहारम्भादिरतानामातपेद्रध्यायिनां नरकदुःखं भवति । अन्येषाममूढानां कामभोगादिविरक्तचित्तानां दुर्भिक्षादावपि महारम्भ परिहरतां सदयानां शाश्वतमिव शाश्वतमनेकसागरोपमस्थायित्वाद् देवलोकसुखं शाश्वतं सुखम् ॥ २१॥
जिणमयकहापबंधो संवेगकरो जियाण सव्वोवि । संवेगो सम्मत्ते सम्मत्तं सुद्धदेसणया ॥ २२ ॥ ता जिणआणपरेण धम्मो सोअव्व सुगुरुपासम्मि ।
अह उचियं सड्ढाओ तस्सुवएसस्स कहगाओ ॥ २३ ॥ [जिनमतकथाप्रबन्धः संवेगकरो जीवानां सर्वोऽपि ।
संवेगः सम्यक्त्वे सम्यक्त्वं शुद्धदेशनया ॥ तस्माजिनाज्ञापरेण धर्मः श्रोतव्यः सुगुरुपार्थे । अथोचितं श्राद्धात् तस्योपदेशस्य कथकात् ॥ ] यस्माज्जिनमतस्य कथाप्रबन्धः सर्वोऽपि संवेगो मोक्षाभिलाषस्तत्करो जीवानां भवति । “चिरसंचियपावपणासणीए" इतिवचनात् । संवेगश्च सम्यक्त्वे सत्येव भवति नान्यथा । सम्यक्त्वं च शुद्धयोत्सूत्ररहितया देशनया भवति । यद्यपि तद् निसर्गादधिगमाद् वोत्पद्यते, तथापि प्रायो मनुष्याणां शुद्धदेशनयैवोत्पद्यत इति तद्ग्रहणम् । 'ता' तस्माज्जिनाशापरेण पुंसा धर्मः श्रोतव्यः । क्वेत्याह-संविग्नगीतार्थसूत्राविरुद्धभाषिगुरुसमीपे । अथेति पक्षान्तरे । यदि साधवो न भवन्ति तदोचितं यथा स्यात्तथा श्राद्धाद् धारणादिसमेतात् श्रोतन्यो धर्म इति । औचित्यं चेदं श्राद्धस्य, एकस्य द्वित्राणां वाग्रे सभाप्रबन्धमकृत्वा यथा सुगुरुवदनादवधारितं तथैव वक्तीति । किंभूतात् । तस्य सुगुरोरुपदेशं कथयतीत्युपदेशकथकस्तस्मादिति गाथाद्वयार्थः ॥२२॥२३॥
सा कहा सो उवएसो तन्नाणं जेण जाणए जीवो । सम्मत्तमिच्छभावं गुरुअगुरुधम्मलोयठिई ॥ २४ ॥ [ सा कथा स उपदेशस्तज्ज्ञानं येन जानाति जीवः ।
सम्यक्त्वमिथ्याभावं गुर्वगुरुधर्मलोकस्थितीः ॥] १ चिरसंचितपापप्रणाशिन्या।
Page #16
--------------------------------------------------------------------------
________________
सट्ठियपयरणं ।
विकथाया नेहाधिकारः, किन्तु सुकथाया एव । तत्रापिण्यादिका सैव कथा प्रमाणम्, एवं स एव धर्मप्ररूपणात्मक उपदेशः, तदेव ज्ञानमवबोधरूपम् येन जानाति जीवः सम्यक्त्वमिथ्यात्वभावम् ; तथा, "महाव्रतधरा धीराः" इति, “ सर्वाभिलाषिणः- " इति च गुर्वगुर्वोर्भावम्; तथा, 'राईभोयणविरई' इत्यादि, "यस्यास्ति वित्तं स नरः कुलीनः " इत्यादि च धर्मस्थितिलोकस्थित्योर्भावमुपादेयहेयभावेन । तदन्या न कथा, नोपदेशः, न ज्ञानम्, अफलत्वादिति ॥ २४ ॥
जिणगुणरयणमहानिहिं लद्धूणवि किं न जाइ मिच्छत्तं ? | अह पत्ते यवि निहाणे किवणाण पुणोवि दारिदं ॥ २५ ॥ [ जिनगुणरत्नमहानिधिं लब्ध्वापि किं न याति मिथ्यात्वम् ? | अथ प्राप्ते चापि निधाने कृपणानां पुनरपि दारिद्र्यम् ॥ ]
जिनगुणा ज्ञानचारित्रादयस्त एव रत्नानि तेषां महानिधिरिव, स च सिद्धान्तः, तस्यैवागमे गणिपिटकत्वात्, ततस्तं लब्ध्वापि श्रुत्वेत्यर्थः । ' किम्' इति प्रश्ने, न याति मिथ्यात्वमभिनिवेशवत्ता ? | अथवा प्राप्तेऽपि निधाने कृपणानां पुनरपि तत्प्राप्त्यनन्तरमपि दारिद्र्यं 'न याति' इति संबध्यते, दानभोगयोरसंभवेन तेषाम् ||२५||
सो जय जेण विहिया संवच्छर चाउम्पासियसुपव्वा । निर्द्धधसाण जाय जेसिं पभावाउ धम्ममई ॥ २६ ॥ [ स जयतु येन विहितानि सांवत्सरचातुर्मासिकसुपर्वाणि । निष्ठुराणां जायते येषां प्रभावाद् धर्ममतिः ॥ ]
स प्रक्रमाज्जिनो जयतु येन भगवताऽनुपकृतोपकारिणा विहितानि सांवत्सरिकचातुर्मासिकसुपर्वाणि, प्राकृतत्वात् पुंस्त्वम् उपलक्षणत्वाश्चतुर्दश्यष्टमीपूर्णिमामावासीकल्याणिकदिनानि । येषां सुपर्वणां प्रभावाद 'निर्द्धधसानां' निर्दयानामपि जायते धर्ममतिः ॥ २६ ॥
नामपि तस्स असुहं जेण निदिट्टाई मिच्छपव्वाई | जेसिं अणुसंगाओ धम्मीणवि होइ पावमई ॥ २७ ॥ [ नामापि तस्याशुभं येन निर्दिष्टानि मिथ्यापर्वाणि । येषामनुषङ्गाद् धर्मिणामपि भवति पापमतिः ॥ ]
१ रात्रिभोजनविरतिः ।
!
Page #17
--------------------------------------------------------------------------
________________
सहिसयपयरणं । नामापि, प्रास्तां वन्दन-संसर्गादिः तस्य कुतीथिकादेरशुभं पापं, येन निर्दिष्टानि मिथ्यात्वपर्वादीनि, येषां पर्वणमनुषङ्गात् प्रसङ्गाद धर्मिहामपि भवति पापमतिः असत्यभाषण-धूलिक्षेप-काष्ठचौर्यादिरूपा ॥२७॥
मज्झट्टिई पुण एसा अणुसंगेणं हवंति गुणदोसा । उक्किटपुनपावा अणुसंगेणं न घिप्पंति ॥ २८ ॥ [ मध्यस्थितिः पुनरेषाऽनुषङ्गेण भवन्ति गुणदोषाः ।
उत्कृष्टपुण्यपापा अनुषङ्गेण न गृह्यन्ते ॥]
मध्यस्थानां स्थितिमर्यादा पुनरेषा । केत्याह-अनुषङ्गेण संसर्गेण भवन्ति गुणदोषाः, भावुकत्वात्तेषाम् । उत्कर्षप्राप्तसुकृतदुष्कृता अनुषड्रेण न गृह्यन्ते-संसर्गात् तेषां गुणदोषो न स्त इति, काचमध्यस्थवै. इर्यमणिवत्, इतुवाटस्थनलस्तम्भवञ्च ॥२८॥
अइसयपावियपावा धम्मियपव्वेसु तोवि पावरया । न चलंति सुद्धधम्मा धन्ना किवि पावपव्वेसु ॥ २९ ॥ [अतिशयप्रापितपापा धार्मिकपर्वसु ततोऽपि पापरताः ।
न चलन्ति शुद्धधर्माद्धन्याः केऽपि पापपर्वसु ॥] 'तोवि' इतिशब्दोऽत्र संबध्यते, तेन यस्मादुत्कृष्टपुण्यपापाः संसर्गेण न गृह्यन्ते, 'तो' तस्मादतिशयमाधिक्यं प्रापितं पापं यैस्ते धार्मिकाणां पर्वस्वपि पापरता आरम्भाद्यासक्ता भवन्ति । तथा, न चलन्ति शुद्धधर्माद्धन्याः केऽप्यतिशयप्रापितधर्माणः पापपर्वस्वपि' इति गम्यम् ॥२६
लच्छीवि हवइ दुविहा एगा पुरिसाण खवइ गुणरिद्धी। एगा य उल्लसंती अपुनपुनाणुभावाओ ॥ ३०॥ [ लक्ष्मीरपि भवति द्विविधैका पुरुषाणां क्षपयति गुणीः ।
एका चोल्लसन्ती अपुण्यपुण्यानुभावात् ॥] पर्ववल्लक्ष्मीरपि द्विधा भवति, एकाऽशानकष्टलब्धा पुरुषाणां क्षपयति ज्ञानादिगुणानामृद्धिं समृद्धिम् । तथा, एका च सत्पात्रदानादिजाता लक्ष्मीरुल्लसन्ती वृद्धिं गच्छन्ती पुंसां गुणर्द्धि धनसार्थवाहशालिभद्रादीनामिव 'पुग्णाति' इति गम्यम् । कुतः ? । अपुण्य-पुण्ययोरनुभावः प्रभावस्तस्मात् ॥३०॥
Page #18
--------------------------------------------------------------------------
________________
सहिसयपयरणं । गुरुणो भट्टा जाया सड्ढे थुणिऊण लिंति दाणाई ।
दुनिवि अमुणियसारा दूसमसमयम्मि बुड्डेति ॥ ३१ ॥ [गुरवो भट्टा जाताः श्राद्धान् स्तुत्वा लान्ति दानानि ।
द्वावप्यज्ञातसारा दुःषमासमये बुडन्ति ॥]
गुरवो लिङ्गोपजीविनः, भट्टा बन्दिन इव जाताः, श्राद्धान् श्रावकनाम्नः 'त्वं त्यागी, त्वं भोगी, त्वत्पूर्वजा अपि दानशौण्डाः' इत्यादिना स्तुत्वा लान्ति गृह्णन्ति दानानि पिण्डशय्यावस्त्रपात्रादिदेयद्न्याणि । उपलक्षणत्वाद् नैमित्तिका इव निमित्तं मन्त्रतन्त्रादि प्रयुज्य दानानि लान्ति । ददाना अपि ह्येते 'अहो! एते अस्मत्कीर्ति कुर्वते, निमित्तादिना चोपकुर्वते' इति विचार्य यथेप्सितं ददते, न मुधिकया । ततो द्वावपि गुरुश्रावको “गिहिणो वेयावडियं न कुज्जा" इति, तथा “नक्खत्तं सुमिणं जोग" इति, तथा “पौसत्थाई वंदमाणस्स" इत्येवंविधं परमार्थमजानानौ दुःषमासमायां ब्रुडन्ति 'भवाम्बुधौ' इति शेषः ॥३१॥
मिच्छपवाहे रत्तो लोओ परमत्थजाणो थोवो ।
गुरुणो गारवरसिया सुद्धं धम्मं निगृहंति ॥ ३२॥ [मिथ्याप्रवाहे रक्तो लोकः परमार्थज्ञायकः स्तोकः।
गुरवो गारवरसिकाः शुद्ध धर्म निगृहन्ति ॥] : मिथ्या अलीकप्रवाहः-अविचारपूर्विका प्रवृत्तिस्तस्मिन्नासक्तो लोको यतः, ततः परमार्थस्य देवादिसदसद्विचारस्य शायकः स्तोकः । गुरवो नामाचार्या गौरवरसिका ऋद्धिरससातलम्पटाः शुद्ध मार्ग तप:संयमलक्षणं गोपयन्ति, "परिभवइ उम्गकारी सुद्धं मग निगृहई बालो" इति वचनात् ॥३२॥
सव्वोवि अरह देवो सुगुरु गुरू भणइ नाममित्तण । तेसिं सरूवं सुहयं पुनविहूणा न याति ॥ ३३ ॥ [ सर्वोऽप्यर्हन् देवः सुगुरुर्गुरुर्भणति नाममात्रेण ।
तेषां स्वरूपं सुखदं पुण्यविहीना न जानन्ति ।।] सर्वोऽपि श्राद्धकुलोत्पन्नः पृष्टः सन् 'अर्हन देवः, सुगुरुश्च गुरुः, १ गृहिणो वैयावृत्त्यं न कुर्यात् । २ नक्षत्रं स्वप्नं योगम् । ३ पार्श्वस्थादीन् वन्दमानस्य । ४ परिभवत्युग्रकारिणः शुद्धं धर्म निगूह ति बालः ।
Page #19
--------------------------------------------------------------------------
________________
सहिसयपयरणं । उपलक्षणवादईदुक्तो धर्मश्च मम' इति नाममात्रेण भणति । परं तेषां स्वरूपं शुभदं सुखदं वा पुण्यविहीना न जानन्ति ॥३३॥
सुद्धा जिणआणरया केसि पावाण हुंति सिरमूलं ।
जेसिं ते सिरसूलं केसि मूढाण ते गुरवो ॥ ३४ ॥ [ शुद्धा जिनाज्ञारताः केषां पापानां भवन्ति शिरःशूलम् । ___ येषां ते शिरःशूलं केषां मूढानां ते गुरवः ॥]
शुद्धाश्चित्तशुद्धिमन्तो यतयो जिनाकारताः केषाञ्चित् पापानां भवन्ति शिरःशूलमिव । येषां च ते शुद्धाः शिरःशूलं, केषांचिन्मूढानां ते तादृशा अपि गुरवः सन्तीति । तेभ्यश्च शुद्धस्वरूपवेषिभ्यः कथं देवादिस्वरूपज्ञानं भवतीत्यर्थः ॥३४॥
हाहा ! गुरुअअकज्जं सामी नहु अस्थि कस्स पुक्करिमो ? ।
कह जिणवयणं कह सुगुरुसावया कह इय अकज्ज ? ॥३५॥ [ हाहा ! गुर्वकार्य स्वामी नैवास्ति कस्य पूत्कर्मः ? ।
कथं जिनवचनं कथं सुगुरुश्रावकाः कथमित्यकार्यम् ! ॥] 'हाहा' इति खेदे गुरुकमकर्तव्यं यदेवंविधा अपि गुरुत्वेनाङ्गीक्रियन्ते । स्वामी राजा 'नहु' नैवास्ति, ततः कस्याने पूत्कुर्महे कार्यमकार्यमिति ?। तद्भिया हि ते स्वयं निवर्तन्ते, स वा हठाद् निवर्तयति तान् । तद्भावे तदनर्थकमेव । कुतः ? । 'कह' इति कुत्र जिनवचनम्, कुत्र सुगुरुश्रावकाः, कुत्र चेदमकार्य कुगुर्वङ्गीकाररूपम् ? ॥३५॥
सप्पे दिढे नासइ लोओ नहु किंपि कोइ अक्खेइ । ....... जो चयइ कुगुरुसप्पं हा ! मूढा भणइ तं दुटुं ॥ ३६ ॥
[ सर्प दृष्टे नश्यति लोको नैव किमपि कोऽप्याख्याति ।
यस्त्यजति गुरुसर्प हा ! मूढा भणन्ति तं दुष्टम् ॥] सर्प दृष्टे नश्यति लोकः, नैव कोऽपि दुर्मुखोऽपि किमपि 'कातरोऽयम्' इत्यादि किञ्चिदप्याख्याति तस्य । यश्च लघुकर्मा शाततत्त्वः सन् परिहरति कुगुरुसर्पम् , हा! मूढाः कुगुरुमोहिता भणन्ति तं त्यागिनं दोषवन्तम्, 'किलानेन स्ववंशागता गुरवो मुक्ताः' इति निन्दन्तीत्यर्थः॥३६॥
सप्पो इक्कं मरणं कुगुरू अणताई देइ मरणाई । तो वर सप्पं गहिउँ मा कुगुरुसेवणं भद्द ! ॥ ३७॥
Page #20
--------------------------------------------------------------------------
________________
सहिसयपयरणं । [ सर्प एकं मरणं कुगुरुरनन्तानि ददाति मरणानि । ततो वरं सर्प ग्रहीतुं मा कुगुरुसेवनं भद्र ! ॥]
सर्पः स्पृष्टो विराद्धो वा एकमित्येकवारं मरणं ददाति, तथा कुगुरुराराधितोऽनन्तानि ददाति मरणानि । 'तो' तस्माद् वरं सर्प ग्रहीतुमु. द्यमः। 'मा' निषेधे, कुगुरुसेवनं कारिति हे भद्र ! ॥३७॥
जिणआणावि चयंता गुरुणो भणिऊण जं नमिज्जंति ।
ता किं कीरइ लोओ छलिओ गड्डरिसवाहेण ॥ ३८ ॥ [ जिनाज्ञामपि त्यजन्तो गुरवो भणित्वा यन्नम्यन्ते ।।
तत् किं क्रियते लोकश्छलित ऊर्णायुप्रवाहेण ॥] जिनाझा "सेमिईकसायगारवइंदियमयबंभचेरगुत्तीसु” इत्यादिरूपां त्यजन्तोऽपि तद्भङ्गद्वारा, तेऽपि गुरवो भणित्वा 'एतेऽस्मदीयाः' इत्युक्त्वा यन्नम्यन्ते लोकैः, 'ता' तत् किं क्रियते, लोकश्चलितो वञ्चितो गड्डुर्य ऊर्णायवस्तासां प्रवाहो नाम यत्र क्वापि गर्तादावेका पतति तत्र सकलमपि यूथं पततीति । तेन कुत्रापि कार्ये कश्चित् केनापि कदाशयेन प्रवृत्तस्तत्प्रत्ययात् तत्रान्येषामपि प्रवृत्तिः ॥३८॥
निदक्खिन्नो लोओ जइ कुवि मग्गेइ रुट्टियाखंड । कुगुरूण संगचयणे दक्खिन्नं ही ! महामोहो ॥ ३९ ॥ [निर्दाक्षिण्यो लोको यदि कोऽपि मार्गयति रोट्टिकाखण्डम् ।
कुगुरूणां सङ्गत्यजने दाक्षिण्यं ही ! महामोहः ॥] दाक्षिण्यं जनचित्तानुवृत्तिः, निर्गतं दाक्षिण्यं यस्य स निर्दाक्षिण्यो लोकः 'अस्ति' इति गम्यम् । कथम्? । यदि कोऽपि रकादिर्मार्गयति चादूक्तिभी रोट्टिका पूपलिका तस्याः खण्डं 'तथापि न ददाति' इति शेषः । अथ च कुगुरूणांसङ्गत्यजने दाक्षिण्यम् एतेऽस्मद्वंश्यैराहताः, वयं तद्गच्छे स्तम्भभूता प्राचार्यपदस्थापनाद्युत्सवकारिणश्च, तदमून् कथं त्यजामः?' इति ही खेदे महामोहो महदज्ञानम् ॥ ३६ ॥
किं भणिमो किं करिमो ताण हयासाण धिट्ठदुट्ठाण । जे दंसिऊण लिंग खिवंति नरयम्मि मुद्धजणं? ॥ ४० ॥ १ समितिकषायगोनेन्द्रियमदब्रह्मचर्यगुप्तिषु ।
Page #21
--------------------------------------------------------------------------
________________
सहिसयपयरणं । - [ किं भणामः किं कुर्मस्तेषां हताशानां धृष्टदुष्टानाम् ।
ये दर्शयित्वा लिङ्गं क्षिपन्ति नरके मुग्धजनम् ? ॥] किं भणामः, उपदेशानहत्वात् 'को दाही उवएसं' इत्युक्तेः; तथा, किं कुर्मः, उपकारापकारयोर्मध्यात् । तेषां हता आशा शुभेच्छा येषां यैर्वा तेषां हताशानाम्, तथा, धृष्टाः प्रगल्भाः, दुष्टा दोषवन्तस्तेषाम्; ये प्रदर्श्य लिङ्गं, 'लिङ्गं पूज्यमेव' इत्युक्त्वा क्षिपन्ति नरके मुग्धजनं स्ववन्दापनादिजनितदोषेण ॥ ४० ॥
कुगुरूवि संसिमो हैं जेसिं मोहाइचंडिमा दटुं।
सुगुरूण उवरि भत्ती अइनिविडा होइ भव्वाणं ॥ ४१ ॥ [ कुगुरूनपि शंसाम्यहं येषां मोहादिचण्डिमानं दृष्ट्वा ।
सुगुरूणामुपरि भक्तिरतिनिबिडा भवति भव्यानाम् ॥ ]
कुगुरूनपि प्रशंसामि, प्राकृतत्वादेकत्वेऽपि बहुत्वम्, अहम्; येषां मोहोऽज्ञानं स प्रादिर्येषां राग-द्वेषादीनां तैश्चण्डिमा रौद्रत्वं भयहेतुत्वं दृष्ट्वा सुगुरूणामुपरि सुविहितविषये भक्तिर्गौरवविशेषोऽतिनिबिडा भवति भव्यानाम् । श्राद्धादिकृते कलहायमानान् दृष्ट्वा भव्यानां तेष्वनादरः, सुविहितेष्वादरो जायत इत्यर्थः ॥४१॥
जह जह तुट्टइ धम्मो जह जह दुट्ठाण होइ इह उदओ।
सम्मदिडिजियाण तह तह उल्लसइ सम्मत्तं ॥ ४२ ॥ [ यथा यथा त्रुट्यति धर्मो यथा यथा दुष्टानां भवतीहोदयः ।
सम्यग्दृष्टिजीवानां तथा तथोल्लसति सम्यक्त्वम् ॥] यथा यथा त्रुट्यत्यल्पीभवति दुर्लभः स्यादित्यर्थः, धर्मः श्रुतचारित्ररूपः, कालादिदोषात् "सैषा हुण्डावसर्पिण्यनुसमयहसद्व्यभावानुभावा" इत्यादिरूपात्; यथा यथा च दुष्टानां धर्मद्वेषिणां भवति इह काले उदय उन्नतिः, सम्यग्दृष्टिजीवानां तथा तथा उल्लसति सम्यक्त्वम्, . "कलहकरा डमरकरा असमाहिकरा अनिव्वुइकरा य ।
होहिंति इत्थ समणा दससुवि खित्तेसु सयराहं ॥१॥" इति भगवदुक्तेरविसंवाददर्शनेन भगवत्यास्थातिरेकात् ॥४२॥
१ को दास्यत्युपदेशम् । २ कलहकरा डमरकरा असमाधिकरा अनिवृत्तिकराश्च । भविष्यन्त्यत्र श्रमणा दशस्वपि क्षेत्रेषु शीघ्रम् ॥१॥
Page #22
--------------------------------------------------------------------------
________________
सहिसयपयरणं । जयजंतुजणणितुल्ले अइउदओ जं न जिणमए होइ । तं किटकालसंभवजियाण अइपावमाहप्पं ॥ ४३॥ [ जगज्जन्तुजननीतुल्यस्यात्युदयो यन्न जिनमतस्य भवति ।
तत् क्लिष्टकालसंभवजीवानामतिपापमाहात्म्यम् ॥]
जगज्जन्तुजननीतुल्यस्य, षष्ठीसप्तम्योरप्रिभेदात्, अत्युदयो यद् न जिनमतस्य भवति, तत् क्लेशहेतुत्वात् कालोऽपि क्लिष्टः स चासौ कालश्च तत्संभवजीवानामतिपापस्य माहात्म्यम् ॥४३॥
धम्मम्मि जस्स माया मिच्छत्तगहो उसुत्ति नो संका। कुगुरूवि करइ सुगुरू विउसोवि स पावपुन्नुत्ति ॥ ४४ ॥ [धर्मे यस्य माया मिथ्यात्वग्रह उत्सूत्रे नो शङ्का ।
कुगुरूनपि करोति सुगुरून् विद्वानपि स पापपूर्ण इति ॥ ] यस्य धर्मे माया लाभपूजाख्यात्यर्थ धर्मकरणं न मुक्तये, तथा, मिथ्यात्वस्यातत्त्वस्य ग्रहः 'अस्मद्गुरुभिरिदमित्थमेवोपदिष्टम्' इति कदाग्रहः, तथा, उत्सूत्रस्यागमविरुद्धस्य न भयम्-उच्छृङ्खलतयोत्सूत्रजल्पनमिति, तथा, कुगुरूनपि तत्पक्षपाततया करोति सुगुरून् 'यः' इति गम्यम्; स शास्त्रज्ञतामात्रेण विद्वानपि परमार्थतः पापपूर्णः 'भवति' इति शेषः ॥४४॥
किचंपि धम्मकिच्चं पूयापमुहं जिणिंदआणाए ।
भूयमणुग्गहरहियं आणाभंगार दुहदाइं ॥ ४५ ॥ [ कृत्यमपि धर्मकृत्यं पूजाप्रमुखं जिनेन्द्राज्ञया ।
भूतानुग्रहरहितमाज्ञाभङ्गाद् दुःखदायि ॥] कृत्यं करणीयमप्यग्रे योजयिष्यते । किं तत् । धर्मकृत्यं पूजाप्रमुख, श्रादिना देववन्दन-प्रतिक्रमण-जिनभवनविधापनादिग्रहः । कया । जिनेन्द्राशयैव । 'यथा सुखदं स्यात्' इति शेषः । तद्विषयाशा च यथा;__"काले सुइभूएणं विसुद्धपुष्फाइएहिं विहिणा उ। - सारथुइथुत्तगुरुई जिणपूया होइ कायव्वा ॥"
१ काले शुचिभूतेन विशुद्धपुष्पादिकविधिना तु। मारस्तुतिस्तोत्रगुवी जिनपूजा भवति कर्तव्या ॥१॥
Page #23
--------------------------------------------------------------------------
________________
१६
सट्ठियपयरणं ।
तदेव पूजाप्रमुखं भूतानुग्रहरहितं, मोऽलाक्षणिकः, जीवानुकम्पोज्झितमाशाभङ्गाद् दुःखदा यि । प्रयं भावः - यतीनां हि द्रव्यपूजाया नाधिकारः, ये च द्रव्यपूजाधिकारिणस्ते स्वत एव कायवधप्रवृत्ताः सन्ति । ततस्तदर्थं सापेक्षाः सानुकम्पाः “भूमीपेहणजलकाणणाइजयगाओ होइ न्हाणाई” इत्यादियतनया प्रतिमाङ्गलग्नकुन्ध्वादि निरीक्ष्य तदपसारणादिरूपया च द्रव्यतः कमपि कायवधं कुर्वन्तोऽपि भावतो रागद्वेषरहितत्वाद् भूतानुग्रहवन्त एव ॥ ४५ ॥
कट्ठे करंति अप्पं दमंति दव्वं चयंति धम्मत्थी | इक्क न चयइ उस्सुत्तविलसवं जेण बुडुंति ॥ ४६ ॥ [ कष्टं कुर्वन्त्यात्मानं दमयन्ति द्रव्यं त्यजन्ति धर्मार्थिनः । एकं न त्यजन्त्युत्सूत्रविषलवं येन बुडन्ति ॥ ]
कष्टं लोचभूशयनानुपानत्कत्वतपः प्रमुखं कुर्वन्ति, आत्मानं दमयन्ति, द्रव्यं त्यजन्ति धर्मार्थिनः । परमेकं न त्यजन्त्यज्ञानादुत्सूत्रविषलवं येन ब्रुडन्ति भवाब्धौ ॥ ४६ ॥
सुद्धविहिधम्मरागो वड्ढइ सुद्धाण संगमे सुयणा ! | सोविय असुद्धसंगे निउणाणवि गलइ अणुदियहं ॥४७॥ [ शुद्धविधिधर्मरागो वर्धते शुद्धानां संगमे सुजनाः ! | सोऽपि चाशुद्धसङ्गे निपुणानामपि गलत्यनुदिवसम् ॥ ] शुद्धो विधिः करणप्रकारः स चासौ धर्मश्च तत्र रागो वर्ध शुद्धानां निर्मलाचारवतां संगमे भोः सुजनाः ! । स एव च धर्मरागोशुद्धानां पार्श्वस्थादीनां सङ्गे विधिज्ञानामपि गलत्यनुदिनम् ॥४७॥ जो सेवर सुद्धगुरू असुद्धलोयाण सो महासत्तू ।
तम्हा ताण सयासे बलरहिओ मा वसिज्जासु ॥ ४८ ॥ [ यः सेवते शुद्धगुरूनशुद्ध लोकानां स महाशत्रुः । तस्मात्तेषां सकाशे बलरहितो मा वात्सीः ॥ ]
यो भव्यः सेवते शुद्धगुरून, शुद्धलोकानां मिथ्यात्विनामर्थाल्लि - ङ्गिनां स महाशत्रुरिव । तस्मात् तेषां सकाशे स्वजनबलादिरहितो मा वसेः । ते ह्यबलं तं परिभवेयुरिति ॥४८॥
।
१ भूमीप्रेक्षणजलगालनादियतनातो भवति स्नानादि ।
Page #24
--------------------------------------------------------------------------
________________
सहिसयपयरणं । समयविऊ असमत्था सुसमत्था जत्थ जिणमए अविऊ ।
तत्थ न वड्ढइ धम्मो पराभवं लहइ गुणरागी ॥४९॥ [ समयविदोऽसमर्थाः सुसमर्था यत्र जिनमतेऽविदः ।
तत्र न वर्धते धर्मः पराभवं लभते गुणरागी ॥ ]
समयविदोऽसमर्थाः क्वचित् क्षेत्रकालादिमहिम्ना, सुसमा यत्र जिनमतस्याविदोऽज्ञाः। तत्र क्षेत्रादौ न वर्धते धर्मः, किन्तु पराभवं लभते गुणरागी ' तिष्ठन' इति शेषः॥४६॥
जं न करइ अइभावं अमग्गसेवी समत्थओ धम्मे ।
ता लटुं, अह कुज्जा ता पीडइ सुद्धधम्मत्थी ॥ ५० ॥ [ यन्न करोत्यतिभावममार्गसेवी समर्थको धर्मे । तलष्टं, अथ कुर्यात्तदा पीडयति शुद्धधर्मार्थिनः ॥]
यद् न करोत्यतिभावमतिश्रद्धामुन्मार्गप्ररूपकः । किं० । समर्थको धर्मे । तल्लष्टम्, अयोग्यत्वात्तस्य । अथ कुर्यात्, तर्हि पीडयति शुद्धधर्मार्थिनः ॥५०॥
जइ सव्वसावयाणं एगच्चं जं तु मिच्छवायम्मि । धम्मत्थियाण सुंदर ! ता कह णु पराभवं कुज्जा ? ॥ ५१ ॥ [ यदि सर्वश्रावकाणामेकत्वं यत्तु मिथ्यावादे ।
धर्मार्थिनां सुन्दर ! तदा कथं नु पराभवं कुर्यात् ! ॥] 'यदि' अग्रे योजयिष्यते, सर्वश्राद्धानामेकत्वमेकीभावो यत्तु यत्पुनमिथ्यावादः 'अत्र चैत्ये वयमेव स्तोत्रारत्रिकाद्यधिकारिणः, अस्मासु सत्सु कथमभूतपूर्वः सुविहितप्रवेशोत्सवः' इत्यादिरूपो वर्तते, तदेकत्वं यदि धार्थिनां धर्मविवादे भवति, भोः सुन्दर ! 'ता' तर्हि कथं केन प्रकारेण 'नु' वितर्के पराभवं धार्थिनां मिथ्यात्वलोकः कुर्यात् ? ॥५१॥
तं जयइ पुरिसरयणं सुगुणड्ढं हेमगिरिवरमहग्छ ।
जस्सासयम्मि सेवइ सुविहिरओ सुद्धजिणधम्मं ॥ ५२ ॥ [ तन्जयति पुरुषरत्नं सुगुणाढ्यं हेमगिरिवरमहाघम् ।
यस्याश्रये सेवते सुविधिरतः शुद्धजिनधर्मम् ॥] जयति पुरुषरत्नमौदार्यधैर्यादिसुगुणाढ्यम् , अत एव मेरुवन्महा
Page #25
--------------------------------------------------------------------------
________________
सहिसयपयरणं । मूल्यम् । यस्याधारे सेवते सुविधिरतो विधिना धर्मकरणनिष्ठो जनः शुद्धजिनधर्मम् ॥ ५२॥
सुरतरुचिंतामणिणो अग्धं न लहंति तस्स पुरिसस्स ।
जो सुविहिरयजणाणं धम्माधारं सदा देइ ॥५३॥ [सुरतरुचिन्तामणयोऽध न लभन्ते तस्य पुरुषस्य ।
यः सुविधिरतजनेभ्यो धर्माधारं सदा ददाति ॥]
सुरतरुचिन्तामणयोर्घ मूल्यं साम्यमित्यर्थः, न प्राप्नुवन्ति तस्य पुरुषस्य, यः सुविधिरतजनानामिष्टसंपादनोपद्रववारणादिना धर्माधार सदा ददाति ॥५३॥
लज्जंति जाणिमो हं सप्पुरिसा निययनामगहणेण । पुण तेसिं कित्तणाओ अम्हाणं गलंति कमाई ॥ ५४ ।। [ लजन्ते जानाम्यहं सत्पुरुषा निजनामग्रहणेन ।
पुनस्तेषां कीर्तनादस्माकं गलन्ति कर्माणि ॥]
लज्जन्ते, जानाम्यहम्, सत्पुरुषाः स्वनामग्रहणे, पुनरने योजयष्यिते, तेषां गुणकीर्तनात् पुनरस्माकं गलन्ति कर्माणि ॥५४॥ .. आणारहियं कोहाइसंजुयं अप्पसंसणत्थं च ।
धम्म सेवंताणं नय कित्ती नेय धम्मं च ॥५५॥ [ आज्ञारहितं क्रोधादिसंयुतमात्मशंसनार्थं च । धर्म सेवमानानां नच कीर्ति व धर्मश्च ॥]
आज्ञारहितं स्वबुद्धिकल्पितं क्रोधादिसंयुतमात्मप्रशंसाथै च धर्म सेवमानानां न कीर्तिः श्लाघा, न.च धर्मो भवति ॥५५॥
इयरजणसंसणाए हिट्ठा उस्सुत्तभासणे न भयं ।
ही ही ! ताण नराणं दुहाई जइ मुणइ जिणनाहो ॥५६॥ [ इतरजनशंसनया हृष्टा उत्सूत्रभाषणे न भयम् ।
ही ही ! तेषां नराणां दुःखानि यदि जानाति निननाथः ॥]
धर्मबाह्यजनशंसनया हृष्टा ये, उत्सूत्रभाषिते च न भयं येषाम् , ही ही तेषां नराणां दुःखानि यदि जानाति तर्हि जिननाथ एव ॥५६॥
उस्मुत्तमासगाणं बोहीनासो अणंतसंसारो । पाणचएवि धीरा उस्सुत्तं ता ण भासंति ॥५७॥
Page #26
--------------------------------------------------------------------------
________________
सट्ठियपयरणं ।
[ उत्सूत्रभाषकाणां बोधिनाशोऽनन्तसंसारः । प्राणात्ययेऽपि धीरा उत्सूत्र तस्मान्न भाषन्ते ॥ ]
उत्सूत्रभाषकानां (? णां) बोधिनाशः प्रेत्य जिनधर्माप्राप्तिः, अनन्तसंसारश्च । तस्मात् प्राणात्ययेऽपि धीरा उत्सूत्रं न भाषन्ते, कालिकाचार्यवत् ॥५७॥
मुद्धाण रंजणत्थं अविहिपसंसं कयावि न करिज्जा । किं कुलवहुणो कत्थविथुणंति वेसाण चरियाई ? ॥ ५८ ॥ [ मुग्धानां रञ्जनार्थमविधिप्रशंसां कदापि न कुर्यात् ।
किं कुलवध्वः क्वापि स्तुवन्ति वेश्यानां चरितानि ॥ ]
मुग्धानां रञ्जनार्थ प्रीतयेऽविधिप्रशंसां कदापि न कुर्यात् । किं कुलवध्वः कुत्रापि देशकालादौ स्तुवन्ति वेश्याचरितानि ?, अपि तु न, तत्स्तुतौ तासां सकलङ्कत्वप्रसङ्गात् ॥५८॥
जिण आणाभंगभयं भवसयभीयाण होइ जीवाणं । भवसयअभीरुयाणं जिणआणाभंजणं कीडा ॥५९॥ [ जिनाज्ञाभङ्गभयं भवशतभीतानां भवति जीवानाम् । भवशताभीरुकाणां जिनाज्ञाभञ्जनं क्रीडा ॥ ]
१६.
अदाशाभङ्गभयं भवशतभीतानां जायते जीवानाम् । भवशताभीरूणां जिनाशाभञ्जनं क्रीडेव, यथा मल्लादीनां मुष्टिप्रहाररूपं दुःखमपि क्रीडा भवति ॥ ५६ ॥
को असुयाणं दोसो जं सुयसहियाण चेयणा नट्ठा । धिद्धी ! कम्माण जओ जिणोवि लद्धो अलद्घत्ति ॥ ६० ॥ [ कोऽश्रुतानां दोषो यत् श्रुतसहितानां चेतना नष्टा ।
विग् धिक् ! कर्माणि यतो जिनोऽपि लब्धोऽलब्ध इति ॥ ]
कोऽश्रुतानां दोषो दूषणम् ? यत् सुश्रुतानामपि चेतना बुद्धिर्नष्टा । धिग् धिक् 'कर्मणाम्' इति द्वितीयार्थे षष्ठी, तेन कर्माणि । यतः कर्ममाहात्म्याज्जमाल्यादीनामिवोत्सूत्रोक्तेर्जिनोऽहल्लब्धोऽप्यलब्ध इव ॥६०॥
इराणवि उवहसं तमजुत्तं भाय ! कुलपसूयाणं । एस पुण कावि अग्गी जं हासं सुद्धधम्मम्मि ॥ ६१॥
Page #27
--------------------------------------------------------------------------
________________
२०
सट्ठियपयरं ।
[ इतरेषामप्युपहासस्तदयुक्तं भ्रातः ! कुलप्रसूतानाम् । एष पुनः कोऽप्यग्निर्य हास्यं शुद्धधर्मे ॥ ]
. इतरेषामपि हास्यार्हाणामुपहासं ( ? सः ) क्रियते, तदयुक्तं भ्रातः ! कुलजानाम् । एष पुनः कोऽप्यग्निरिव, स्त्रीत्वं प्राकृतत्वात्, यद् हास्यं शुद्धधर्मेऽप्युल्लण्ठोक्तिभणनम् ॥ ६१ ॥
दोसो जिणिदवयणे संतोसो जाण मिच्छपावम्मि । ताणपि सुद्धहियया परमहियं दाउमिच्छंति ॥ ६२॥ द्वेषो जिनेन्द्रवचने संतोषो येषां मिथ्यात्वपापे । तेषामपि शुद्धहृदयाः परमहितं दातुमिच्छन्ति ॥ ]
द्वेषोऽर्हदुक्ते वचने, संतोषस्तुष्टिर्येषां मिथ्यात्वपापे, तत्कारिषु प्रीतिकरणात् तेषामपि शुद्धहृदयाः परमहितं ज्ञानादिरूपं मुक्तिमार्ग दर्शयितुं दातुं वेच्छन्ति ॥ ६२ ॥
अहवा सरलसहावा सुयणा सव्वत्थ हुंति अवियप्पा | छतविसभराणवि कुणति करुणं दुजीहाणं || ६३ ॥ [ अथवा सरलस्वभावाः सुजनाः सर्वत्र भवन्त्यविकल्पाः । मुञ्चद्विषभरेष्वपि कुर्वन्ति करुणां द्विजिह्वेषु ॥ ]
अथवा, सरलस्वभावाः सन्तः सर्वत्र भवन्त्यविकल्पास्तुल्यमतयः शत्रौ मित्रे च हितकरणे । अत एव च्छर्दद्विषभराणामुद्गिरगरलभाराणामपि कुर्वन्ति करुणां द्विजिह्वानां सर्पाणामसतां चोपरि ॥६३॥ गिहवावारविमुक्के बहुमुणिलोएवि नत्थि सम्मत्तं । आलंबणनिलयाणं सड्ढाणं भाय ! किं भणिमो ? || ६४ ॥ [ गृहव्यापारविमुक्ते बहुमुनिलोकेऽपि नास्ति सम्यक्त्वम् । आलम्बननिलयानां श्राद्धानां भ्रातः ! किं भणामः ? ॥ ]
"
गृहव्यापारेण कृषिवाणिज्यादिना विमुक्ते बहुसुनिलोके, प्रास्तामन्यत्र नास्ति सम्यक्त्वं तत्त्वश्रद्धानम्, स्वस्वमतस्थापकेषु गुणिगणदूषकेषु सूत्रोत्तीर्ण ( ? ) भाषकेषु सम्यक्त्वाभावात् । तर्हि आलम्बननिलयानां श्राद्धानां भ्रातः ! सम्यक्त्वनास्तित्वे किं भणामः, पुत्रकलत्रादिरक्षायै भूतप्रेतच्छलादौ मिथ्यात्वकरणात् तेषां केषाञ्चित् ॥ ६४॥
Page #28
--------------------------------------------------------------------------
________________
सट्ठिसयपयरणं । न सयं न परं को वा, जइ जिय ! उस्सुत्तभासणं विहियं ।
ता बुड्डसि निमंतं निरत्ययं तवफडाडोवं ॥६५॥ [न स्वयं न परं को वा, यदि जीव ! उत्सूत्रभाषणं विहितम् ।
तदा बुडसि निर्धान्तं निरर्थकस्तपःफटाटोपः ॥ ] न स्वयमिति स्वबुद्धया प्रकल्प्योत्सूत्रं वाच्यम् । तथा; परं गुर्वादि. कमपेक्ष्य 'मद्गुरुणेदमित्थमेवोपदिष्टम् ' इति कृत्वोत्सूत्रं न वाच्यम् । तथा, को वक्ति को जानाति गहनमिदम्, केऽप्यन्यथा वदन्ति, तदन्ये चान्यथा, ततोऽसंबद्धं जिनवचनमित्यादि वोत्सूत्रं न वाच्यम्, नस्यात्रापि संबन्धात् । यदि जीव ! उत्सूत्रभाषणं विहित 'ता' तर्हि ब्रुडसि निन्तिम् । निरर्थकं च तप एव स्फटाटोपमिव फणामण्डलमिव तं करोषि ॥६॥
जह जह जिणिंदवयणं सम्म परिणमइ सुद्धहिययाणं । तह तह लोयपवाहे धम्म पडिहाइ नडचरियं ॥६६॥ ( यथा यथा जिनेन्द्रवचनं सम्यक् परिणमति शुद्धहृदयानाम् ।
तथा तथा लोकप्रवाहे धर्मः प्रतिभाति नटचरितम् ॥ )
यथा यथाऽर्हद्वचः सम्यक् परिणमति चित्तेऽवतिष्ठति?ते) शुद्धहृदयानाम् , तथा तथा लोकप्रवाहे यं धर्ममविधिरूप कुर्वन्ति स धर्मस्तेषां नटचरितमिव प्रतिभाति, तेषां सम्यग्दृष्टीनां ज्ञाततत्त्वानाम् । कथम् । यदेतत् सर्व धर्माडम्बरं लोकरञ्जनमात्रं न पुनः कर्मनिर्जराकरमिति भावार्थः ? ॥६६॥
जाण जिणिंदो निवसइ सम्मं हिययम्मि सुद्धनाणेण । ताण तिणंव विरायइ स मिच्छधम्मो जणो सयलो ॥६॥ [ येषां जिनेन्द्रो निवसति सम्यग्धृदये शुद्धज्ञानेन ।
तेषां तृणमिव विराजति स मिथ्याधर्मो जनः सकलः ॥] येषां हृदये जिनेन्द्रः सत्यतया ज्ञातधर्मरहस्यत्वेन निवसति सम्यक् स्वान्ते शुद्धज्ञानात्, तेषां तृणमिव विराजते प्रतिभाति स मिथ्याधर्मो जनः सकलः ॥६७॥
लोयपवाहसमीरणउइंडपयंडचंडलहरीए । दढसम्मत्तमहाबलरहिया गरुयावि हल्लंति ॥६८॥
Page #29
--------------------------------------------------------------------------
________________
२२
सट्ठियपयरणं ।
( लोकप्रवाहसमीरणोद्दण्डप्रचण्डचण्डलहर्या । दृढसम्यक्त्व महाबलरहिता गुरवोऽपि चलन्ति ]
लोकप्रवाहवायोरुद्दण्डा प्रचण्डा प्रौढा निबिडा चण्डा रौद्रा या लहरी वेगविशेषस्तया प्रेरिताश्चालिताः सन्तो दृढसम्यक्त्वमेव महद् बलं सामर्थ्य तेन रहिता गुरवोऽपि ऋद्धिकुलाद्यपेक्षया महान्तोऽपि हल्लन्ति चलन्ति वृक्षा इव ॥६८॥
जिणमयलवहीलाए जं दुक्खं पाउणति अन्नाणी ।
नाणीण तं सरिता भएण हिययं थरत्थरइ ||६९|| [ जिनमतलव हेलया यद् दुःखं प्राप्नुवन्त्यज्ञानाः । ज्ञानिनां तत् स्मृत्वा भयेन हृदयं कम्पते ॥ ]
जिनमतलव हीलयार्हच्छासनावहेलया यद् दुःखं कष्टं प्राप्नुवन्त्यज्ञानिनः, ज्ञानिनां तद् दुःखं स्मृत्वा भयेन हृदयं थरथरायते कम्पत इत्यर्थः ॥ ६६ ॥
रे जीव ! अन्नाणीण मिच्छद्दिट्ठीण नियसि किं दोसे ? । अप्पावि किं न याणसि नज्जइ कट्टेण सम्मत्तं ? ॥७०॥ [ रे जीव ! अज्ञानानां मिथ्यादृष्टीनां पश्यसि किं दोषान् ? | आत्मानमपि किं न जानासि ज्ञायते कष्टेन सम्यक्त्वम् ? ॥ ] रे जीव ! अज्ञानिनां मिथ्यादृष्टीनां 'नियसि' इति पश्यसि किं दोआत्मानमेव किं न जानासि ? त्वयापि ज्ञायते कष्टेनोपदेशसहस्रदानरूपेण सम्यक्त्वं याथातथ्येनार्हच्छासनम् ॥७०॥ मिच्छत्तमायरंतवि जे इह बंछंति सुद्धणिधम्मं ।
ते घत्थावि जरेण भुत्तुं इच्छंति खीराइं ॥ ७१ ॥ [ मिथ्यात्वमाचरन्तोऽपि य इह वान्छन्ति शुद्धजिनधर्मम् । तेस्ता अपि ज्वरेण भोक्तुमिच्छन्ति क्षीरादि ॥ ] मिथ्यात्वं कुदेवपूजनकुगुरूपास्त्यविधिधर्मकरणरूपमाचरन्तोऽपि ये इह वाञ्छन्ति शुद्ध जिनधर्मम्, ते ग्रस्ता अपि ज्वरेण, भोक्तुमिच्छन्ति क्षीरादि ॥७१॥
जह केवि सुकुलवहुणो सीलं मइलंति लंति कुलनामं । मिच्छत्तमायरंसवि वहति तह सुगुरुकेरतं ॥ ७२ ॥
Page #30
--------------------------------------------------------------------------
________________
सहिसयपयरणं ।
२३ [ यथा का अपि सुकुलवध्वः शीलं मलिनयन्ति लान्ति कुलनाम ।
मिथ्यात्वमाचरन्तोऽपि वहन्ति तथा सुगुरुसंबन्धित्वम् ॥]
यथा काश्चित्, पुंस्त्वं प्राकृतत्वात्, कुलवध्वःशीलं गुप्ताङ्गदर्शनपरपुरुषासंभाषणादिकं मलिनयन्ति खण्डयन्ति, लान्ति च कुलनाम; एवं मिथ्यात्वमाचरन्तोऽपि वहन्ति तथा तेन दृष्टान्तेन सुगुरुसत्कत्वं 'वयममुकस्य सुगुरोः शिष्याः' इति ॥७२॥
उस्सुत्तमायरंतवि ठवंति अप्पं सुसावगत्तम्मि । ते रुद्दरोरघत्थवि तुलंति सरिस धणड्ढेहिं ॥७३॥ [ उत्सूत्रमाचरन्तोऽपि स्थापयन्त्यात्मानं सुश्रावकत्वे ।
ले रौद्ररौरग्रस्ता अपि तोलयन्ति सदृशं धनाढ्यैः ॥ ] प्रविधिना धर्म कुर्वन्तोऽपि स्थापयन्त्यात्मानं सुश्रावकत्वे ये, ते रौद्रदारिद्रयपीडिता अपि तोलयन्ति गणयन्ति सहशमात्मानं धनाढ्यैः ॥.
किवि कुलकमम्मि रत्ता किवि रत्ता सुद्धजिणवरमयम्मि ।
इय अंतरम्मि पिच्छह मूढा नायं न याति ॥७४॥ [ केऽपि कुलक्रमे रक्ताः केऽपि रक्ताः शुद्धजिनवरमते ।
इत्यन्तरे पश्यत मूढा न्यायं न जानन्ति ॥ ] केऽपि निर्विवेकाः कुलक्रमे रक्ताः, केऽपि च लघुकर्माणो रक्ताः शुद्धजिनवरमते, इत्यन्तरे विशेषे विवेक्यविवेकिनोः सत्यपि पश्यत कौतुकं मूढा न्यायं परिच्छेद्यवस्तुनि निश्चयं न जानन्ति ॥७॥
संगोवि जाण अहिओ तेसिं धम्माई जे पकुव्वंति । मोत्तूण चोरसंग करिति ते चोरियं पावा ॥७॥ [ सङ्गोऽपि येषामहितस्तेषां धर्मान् ये प्रकुर्वन्ति ।
मुक्त्वा चौरसङ्गं कुर्वन्ति ते चौरिकां पापाः ॥] सङ्गोऽपि येषामहितश्चौरपल्लीवासिवणिग्वत् , तेषां धर्मान् चामुण्डार्चादीन् ये प्रकुर्वन्ति ते मुक्त्वा चौरसङ्गं कुर्वन्ति चौरिकां चौर्य पापिनः ।
जत्थ पसुमहिसलक्खा पव्वे हम्मंति पावनवमीए। पूयंति तंपि सड्ढा हा! हीला वीयरायस्स ॥७६॥ [ यत्र च्छागमहिषलक्षाः पर्वणि हन्यन्ते पापनवम्याम् । पूजयन्ति तदपि श्राद्धा हा ! हेला वीतरागस्य ॥].,
Page #31
--------------------------------------------------------------------------
________________
सट्ठिसयपयरणं ।
यस्मिन् पर्वणि पापनवम्यां छागमहिषलत्ता हन्यन्ते, तदपि पर्व श्राद्धाः पूजयन्ति पर्वोपचारात् तत् पर्व पूज्यं देवविशेषमित्यर्थः, हा ! हीला वीतरागस्येयम् ॥ ७६ ॥
२४
जोगिकुटुंबसामी संतो मिच्छत्तरोवणं कुणइ ) तेण सयलोवि वंसो पक्खित्तो भवसमुद्दम्मि || ७७॥ [ यो गृहकुटुम्बस्वामी सन् मिथ्यात्वरोपणं करोति ।
तेन सकलोऽपि वंशः प्रक्षिप्तो भवसमुद्रे ॥ ]
यो गृहकुटुम्बस्वामी सन् मिथ्यात्वस्थापनम् 'अत्रेदं नैवेद्यम, अत्र विवाहादावयं विधिः' इत्यादि करोति । तेन सकलोऽपि वंशः स्वात्मा च प्रक्षिप्तो भवान्धौ ॥७७॥
कुडचउत्थीनवमीइबारसीइपिंडदाणपमुहाई । मिच्छत्तभावगाई कुणंति तेर्सि न सम्मत्तं ॥ ७८ ॥ [ कुटचतुर्थी नवमीद्वादशीपिण्डदानप्रमुखाणि । मिथ्यात्वभावकानि कुर्वन्ति तेषां न सम्यक्त्वम् ॥ ]
कुडचतुर्थी लौकिकपर्वविशेषः 'करवा चउथि' इति प्रसिद्धिः, नवमी पूर्वोक्ता, द्वादशी वत्सद्वादश्यादिका, पिण्डदानं पितॄणाम्, प्रमुखशब्देन लौकिकलोकोत्तरसर्वमिथ्यात्वग्रहः, तानि मिथ्यात्वभावकानि मिथ्यात्वभावसूचकानि कुर्वन्ति ये, तेषां न सम्यक्त्वम् ॥७८॥
जह अइकलम्मि खुत्तं सगडं कंति केइ बुरिधवला । तह मिच्छाउ कुटुंबं इह विरला केड़ कट्ठेति ॥७९॥ [ यथाऽतिपङ्के मग्नं शकटं कर्षन्ति केचिद् धुर्यधवलाः ।
तथा मिथ्यात्वात्कुटुम्बमिह विरलाः केचित्कर्षन्ति ॥ ] यथाऽतिपङ्किलप्रदेशे मग्नं शकटं कर्षन्ति केचिद् धौरेयधवलाः प्रधानवृषभाः, तथा मिथ्यात्वात् कुटुम्बमिह जगति विरलाः केचित् कर्षन्त्युद्धरन्ति ॥ ७६ ॥
जह वदलेण सूरं महियलपयडंपि नेय पिच्छंति । मिच्छत्तस्स य उदए तहेव न नियंति जिणदेवं ॥ ८० ॥
[ यथा वादलेन सूरं महीतलप्रकटमपि नैव पश्यन्ति । मिथ्यात्वस्य चोदये तथैव न पश्यन्ति जिनदेवम् ॥ ]
Page #32
--------------------------------------------------------------------------
________________
सद्वियपयरं ।
२५
यथा वारां दलं वार्दलं तेन प्रभ्रेण सूरं महीतलप्रकटमपि नैव प्रेक्षन्ते लोकाः, तथैव मिथ्यात्वस्योदये न पश्यन्ति भावद्दशा जिनदेवं गुर्वाद्यपि वा ॥८०॥
किं सोवि जणणि जाओ जाओ जणणीइ किं गओ विद्धिं । जई मिच्छरओ जाओ गुणेसु तह मच्छरं वहइ ? ॥८१॥ [ किं सोऽपि जनन्या जातो जातो जनन्या किं गतो वृद्धिम् ।
यदि मिथ्यात्वरतो जातो गुणेषु तथा मत्सरं वहति ? ॥ ] किमिति किमर्थं सोऽपि मानवो लुप्तविभक्तिकत्वाज्जनम्या जात एव प्रसूत एव,
" जननी यानि चिह्नानि करोति मदविह्वला । प्रकटानि तु जायन्ते तानि चिह्नानि जातके ॥ "
इत्यादिजनोक्तेर्मातुर्दोषापत्तेः अथच जातो मात्रा तथापि किं गतो वृद्धिं पुष्टिम्, यदि मिथ्यात्वरतः, 'गुणेषु' इत्यभेदोपचाराद् गुणिषु तथा मत्सरमसहिष्णुत्वं वहति करोति, पीठमहापीठऋषिवत् ? ॥ ८१ ॥ dure बंदियाण य माहणडुंबाण जक्खसिक्खाणं । भत्ता भक्खट्टाणं विरयाणं जति दूरे णं ॥ ८२ ॥
( वेश्यानां बन्दिकानां च ब्राह्मणचाण्डालानां यक्षशेखानाम् । भक्ता भक्ष्यस्थानं विरतेभ्यो यान्ति दूरे ॥ )
वेश्यानां बन्दिकानां भट्टानां, बाह्मणा द्विजाः, डुम्बाश्चाण्डाला: सन्तो ये गीत गायन्ति ततो द्वन्द्वे तेषाम्, यज्ञाः क्षेत्रपालनारसिंहाद्याः, शेखास्तुरुष्कगुरवः, ततो द्वन्द्वे तेषां भक्ता भोज्यसमाः, षष्ठ्याः पञ्चम्यर्थेन विरतेभ्यो यान्ति दूरे 'ग' इत्यलङ्कारे ॥८२॥
सुने मग्गे जाया सुहेण गच्छति सुद्धमग्गम्मि । जं पुण अमग्गजाया मग्गे गच्छंति तं चुज्जं ॥ ८३ ॥
[ शुद्धे मार्गे जाताः सुखेन गच्छन्ति शुद्धमार्गे । यत्पुनरमार्गजाता मार्गे गच्छन्ति तच्चित्रम् ॥ ]
शुद्धे मार्गे सुविहितपथि जाताः श्राद्धाः साधवो वा ते सुखेनानायासेन गच्छन्ति शुद्धमार्गे, नाश्चर्यमत्र । ये पुनरुन्मार्गे जाताः पार्श्व
३
Page #33
--------------------------------------------------------------------------
________________
सहिसयपयरणं । स्थादिगच्छे साधुत्वेन श्राद्धत्वेन वा निष्पन्ना मार्गे विधिरूपे गच्छन्ति तत् 'चुज्जं' चित्रम् ॥३॥ - मिच्छत्तसेवगाणं विग्यसयाइंपि विति नो पावा।
विग्घलवम्मिवि पडिए दढधम्माणं पणचंति ॥८॥ [मिथ्यात्वसेवकानां विघ्नशतान्यपि ब्रुवन्ति नो पापाः ।
विघ्नलवेऽपि पतिते दृढधर्मणां प्रनृत्यन्ति ॥] मिथ्यात्वसेवकानां विघ्नशतान्यपि जायमानानि दृष्ट्वा 'बिति' इति ब्रुवते नैव किश्चिद् धनहान्यादिविघ्नं पापात्मानः। किञ्चिद् विघ्नलवेऽपि पतिते जाते दृढधर्मणां प्रनृत्यन्ति अतिदृष्टचित्ताः सन्त इव ॥४॥
सम्मत्तसंजुयाणं विग्यपि हु होइ उच्छवसरिच्छं । परमुच्छवंपि मिच्छत्तसंजुयं अइमहाविग्धं ॥८५॥ [सम्यक्त्वसंयुतानां विघ्नोऽपि भवत्युत्सवसदृशः।
परमोत्सवोऽपि मिथ्यात्वसंयुतोऽतिमहाविघ्नः ॥] ----
सम्यक्त्वसंयुतानी विघ्नः, नपुंसकत्वं प्राकृतत्वात्, प्रायो न भवति, स च विघ्नोऽपि 'हुः' अवधारणे, भवत्युत्सवसदृक्षः, “तवनियमसुट्टियाणं" इत्युक्तेः । परमोत्सवोऽपि मिथ्यात्वयुक्तोऽतिमहाविघ्न एव, विषसंपृक्तपरमानवत् ॥८॥
इंदोवि ताण पणमइ हीलंतो निययरिद्धिवित्थारं ।
मरणंतेवि हु पत्ते सम्मत्तं जे न छड्डेति ॥ ८६ ॥ [ इन्द्रोऽपि तान् प्रणमति हेलयन् निजर्द्धिविस्तारम् ।
मरणान्तेऽपि हि प्राप्ते सम्यक्त्वं ये न मुञ्चन्ति ॥] इन्द्रोऽपि तान् प्रणमति हीलयन् निजर्द्धिविस्तारम् । मरणान्तेऽपि, प्रास्तामन्यविघ्ने, 'हुः' निश्चये, प्राप्तं सम्यक्त्वं ये न त्यजन्ति, अरहन्नकवत् ॥६॥
छड्डंति निययजीयं तिणंव मुक्खत्थिणो न उण सम्म । लन्भइ पुणोवि जीयं सम्मत्तं हारियं कत्तो ? ॥ ८७॥ १ तपोनियममुस्थितानाम् ।
Page #34
--------------------------------------------------------------------------
________________
सहिसयपयरणं । [ मुन्चन्ति निजजीवितं तृणमिवं मोक्षार्थिनो न पुनः सम्यक्त्वम् ।
लभ्यते पुनरपि जीवितं सम्यक्त्वं हारितं कुतः ? ॥] त्यजति निजकजीवं जीव-जीवितयोरभेदात् जीवितम्, तृणमिव मोक्षार्थिनः, न पुनः सम्यक्त्वम् । यतो लभ्यते पुनरपि जीवितमुत्तरभवे, सम्यक्त्वं तु हारितं सत् कुतः कस्माल्लभ्यते, निर्गमितस्य तस्य पुनः प्राप्तिरुत्कर्षतोऽनन्तकालात् ॥८७॥
गयविहवावि सविहवा सहिया सम्मत्तरयणराएण। सम्मत्तरयणरहिया संतेवि धणे दरिद्दत्ति ॥ ८८ ॥ [ गतविभवा अपि सविभवाः सहिताः सम्यक्त्वरत्नराजेन ।
सम्यक्त्वरत्नरहिताः सत्यपि धने दरिद्रा इति ॥]
गतविभवा अपि सद्व्या एव ते । के ?। सहिताः सम्यक्त्वरत्नराज्येन, तद्युक्तानमायताववश्यं विभवलाभात् । तद्रहिताः पुनः सत्यपि धने दरिदा एव । 'इति' वाक्यसमाप्त्यर्थः॥८॥
जिणपूयणपत्थावे जइ कुवि सड्ढाण देइ धणकोडिं ।
मोत्तूण तं असारं सारं विरयंति जिणपूयं ॥ ८९॥ [ जिनपूजनप्रस्तावे यदि कोऽपि श्राद्धेभ्यो ददाति धनकोटिम् ।
मुक्त्वा तामसारां सारां विरचयन्ति जिनपूजाम् ॥] जिनस्य द्रव्यार्चनावसरे यदि कोऽपि देवादिः 'पूजां त्यज' इत्युक्त्वा श्राद्धानां ददाति धनकोटिम, मुक्त्वा तामसारां चौराग्निभूपादिहार्या, सारां सम्यक्त्वशुद्धिकी विरचयन्ति जिनपूजाम् ॥८६॥
तित्थयराणं पूया सम्मत्तगुणाण कारणं भणियं ।
सावि य मिच्छत्तयरी जिणसमए देसिय अपूया ॥१०॥ [ तीर्थकराणां पूजा सम्यक्त्वगुणानां कारणं भणितम् ।
सापि च मिथ्यात्वकरी जिनसमये देशिताऽपूजा ॥] तीर्थकृतां पूजा सम्यक्त्वगुणानां सम्यक्त्वं प्रतीतं गुणा शानादयस्तेषां कारणं हेतुर्भणिताऽऽगमे । यदुक्तं श्रीआवश्यके- "अंकसिणपवत्तगाणं" इति । सापि च मिथ्यात्वकरी जिनसमये देशितोका। 'यदि' इत्यध्याहारात्, यद्यपूजा कुत्सिता पूजाऽविधिपूजेति ॥६०॥
१ अकृत्स्नप्रवर्तकानाम् ।
Page #35
--------------------------------------------------------------------------
________________
साक्ष
सढिसयपयरणं । जं जं जिणआणाए तं चिय मन्नइ न मन्नइ सेसं । जाणइ लोयपवाहे नहु तत्तं सो य तत्तविऊ ॥ ९१॥ [ यद्यज्जिनाज्ञायां तदेव मन्यते न मन्यते शेषम् ।
जानाति लोकप्रवाहे नैव तत्त्वं स च तत्त्ववित् ॥ ] यदेवाचार्यावन्दन-वन्दनकादि कृत्यं जिनाज्ञायां वर्तते तदेव मन्यते, न मन्यते शेषम् । अतएव जानाति लोकप्रवाहे 'नहु' नैव तत्त्वम् । स एव तादृशस्तत्त्ववित्, नापरः ॥६१॥
जिणआणाए धम्मो आणारहियाण फुडमधम्मोत्ति ।
इय मुणिऊण य तत्तं जिणआणाए कुणह धम्म ॥ ९२ ॥ [ जिनाज्ञया धर्म आज्ञारहितानां स्फुटमधर्म इति ।
इति ज्ञात्वा च तत्त्वं जिनाज्ञया कुरुत धर्मम् ॥ ] जिनाशया धर्मः, प्राज्ञारहितातां स्फुटमधर्म इति, ___ "आशाराद्धा विराद्धा च शिवाय च भवाय च ।” ---
इति वचनात् । इति पूर्वोक्तं मुणित्वा झात्वा तत्त्वं जिनाशयैव धर्म कुरुतेति ॥२॥
साहीणे गुरुजोगे जे नहु निसुणंति सुद्धधम्मत्थं । ते दुट्ठधिचित्ता अह सुहडा भवभयविहूणा ॥ ९३ ॥ [स्वाधीने गुरुयोगे ये नैव शृण्वन्ति शुद्धधर्मार्थम् ।
ते दुष्टधृष्टचित्ता अथ सुभटा भवभयविहीनाः ॥ ] स्वाधीनगुरुयोगे केऽप्यालस्यादित्रयोदशप्रमादपदप्रमत्ताः सन्तो 'नहु' नैव निशृण्वन्ति शुद्धधर्मार्थम्, ते धृष्टदुष्टचित्ता निःशवं दुष्टं क्रूरं चित्तं येषां ते तथा; अथवा ते सुभटाः शूराः, यतो भवभयविहीनाः॥३॥
सुद्धकुलधम्मजायवि गुणिणो न रमति लिंति जिणदिक्खं । तत्तोवि परमतत्तं तओवि उवयारओ मुक्खं ॥ ९४ ॥ [ शुद्धकुलधर्मजाता अपि गुणिनो न रमन्ते लान्ति जिनदक्षिाम् ।
ततोऽपि परमतत्त्वं ततोऽप्युपकारतो मोक्षम् ॥] शुद्धः कुलधर्मः कुलाचारो यत्र तत्र जाता अपि तत्त्रियवणिगादी
Page #36
--------------------------------------------------------------------------
________________
२६
सहिसयपयरणं । द्धकुलोत्पन्ना अपि गुणिनः संवेगयुक्ता न रमन्ति ( ? न्ते )। धर्मश्रुत्यनन्तरं प्रमादस्थाने, लान्ति जिनदीक्षां सम्यक्त्वम्, द्वितीयपञ्चासके जिनदीक्षाशब्देन सम्यक्त्वोक्तेः, ततोऽपि परमतत्त्वं सर्वविरतिम् , ततोऽपि भव्योपकाराद् मोक्षं लभन्ते ॥१४॥
वन्नेमि नारयाउ जेसिं दुक्खाइं संभरंताणं ।
भव्वाण जणइ हरिहररिद्धिसमिद्धीवि उद्धोसं ॥९५॥ . [वर्णयामि नारकान् येषां दुःखानि स्मरताम् ।
भव्यानां जनयति हरिहरर्द्धिसमृद्धिरपि रोमाञ्चम् ॥ ] वर्णयामि नारकान् येषां दुःखानि स्मरतां भव्यानां हरिहरऋद्धिसमृद्धिरपि प्रास्तामन्येषाम्, लोके तयोरेव ऋद्धिमत्त्वेन रूढेः, 'उद्धोसं' इति भीत्या रोमाञ्चं जनयति । ते हि ऋद्धिगौरवस्य नरकफलतां श्रुत्वा महत्या अपि ऋद्धेर्बिभ्यन्ती ( ? ती ) त्यर्थः ॥६५॥
सिरिधम्मदासगाणणा रइयं उवएसमालसिद्धतं । सव्वेवि समणसड्ढा मन्नंति पदंति पादति ॥९६ ॥ तं चेव केवि अहमा छलिया अभिमाणमोहभूएहिं । किरियाए हीलंता हा ! हा ! दुक्खाइं न गिणंति ॥ ९७ ॥ [श्रीधर्मदासगणिना रचितमुपदेशमालासिद्धान्तम् । सर्वेऽपि श्रमणश्राद्धा मन्यन्ते पठन्ति पाठयन्ति ॥ तमेव केऽप्यधमाश्छलिता अभिमानमोहभूताभ्याम् । क्रियया हेलयन्तो हा ! हा ! दुःखानि न गणयन्ति ।। ] श्रीधर्मदासगणिना श्रीवीरतीर्थवर्तिना महर्षिणा रचितमुपदेशमालारूपं सिद्धान्तोक्तार्थानामेव भणनात् सिद्धान्तं सर्वेऽपि श्रमणाः श्राद्धा मन्यन्ते, पठन्ति स्वयं, पाठयन्ति परान् । तमपि केचिदधमाश्चलिता भ्रान्ताः, अभिमानोऽभिनिवेशो मोहोऽशानं तावेव भूतौ ताभ्यां क्रियया तदुक्तानुष्ठाननिराकृत्या हीलयन्तः, अथवा 'क्रियया' पाठनाकरणेन, हा! हा ! दुःखानि न गणयन्ति॥ १६॥१७॥
इयराण ठक्कुराणवि आणाभंगेण होइ मरणदुहं । . किं पुण तिलोयपहुणो जिणिंददेवाहिदेवस्स ? ॥ ९९ ॥
Page #37
--------------------------------------------------------------------------
________________
30
सहिसयपयरणं। [इतरेषां राज्ञामप्याज्ञाभङ्गेन भवति मरणदुःखम् ।
किं पुनस्त्रिलोकीप्रभोजिनेन्द्रदेवाधिदेवस्य ? ॥] इतरेषामपि सामान्यानां ठक्कुराणां राशामाज्ञाभङ्गेन भवति मरणदुःखम्, कि पुनस्त्रिलोकप्रभोजिनेन्द्रदेवाधिदेवस्य पाशाभङ्गेन, तत्खण्डने हि अनन्तमरणसंभवात् ? ॥८॥ • जगगुरुजिणस्स वयणं सयलाण जियाण होइ हियकरणं ।
ता तस्स विराहणया कह धम्मो कह णु जीवदया ? ॥९९॥ [ जगद्गुरुजिनस्य वचनं सकलानां जीवानां भवति हितकरणम् ।
तस्मात्तस्य विराधनया कथं धर्मः कथं नु जीवदया ? ॥] ' जगद्गुरोजिनेन्द्रस्य वचनमागमः सकलानां जीवानां भवति हितकरणम् । तस्मात् तस्य विराधनया कथं धर्मः साधुश्रावकसंबन्धी ? कथं नु केन प्रकारेण जीवदया, तस्या अर्हदुक्त्यैव साध्यत्वात् ? ॥६॥
किरियाइ फुडाडोवं अहियं साहंति आगमविहूणं । मुद्धाण रंजणत्यं सुद्धाण हीलणवाए ॥ १०० ॥ [क्रियायाः स्फुटाटोपमधिकं कथयन्त्यागमविहीनम् ।
मुग्धानां रञ्जनार्थ शुद्धानां हेलनार्थम् ॥] क्रियाया अनुष्ठानस्य स्फुटाटोपमिवाडम्बरमित्यर्थः, अधिक स्वमतिकल्पितं साधयन्ति प्ररूपयन्ति केऽपि, यथा 'पुष्पनैवेद्यादिपूजानिषेधं, विधिनाऽविधिना वा सामायिकादिकरणम् , श्राद्धस्यापि मुण्डितमस्तकत्वं षट्रपदिकादिरक्षायै कार्यम्, इत्यादि स्थापयन्ति । किंमूतम् । आगमविहीनम् , पूष्पपूजायाः श्रीवीरेण कारितत्वात्, नैवे. द्यादि गीतार्थाचीर्णम् ; अविधिकरणं च महादोषाय "जो' जहवायं न कुणइ" इत्यादयुक्तेः; श्राद्धस्य शिरोमुण्डनं दशमप्रतिमाया अर्वाग् न श्रूयते, तत्कृतौ लाघवोत्पत्तेः, इत्याद्यागमबाधितम् । किमर्थम् । मुग्धानां जनानां रञ्जनार्थम् , शुद्धप्ररूपकानां हीलनार्थम् ॥१०॥
जो देइ सुद्धधम्म सो परमप्पा जयम्मि न हु अन्नो । किं कप्पदुमसारसो इयरतरू होइ कइयावि ? ॥ १०१ ॥
१ यो यथावादं न करोति।
Page #38
--------------------------------------------------------------------------
________________
सहिसयपयरणं । [ यो ददाति शुद्धधर्म स परमात्मा जगति नैवान्यः ।
किं कल्पद्रुमसदृश इतरतरुर्भवति कदापि ? ॥] यः साध्वादिर्ददातिशुद्धधर्म स परमात्मेवातिवल्लभ इव सर्वोपकारार्हः, जगति नैवान्यस्तत्समः । किं कल्पद्रुमसदृशोऽन्यतरुः सहकारादिर्भवति कस्मिन्नपि काले ? ॥१०१॥
जे अमुणियगुणदोसा ते कह विबुहाण हुंति मज्झत्था । . अह तेवि हु मज्झत्था ता विसअमयाण तुल्लत्तं ॥ १०२ ॥ [येऽज्ञातगुणदोषास्ते कथं विबुधानां भवन्ति मध्यस्थाः ? ।
अथ तेऽपि हि मध्यस्थास्तदा विषामृलयोस्तुल्यत्वम् ॥ ] येऽमुणितगुणदोषास्ते कथं विदुषां भवन्ति मध्यस्थाः-मध्यस्थतया संमता इत्यर्थः ? । मध्यस्था हि ये, ते गुणिषु प्रीतिं दधति, दुष्टेषु चोपेक्षां कुर्वन्ति । यदि तेऽपि गुणदोषानभिक्षा अपि माध्यस्थ्यभाजः, 'ता' तर्हि विषामृतयोस्तुल्यत्वम् ॥१०२॥
मूलं जिणिंददेवो तव्वयण गुरुजणं महासुयण ।
सेसं पावट्ठाणं परमप्पणयं च वज्जेमि ॥ १०३ ॥ । मूलं जिनेन्द्रदेवस्त गुरुजनो महासुजनः ।
शेषः पापस्थानं परमात्मीयं च वर्जयामि ॥ ] मूलमाश्रयो ममाईन् , तथा, तद्वचन तत्प्रणीतो धर्मः, तथा, गुरुजनः सुजनः, नपुंसकत्वं प्राकृतत्वात्, अर्हन्तं धर्म सुगुरुं चाश्रयामीत्यर्थः। शेषमेभ्योऽन्यद् यत् पापस्थानं मिथ्यात्वादि परं परतीर्थिकसंबन्धिकम, 'अप्पणयं' इति आत्मीयकं कुलक्रमायातं गोत्रदेवीपूजन-पार्श्वस्थनमनाऽविधिप्ररूपणादि वर्जयामि ॥१०॥
अम्हाण रायरोसं कस्सुवरि इत्थ नत्थि गुरुविसए। जिणआणरया गुरुणो धम्मत्थं सेस वोसरिमो ॥१०४॥ [ अस्माकं रागरोषं कस्योपर्यत्र नास्ति गुरुविषये ।
जिनाज्ञारता गुरवो धर्मार्थ शेषान् व्युत्सृजामः ॥]
अस्माकं रागरोषं समाहारानपुंसकत्वात् प्रीति-द्वेषौ कस्याप्युपरि अत्र जगति नास्ति गुरुविषये, केवलं जिनाक्षारता गुरवो धर्मार्थ 'प्रङ्गी
Page #39
--------------------------------------------------------------------------
________________
सहिसयपयरणं । क्रियन्ते' इति शेषः । उप० देवान् निर्दोषान् , प्रोक्तं च धर्ममङ्गीकुर्मः । शेषानेतद्विपरीतान् व्युत्सृजामः ॥१०४॥
नो अप्पणा पराया गुरुणो कइयावि हुंति सुद्धाणं ।
जिणवयणरयणमंडणमंडिय सव्वेवि ते सुगुरू ॥ १०५॥ · [नो आत्मीयाः परकीया गुरवः कदापि भवन्ति शुद्धानाम् ।
जिनवचनरत्नमण्डनमण्डिताः सर्वेऽपि ते सुगुरवः ]
नो नैव आत्मीयाः परकीया वा गुरवः कदापि भवन्ति शुद्धानाम् । 'एते हि अस्मत्पूर्वजाहतास्तेन यादृशास्तादृशा वा भवन्तु, एतत्पार्श्व एव बतायुच्चारः कार्यः, वस्त्रपात्रादि वा एतेभ्य एव दयम् , इति विभागो न कल्पते । किं तर्हि । जिनवचनरत्नमण्डनमण्डिता ये, सर्वेऽपि ते स्वगुरवः ॥१०॥
बलिकिज्जामो सज्जणजणस्स सुविसुद्धपुन्नजुत्तस्स । जस्स लहु संगमेणं विसुद्धबुद्धी समुल्लसइ ॥ १०६ ॥ [ बलीक्रियामहे सज्जनजनस्य सुविशुद्धपुण्ययुक्तस्य । ... यस्य लघु संगमेन विशुद्धबुद्धिः समुल्लसति ॥]
वयं बलिक्रियामहे सजनजनस्य सुगुरोः सुविशुद्धेन पुण्येन श्रुतचारित्ररूपेण युक्तस्य, यस्य संगमेन लघु शीशुद्धबुद्धिर्धर्मकरणोद्यमः समुल्लसति ॥१०६॥
अज्जवि गुरुणो गुणिणो सुद्धा दीसंति तडयडा केइ । परं जिणवल्लहसरिसो पुणोवि जिणवल्लहो चेव ॥ १०७ ॥ [ अद्यापि गुरवो गुणिनः शुद्धा दृश्यन्ते क्रियाकठोराः ।
परं जिनवल्लभसदृशः पुनरपि जिनवल्लभ एव ॥]
अस्मिन्नपि काले गुरवो गुणिनो ज्ञानादियुक्ताः शुद्धाः शुद्धप्ररूपकाः साक्षाद् वीक्ष्यन्ते । 'तडयडा' इति देश्यत्वात् क्रियाकठोराः केऽपि कियन्तः । परं जिनवल्लभसदृशः पुनरपि जिनवल्लभ एव । स हि जिनेश्वरराचार्यदीक्षितोऽपि चैत्यवासं कटुविपाकं मत्वा संवेगात सुविहितशिरोमणिश्रीमदभयदेवसूरिपार्श्वमुपसंपन्नः ॥ १०७ ॥
वयणेवि सुगुरुजिणवल्लहस्स केसिं न उल्लसइ सम्मं । अह कह दिणमाणतेयं उलुयाणं हरइ अंधत्तं ? ॥ १०८ ॥
Page #40
--------------------------------------------------------------------------
________________
३३
सहिसयपयरणं । [ वचनेऽपि सुगुरुजिनवल्लभस्य केषां नोल्लसति सम्यक्वम् ।
अथ कथं दिनमणितेज उलूकानां हरत्यन्धत्वम् ? ॥ ] वचनात् सुगुरुजिनवल्लस्यापि केषाञ्चित् सम्यक्त्वं नोल्लसति । अत्र दृष्टान्तमाह 'अथ' इति पक्षान्तरे, दिनमणितेज उलूकानामन्धत्वं कथं केन प्रकारेण हरति ? ॥ १०८ ॥
तिहुयणजणं मरतं दद्रूण नियंति जे. न अप्पाणं । विरमंति न पावाउ घिद्धी ! धिकृत्तणं ताण ॥ १०९ ॥ [ त्रिभुवनजनं म्रियमाणं दृष्ट्वा पश्यन्ति ये नात्मानम् । .
विरमन्ति न पापाद् धिग्धिग् धृष्टत्वं तेषाम् ॥] त्रिभुवनजनं म्रियमाणं दृष्ट्वा पश्यन्ति ये प्रमादिनो नात्मानम् । कथमेवम् ? । यतो विरमन्ति न पापाद् दुष्कर्मणः, तेषां धृष्टत्वं धिग् धिक् । तस्माद् धर्मप्रमादस्त्याज्य एव ॥ १०६॥
सोएण कंदिऊणं कुट्टेऊणं सिरं च उरउयरं ।
अप्पं खिवंति नरए तंपि य धिद्धी कुनेहत्तं ॥ ११० ॥ [ शोकेन क्रन्दयित्या कुट्टयित्वा शिरश्चोरोहृदयम् ।
आत्मानं क्षिपन्ति नरके तदपि च घिधिक् कुस्नेहत्वम् ॥] शोकेनेष्टवियोगजेन क्रन्दयित्वा, कुट्टयित्वा शिर उरो हृदयमुदरं च, ततश्चात्मानं तिपन्ति नरके उपलक्षणत्वात् तिर्यग्गत्यादौ; तस्मादपि धिग् धिक् कुस्नेहत्वं मृतार्थे शिरःकुट्टनादि ॥११०॥
एगंपि य मरणदुहं अन्नं अप्पावि खिप्पए नरए । एगं च मालपडणं अन्नं च लउडेण सिरघाओ ॥ १११ ॥ [ एकमपि च मरणदुःखमन्यदात्मापि क्षिप्यते नरके ।
एकं च मालपतनमन्यच्च लकुटेन शिरोघातः ॥] एकं प्रियमरणदुःखं तदर्थ शोकश्च प्रात्मानं क्षिप्यते (? ति) नरके। अत्रार्थे लौकिकदृष्टान्तः-एकं पुनर्मालात पतनम् , अन्यः पुनर्लकुटेन यष्ट्या शिरोघातः ॥१११॥
संपइ दूसमकाले धम्मत्थी सुगुरुसावया दुलहा । नामगुरू नामसड्ढा सरागदोसा बहू अस्थि ॥११२॥
Page #41
--------------------------------------------------------------------------
________________
सट्ठिसयपयरणं । [संप्रति दुःषमाकाले धर्मार्थिनः सुगुरुश्रावका दुर्लभाः । ।
नामगुरवो नामश्राद्धाः सरागद्वेषा बहवः सन्ति ॥ ]
संप्रति दुःषमाकाले धर्मार्थिनः सुगुरवः श्रावकाश्च दुर्लभाः, नाम्नैव गुरवो द्रव्याचार्याः, नाम्नैव श्राद्धाः सरागद्वेषा बहवः 'अस्ति' इत्यव्ययं सन्तीत्यर्थे ॥११२॥
कहियपि सुद्धधम्म काहिवि धन्नाण जणइ आणंदं । मिच्छत्तमोहियाणं होइ रई मिच्छधम्मेसु ॥११३॥ ( कथितोऽपि शुद्धधर्मः केषामपि धन्यानां जनयत्यानन्दम् ।
मिथ्यात्वमोहितानां भवति रतिमिथ्याधर्मेषु ॥) लिङ्गव्यत्यये कथितोऽपि शुद्धधर्मः केषामपि स्तोकानामेव धन्यानां जनयत्यानन्दम् , यतो मिथ्यात्वमोहितानां भवति रतिः स्वास्थ्यं मिथ्याधर्मेषु लोकादिधर्मेषु ॥११३॥
इकपि महादुक्ख जिणसमयविऊण सुद्धहिययाणं । जं मूढा पावाइं धम्म भणिऊण सेवेति ॥११॥ ( एकमपि महादुःखं जिनसमयविदां शुद्धहृदयानाम् ।
यन्मूढाः पापानि धर्म भणित्वा सेवन्ते ॥)
अर्हन्मतविदां शुद्धहृदामप्येकं महादुःखं यन्मूढा मिथ्यात्वमोहिताः पापानि अगम्यगमनवधादीनि 'धर्मः' इति भणित्वा सेवन्ते, यदाहुस्ते भागवते;
" कामादुपागतां गच्छेदगम्यामपि योषितम्।
जितेन्द्रियोऽपि तां त्यक्त्वा युज्यते स्त्रीवधेन सः॥" इत्यादि तथा, "द्वौ मासौ मत्स्यमांसेन" इत्यादि च । तथा, जैनम्मन्या अपि केचिद् 'यथा कथञ्चित् साधुभ्यो देयम् , लिङ्गमात्रमेव च वन्द्यम्' इत्याद्युक्त्वा प्राधाकर्मिकदानासंयतभक्त्यादिकमपि धर्मतया कारयन्ति ॥११४॥
थोवा महाणुभावा जे जिणवयणे रमंति संविग्गा ।
तत्तो भवभयभीया सम्मं सत्तीइ पालंति ॥११५॥ (स्तोका महानुभावा ये जिनवचने रमन्ते संविग्नाः । ततो भवभयभीताः सम्यक्त्वं शत्या पालयन्ति ॥)
Page #42
--------------------------------------------------------------------------
________________
सहिसयपयरणं । स्तोका महानुभावा महासत्त्वाः सन्ति येऽर्हदुक्तौ रमन्ति ( ? न्ते) रतिं कुर्वन्ति तद्वचनं शृण्वन्तीत्यर्थः । किं० । संविग्नाः संवेगशालिनः । ततस्तेभ्यः शुश्रूषकेभ्यः सकाशाद् ये भवभयभीताः सन्तः स्वशक्त्यनुसारेण सम्यक्त्वं पालयन्ति ते स्तोकाः, शुश्रूषाया निह्नवादिष्वपि सत्त्वात् । कोऽर्थः ? ।ये जिनवचःशुश्रूषन्ति तेऽल्पाः, तेभ्योऽपि सम्यक्त्वधारकाः स्तोकाः ॥११॥
सव्वंगपि हु सगडं जह न चलइ इक्कबडहिलरहिये । तह धम्मफडाडोवं न चलइ सम्मत्तपरिहीणं ॥११६॥ ( सर्वाङ्गमपि खलु शकटं यथा न चलत्येककीलिकारहितम् ।
तथा धर्मस्फटाटोपो न चलति सम्यक्त्वपरिहीनः ॥) सर्वाङ्गयुक्तमप्यनो यथा न चलति, एका चासौ 'बडहिला' च लोकप्रसिद्धौ धूर्मूले कीलिकाविशेषस्तया रहितम्, तथा धर्माडम्बरः, नपुंसकत्वं प्राकृतशैल्या, न चलति सम्यक्त्वपरिहीनः ॥११६॥
न मुणंति धम्मतत्तं सत्थं परमत्थगुणहिय अहियं । बालाण ताण उवरि कह रोसो मुणियधम्माण?॥११७॥ ( न जानन्ति धर्मतत्त्वं शास्त्रं परमार्थगुणहितमधिकम् ।
बालानां तेषामुपरि कथं रोषो ज्ञातधर्मणाम् ? ॥) न मुणन्ति धर्मरहस्यम् , तथा, शास्त्रं न जानन्ति । किंभूतं शास्त्रम्, अधिकं यथा भवत्येवं परमार्थगुणानां ज्ञानादीनां हितम् । तेषां बालानामुपरि को रोषो मुणितधर्माणाम् ? प्रत्युतानुकम्पैव भवति ॥११७॥
अप्पावि जाण वयरी तेसिं कह होइ परजिए करुणा । चोराण बंदियाण य दिलुतेणं मुणेयव्वं ॥११८॥ ( आत्मापि येषां वैरी तेषां कथं भवति परजीवे करुणा ।
चौराणां बन्दिनां च दृष्टान्तेन ज्ञातव्यम् ॥ )
स्वजीवोऽपि, आस्तामन्यः, येषां वैरी इव, जानन्तोऽपि कदाग्रहअस्ता उत्सूत्रोक्त्यादिनाऽऽत्मानमपि नरकं प्रापयन्ति, तेषामात्मशत्रूणां कथं भवति परजीवे उपदेश्ये करुणा । चौराणां तथा बन्दिकानां, ये बलादन्यान् गृहीत्वा धनार्थ बन्दीकुर्वन्ति तेषां दृष्टान्तेन मुणितव्यमेतत् पूर्वोक्तम् । ते हि प्राक् स्वमरणमङ्गीकृत्य ततोऽन्यान् प्रहरन्तीति ॥११॥
Page #43
--------------------------------------------------------------------------
________________
सहिसयपयरणं। - जे रजधणाईणं कारणभूया हवंति वावारा ।
तेवि हु अइपावजुया धन्ना छडंति भवभीया ॥११९॥ (ये राज्यधनादीनां कारणभूता भवन्ति व्यापाराः। तानपि खल्वतिपापयुतान् धन्या मुञ्चन्ति भवभीताः ॥)
ये राज्यधनादीनां हेतुभूता व्यापाराः शत्रुहनन-राज्यसेवा-कृषिवाणिज्यादयस्तानपि, 'हुः' निश्चये, धन्याश्छर्दयन्ति भवभयभीताः सन्तो यतस्तेऽतिपापयुताः॥११॥
बीया य सत्तरहिया धणसयणाईहिं मोहिया लुद्धा।
सेवंति पावकम्मं वावारे उयरभरणटे ॥१२०॥ (द्वितीयाश्च सत्त्वरहिता धनस्वजनादिभिर्मोहिता लुब्धाः ।
सेवन्ते पापकर्म व्यापारे उदरभरणार्थे ॥)
पूर्वोक्तमहासत्त्वेभ्योऽन्ये निःसत्त्वा धनार्जनस्वजनरक्षणादिभिर्मोहितास्त एव लुब्धा लोभवन्तः सेवन्ते पापकर्म कृष्यन्धितरण-देशान्तरयान-कर्मादानसेवा दिदुष्कर्म । कस्मिन् ? । व्यापारे उरदभरणार्थरूपे नोपकारायेत्यर्थः ॥१२०॥
तइयाहमाण अहमा कारणरहिया अनाणगव्येण । जे जति उस्सुत्तं तेसिं धिद्धित्थु पंडित्ते ॥१२१॥ ( तृतीया अधमानामधमा कारणरहिता अज्ञानगर्वेण ।
ये जल्पन्त्युत्सूत्रं तषों धिरधिगस्तु पाण्डित्यम् ॥) तृतीया अधमानामप्यधमाः सन्ति ये धनार्जनादिहेतुरहिता जल्पन्त्युत्सूत्रमशानगर्वेण । तेषां पाण्डित्यं धिर धिगस्तु, यदकारणमपि दुर्गतिं नयति ॥१२॥
जं वीरजिणस्स जिओ मरियभवुस्सुत्तलेसदेसणओ। सागरकोडाकोडिं हिंडइ अइभीमभवगहणे ॥१२२॥ ( यद् वीरजिनस्य जीवो मरीचिभवोत्सूत्रलेशदेशनतः । सागरकोटाकोटीहिण्डत्यतिभीमभवगहने ॥ )
यद् वीरजिनस्य जीवो मरीचिभवे उत्सूत्रलेशदेशनतः सागरोपमकोटाकोटि हिण्डति भ्रमति अतिभीमभवगहने ॥१२२॥
Page #44
--------------------------------------------------------------------------
________________
सढिसयपयरणं । ता जे इमपि वयणं वारं वारं सुणित्तु समयम्मि । दोसेण अवगणित्ता उस्सुत्तपयाइं सेवंति ॥१२३॥ ( तस्माद् ये इदमपि वचनं वारं वारं श्रुत्वा समये ।
द्वेषेणावगणय्योत्सूत्रपदानि सेवन्ते ॥) ततो ये इदं पूर्वोक्तं वचनं वारं वारं श्रुत्वा समये आवश्यकनियुक्त्यादौ दोषेणाभिनिवेशरूपेणावगणय्य उत्सूत्रपदानि सेवन्ते, करणद्वारा जल्पन्ति च ॥१२३॥
ताण कहं जिणधम्मं कह नाणं कह दुहाण वेरग्गं । कूडाभिमाणपंडियनडिया बुडंति नरयम्मि ॥१२४॥ ( तेषां कथं जिनधर्मः कथं ज्ञानं कथं दुःखेभ्यो वैराग्यम् ? ।
कूटाभिमानपाण्डित्यनटिता ब्रुडन्ति नरके ॥ ) तेषां कथं जिनधर्मः, कथं ज्ञानं सद्बोधः, कथं दुःखेभ्य उद्वेजनम् ? । तर्हि किं भवति?। कूटोऽभिमानो यत्र तच्च तत् पाण्डित्यं च तेन नटिता विडम्बिता ब्रुडन्ति नरके ॥१२४॥
मा मा जपह बहुयं जे बद्धा चिक्कणेहिं कम्मेहिं । सव्वेसि तेसि जायइ हिउवएसो महादोसो ॥१२५॥ ( मा मा जल्पत बहु ये बद्धाश्चिक्कणैः कर्मभिः ।
सर्वेषां तेषां जायते हितोपदेशो महाद्वेषः ॥) 'मा मा' इति निषेधे, जल्पत बहुकं हितोपदेशम् । कुतः १ । ये बद्धाश्चिक्कणैर्निबिडैः कर्मभिः सर्वेषां तेषां जायते हितोपदेशो महादोषो द्वेषः श्रीमे घडे निहितं' इत्यादिको महादोषो वा ॥१२५॥
हिययम्मि जे कुसुद्धा ते किं बुझंति धम्मवयणेहिं ?।
ता ताण कए गुणिणो निरत्थयं दमिहिं अप्पाणं ॥१२६॥ ( हृदये ये कुशुद्धास्ते किं बुध्यन्ते धर्मवचनैः ।।
तस्मात् तेषां कृते गुणिनो निरर्थकं दमयन्त्यात्मानम् ॥ ) हृदये कुशुद्धाः कदाग्रहादिदोषयुक्तास्ते किं बुध्यन्ते शुद्धवचनैराग१ आमे घटे निहितम् ।
Page #45
--------------------------------------------------------------------------
________________
३८
सहिसयपयरणं । मोक्तिभिः ? । 'ता' तस्मात् तेषां कृते गुणिनो दमयन्ति तत्प्रतिबोधप्रयासेनात्मानं स्वम् ॥ १२६॥ - -
दूरे करणं दूरम्मि साहणं तह पभावणा दूरे । जिणधम्मसदहावि तिक्खदुक्खाई निट्ठवइ ॥१२७॥ [ दूरे करणं दूरे साधनं तथा प्रभावना दुरे ।
जिनधर्मश्रद्धापि तीक्ष्णदुःखानि निष्ठापयति ॥] करणं दूरे चतुर्धा धर्मस्य वर्तते, तथा प्रसाधनं वाचा भणनं दूरे, तथा, प्रभावना " पवियणी धम्मकही" इत्येवंविधप्रभावकाञ्चिताहन्मतमहिमा दूरे । किं तर्हि ?। जिनधर्मश्रद्धानमपि तीक्ष्णदुःखानि निष्ठापयति, इलापुत्रवत् ॥ १२७ ।।
कइया होही दिवसो जइया सुगुरूण पायमूलम्मि । उस्सुत्तलेसविसलवरहिओ णिसुणेमि जिणधम्म ॥१२८॥ [कदा भविष्यति दिवसो यदा सुगुरूणां पादमूले ।
उत्सूत्रलेशविषलवरहितः श्रोष्यामि जिनधर्मम् ? ॥] कदा कस्मिन् काले भविष्यति स दिवसो दिनं, पक्षाधुपलक्षणम्, यदा सुगुरुपादमूले स्थितोऽहं जिनधर्म निशृणोमि, “ वर्तमानसामीप्ये वर्तमानवद्वा” इति वचनात् श्रोष्यामि । किंभूतः सन् । उत्सूत्रलेशविषलवरहितः ॥ १२८ ॥
दिहावि केवि गुरुणो हियए न रमंति मुणियतत्ताणं ।
केवि पुण अदिवञ्चिय स्मंति जिणवल्लहो जेम ॥१२९॥ [दृष्टा अपि केऽपि गुरवो हृदये न रमन्ते ज्ञाततत्त्वानाम् ।
केऽपि पुनरदृष्टा एव रमन्ते जिनवल्लभो यथा ॥ ] दृष्टा अपि, प्रास्ता (? सताम् ) श्रुताः, केऽपि गुरवः सामाचारीदक्षा हृदि न रमन्ते मुणिततत्त्वानाम् । तत्त्वज्ञास्तु जानन्ति यन्नैकाकि झानं सुगुरुताहेतुः, केवला क्रिया वा, किन्तु शानक्रिये द्वे अपि संवेगयुते सुगुरुताकारणं भवतः। दृश्यमानेषु क्वचित् संवेगाभावः, क्वचित् क्रियाऽभावः, क्वचित् श्रुताभाव इति संतोषाय न तेषाम् । केऽपि पुनरदृष्टा एव तच्चरितश्रुत्या रमन्ते । क इव ? । जिनवल्लभो यथा ॥ १२६ ॥
१ प्रावचनिकः धर्मकथो।
Page #46
--------------------------------------------------------------------------
________________
३६
सहिसयपयरणं ।
३६ अजिया अइपाविट्ठा सुद्धगुरू जिणवरिंदतुल्लत्ति । जो इह एवं मन्नइ सो विमुहो सुद्धधम्मस्स ॥१३०॥ [अजिता अतिपापिष्ठाः शुद्धगुरवो जिनवरेन्द्रतुल्या इति ।
य इहैवं मन्यते स विमुखः शुद्धधर्मस्य ॥]
अजिताः षड्जीववधनिरपेक्षा अत एवातिपापिष्ठा ये भवन्ति तेऽपि शुद्धगुरवो गौतमादिकल्पा अथवा जिनवरेन्द्रतुल्या इत्येवं यः कोऽप्यविवेकलुप्तदृगिह मन्यते स विमुखः पराङ्मुखः शुद्धधर्मस्य ॥१३०॥
जो तं वंदसि पुजसि वयणं हीलेसि तस्स रागेण ।
ता कह वंदसि पुज्जसि जणवायटिइंपि न मुणेसि ॥१३१॥ [यं त्वं वन्दसे पूजयास वचनं हेलयसि तस्य रागेण । तदा कथं वन्दसे पूजयसि जनवादस्थितिमपि न जानासि ॥]
"व्यत्ययोऽप्यासाम्" इत्युक्तेद्वितीयार्थे प्रथमा,ततोयं जिनं त्वं वन्दसे, तथा पूजयसि, तस्यैव चाहतो वचनमागमरूपं हीलयसि रागेण प्रस्तावात्स्वगुरुप्ररूपितोत्सूत्रादिष्टिरागण । 'ता' तर्हि कथं त्वं वन्दसे पूजयसि वा ? । 'किम्' इत्याध्याहार्यम् । किं जनवादस्थितिमपि लोकोक्तिव्यवहारमपि न जानासि ? ॥१३॥
का सा स्थितिरित्याहलोएवि इमं सुणियं जो आराहिज्जइ सो न कोविज्जा । मनिज तस्स वयणं जइ इच्छसि इच्छियं काउं ॥१३२॥ [ लोकेऽपीदं श्रुतं यमाराधयेत् तं न कोपयेत् ।
मन्येत तस्य वचनं यदीच्छसीप्सितं कर्तुम् ॥ ] लोकेऽपीदं श्रुतम् , आस्तां लोकोत्तरे, यमाराधयेद् राजादिकं तं न कोपयेत्, मानयेत् तस्य वचनमाशारूपम् , यदि चेदिच्छसि ईप्सितं स्वहितमनुष्ठातुम् ॥१३२॥
दूसमदंडे लोए सुदुक्खसिद्धम्मि दुक्खउदयम्मि । धन्नाण जाण न चलइ सम्मत्तं ताण पणमामि ॥१३३॥ दुःषमादण्डे लोके सुदुःखसिद्धे दुःखोदये । धन्यानां येषां न चलति सम्यक्त्वं तान् प्रणमामि ॥]
Page #47
--------------------------------------------------------------------------
________________
सट्ठिसयपयरणं । दुःषमैव पञ्चमारक एव दण्डयत्यासीकरोत्यायुर्बलसंपन्मेधाद्यपहारेण लोकमिति दुःषमादण्डस्तस्मिल्लोके सांप्रतकालभाविजने, अतएव सुदुःखसिद्ध तीक्ष्णकृच्छनिष्पन्ने । पुनः किंभूते । दुःखानां मानसिकादीनां कष्टानामुदयो यत्र तस्मिन् । ईदृशेऽपि लोके धन्यानां येषां सम्यक्त्वं न चलति, अस्मिन् काले हि सम्यक्त्वस्य दुर्लभत्वात्, ततस्तान् प्रणमामि ॥१३३॥
नियमइअणुसारेणं ववहारनएण समयबुद्धीए । कालक्खित्ताणुमाणे परिक्खिओ जाणिओ सुगुरू ॥१३४॥ तहवि हु नियजडयाए कम्मगुरुत्तस्स नेय वीससिमो। धन्नाण कयत्थाणं सुद्धगुरू मिलइ पुन्नेहिं ॥१३५॥ अहयं पुणो अधन्नो ता जइ पत्तो य अह न पत्तो य । तहवि हु मह सो सरणं संपइ जो जुगप्पहाणगुरू ॥१३६।। [निजमत्यनुसारेण व्यवहारनयेन समयबुद्धया ।
कालक्षेत्रानुमानेन परीक्षितो ज्ञातः सुगुरुः ॥ . तथापि खलु निजजडतां कर्मगुरुत्वं नैव विश्वसिमः । धन्यानां कृतार्थानां शुद्धगुरुर्मिलति पुण्यैः ॥ अहकं पुनरधन्यस्तस्माद्यादि प्राप्तश्वाथ न प्राप्तश्च । तथापि खलु मम स शरणं संप्रति यो युगप्रधानगुरुः ॥] निजमत्यनुसारेण, तथा " आलएणं विहारेणं ठाणंचंकमणेण य 1
सक्का सुविहिया गाउं भासा वेणइएण य ॥१॥" इत्यादिना व्यवहारनयेन, तथा, "संव्वजिणाणं जम्हा बउसकुसीलेहिं वट्टए तित्थं" इत्यादिश्रुतसुबुद्धया, कालक्षेत्रानुमानेन सुगुरुर्धर्माचार्यः श्रीजिनपत्तिसूरिरूपः परीक्षितो विचारितस्तथा ज्ञातोऽवगतः । यद्यप्येवमस्ति तथापि, 'हुः' निश्चये, जडतायाः कर्मगुरुत्वस्य च नैव विश्वसिमः, यतो धन्यानां कृतार्थानां शुद्धगुरुमिलति पुण्यैरेव । ननु तर्हि
१ आलयेन विहारेण स्थानचक्रमणेन च ।
शक्याः सुविहिता ज्ञातुं भाषया वैनयिकेन च ॥१॥ २ सर्वजिनानां यस्माद् बकुशकुशीलैवर्तते तीर्थम् ।
Page #48
--------------------------------------------------------------------------
________________
सहिसयपयरणं । तव किम् ? अहं पुनरधन्यो येन मे नाजनि प्राग् गुरुयोगस्ततो जातेऽपि तस्मिन् शङ्के 'ता' तस्माद् यदि प्राप्तः सोऽथचन प्राप्तस्तथापि मे भवतु शरणं स इति संप्रति काले यो युगप्रधानगुरुः ॥१३४॥१३५॥१३६॥
जिणधम्म दुग्नेयं अइसयनाणीहिं नज्जए सम्मं । तहवि हु समयढिईए ववहारणएण नायव्वं ॥१३७॥ [जिनधर्मो दुर्जेयोऽतिशयज्ञानिभिर्ज्ञायते सम्यक् ।
तथापि खलु समयस्थित्या व्यवहारनयेन ज्ञातव्यः ॥] जिनधर्मो दुर्शेयः, उत्सर्गापवादनिश्चयव्यवहारादिनयात्मकत्वात ततोऽतिशयज्ञानिभिश्चतुर्दशपूर्वधरादिभिर्ज्ञायते सम्यकस्थितत्वेन तथा , पि समयस्थित्या
" उस्सग्गववायविऊ गीयत्थो निस्सओ य जो तस्स ।
अणगृहंतो विरिय असढो सव्वत्थ चारित्ते ॥१॥" इत्यादिकया । तथा, "निच्छयो दुन्नेयं को भावो कम्मि वट्टए समणो।
ववहारो उ जुजइ जो पुवविऊ चरित्तम्मि ॥१॥" इत्यादिव्यवहारनयेन च वेदितव्योऽर्हद्धर्माराधकगुरुद्वारा जिनधर्मः ॥१३७॥
जम्हा जिणेहि भणियं सुयववहारं विसोहयंतस्स । जायइ विसुद्धबोही जिणआणाराहगत्ताओ ॥१३८॥ ( यस्माजिनैर्भणितं श्रुतव्यवहारं विशोधयतः ।
जायते विशुद्धबोहिर्जिनाज्ञाराधकत्वात् ॥] यद् यस्माज्जिनैणितं श्रुतव्यवहारं विशोधयतः श्रुतव्यवहारेण चारित्रशुद्धिं कुर्वतो जायते शुद्धा बोधिर्धर्मप्राप्तिः; केवलिनापि तस्याङ्गीकरणात् । कस्मात् ? । जिनाझाराधकत्वात् । जिनाज्ञा चैवम् ;-.
१ उत्सर्गापवादविद् गीतार्थों निश्रयश्च यस्तस्य ।
अगूहन् वीर्यमशठः सर्वत्र चारित्रे ॥२॥ २ निश्चयतो दुर्शानः को भावः कस्मिन् वर्तते श्रमणः । व्यवहारतस्तु युज्यते यः पूर्वविच्चारित्रे ॥१॥
Page #49
--------------------------------------------------------------------------
________________
सहिसयपयरणं । "जो जिणमयं पवजह ता मा ववहारनिच्छयं मुयह । ववहारनयच्छेए तित्थुच्छेओ जो भणिो ॥१॥"१३८।। जे जे दीसंति गुरू समयपरिक्खाए ते न पुजंति । पुणमेगं सदहणं दुप्पसहो जाव जं चरणं ॥१३९॥ [ ये ये दृश्यन्ते गुरवः समयपरीक्षया ते न पूर्यन्ते ।
पुनरेकं श्रद्धानं दुष्पसहं यावद् यच्चरणम् ॥ ] ये ये दृश्यन्ते गुरवः संप्रति समयपरीक्षया ते न पूर्यन्ते परीक्षां न सहन्ते । पुनरेकं श्रद्धानं वर्तते । दुष्प्रसहो यावद् यद् यस्माचरणं प्रतिपादितमस्ति ॥ १३६ ॥
ता एगो जुगपवरो मज्झत्थमणेहि समयदिट्ठीए । सम्मं परिक्खियव्यो मुत्तूणं पवाहहलबोल ॥१४०॥ [ तस्मादेको युगप्रवरो मध्यस्थमनोभिः समयदृष्टया ।
सम्यक्परीक्षितव्यो मुक्त्वा प्रवाहकलकलम् ॥] तस्मादेको युगप्रवरो मध्यस्थमनोभिः पुम्भिः समयं दृष्ट्वा निशीथव्यवहारादिश्रुतविचारणया सम्यक् परीक्षणीयः। किं कृत्वा ? । मुक्त्वा प्रवाहकलकलम् ॥१४०॥
संपइ दसमच्छेरयनामायरिएहिं जणियजणमोहा । सुहधम्माउ निउणवि चलंति बहुजणपवाहाओ ॥१४१॥ [ संप्रति दशमाश्चर्यनामाचार्यैर्जनितजनमोहाः ।
शुभधर्मान्निपुणा अपि चलन्ति बहुजनप्रवाहात् ॥ ] संप्रति दुःषमायां दशमाश्चर्य चासंयतपूजालक्षणम्, नामाचार्याश्च लिङ्गमात्रोपजीविनः साधुक्रियाविकलाः सूरयस्तैर्दशमाचार्यैर्जनितो 'जण' इति प्राकृतजनोचितो मोहो येषां मध्यपदलोपात् ते जनितजनमोहा निपुणा अपिशुद्धधर्माञ्चलन्ति । कस्मात् ? । बहुजनप्रवाहात् 'वंशक्रमायाता भ्रष्टा अपि गुरवो मान्या एव' इत्यादिकात् ॥१४१॥
जाणिज्ज मिच्छदिट्ठी जे पडियालंबणाई गिण्हंति । जे पुण सम्मट्ठिी तेसिं मणो चडणपयडीए ॥१४२॥
१ यदि जिनमतं प्रपद्यध्वं ततो मा व्यवहार-निश्चयौ मुश्चत । व्यवहारनयच्छेदे तीर्थच्छेदो यतो भणितः ॥ १॥
Page #50
--------------------------------------------------------------------------
________________
सट्ठिसयपयरणं। [जानीत मिथ्यादृष्टीन् ये पतितालम्बनानि गृह्णन्ति ।
ये पुनः सम्यग्दृष्टयस्तेषां मनश्चटनपदिकायाम् ॥) जानीत मिथ्यादृष्टींस्तान ये पतितानां मार्गभ्रष्टपार्श्वस्थादीनां तच्छ्राद्वानां वालम्बनानि तदाचीर्णकुप्रवृत्तिबहुमानवस्तुपालाद्याचीर्णप्रपाकूपारामादिकरणरूपानि गृह्णन्ति । ये पुनः सम्यग्दृष्टयस्तेषां मनश्चित्तं चटनपदिकायां गुणस्थानारोहमार्गे भवति ॥१३२॥
सव्वंपि जए सुलहं सुवन्नरयणाइवत्थुवित्थारं । निच्च चिय मेलावं सुमग्गनिरयाण अइदुलहं ॥१४३॥ ( सर्वोऽपि जगति सुलभः सुवर्णरत्नादिवस्तुविस्तारः । नित्यमेव मेलः सुमार्गनिरतानामतिदुर्लभः ॥)
सर्वमपि जगति सुलभं सुवर्णरत्नादिवस्तुविस्तारं जानीत, किन्तु नित्यमेव मेलापकं सुमार्गनिरतानामतिर्दुलभम्, “दुल्लहो माणुसो जम्मो १४३॥
अहिमाणविसोवसमत्थयं च थुव्वंति देव गुरुणो य। तेहिंपि जइ माणो हा ही ! तं पुव्वदुच्चरियं ॥ १४४ ॥ ( अभिमानविषोपशमार्थं च स्तूयन्ते देवा गुरवश्च ।
तैरपि यदि मानो हा ही ! तत् पूर्वदुश्चरितम् ॥) जात्यादिगर्वविषोपशमार्थमेव च मिथ्यात्वादिदोषोपशान्तये स्तूयन्ते, उपलक्षणत्वात् सेवादीनाम्, देवा गुरवश्च, तैरपि यदि मानो देवमानो 'मत्पूर्वजकारितमिदम् , कोऽमुं विहायान्यत्र चैत्ये पूजादौ वर्तते ? मयि जीवति मत्कारितप्रतिमाने एव बल्यादि कार्यम्' इत्यादिकः, गुरुविषयमानोऽपि यथा तुल्येऽपि सोविहित्ये गुणवत्त्वे च स्वाहतगुरूणां बहुमाननं मत्सरादन्यावमाननम् , हा ही तत् पूर्वदुश्चरितम् ॥१४॥
जो जिणआयरणाए लोओ न मिलेइ तस्स आयारे । हा हा मूढ ! करंतो अप्पं कह भणसि जिणपणयं ? ॥१४॥ ( यो जिनाचरणया लोको न मिलति तस्याचारान् । हा हा मूढ़ ! कुर्वन्नात्मानं कथं भणसि जिनप्रणतम् ? ॥)
१ दुर्लभ मानुष्यकं जन्म।
Page #51
--------------------------------------------------------------------------
________________
૪
सहिसयपयरणं ।
यः पार्श्वस्थादिजनो जिनोक्तेन आचरणया च न मिलति न संगच्छते, तस्याचारान् सामाचारीविशेषान् हा हा ! हे मूढ़ ! कुर्वन् कथमास्मानं भणसि जिनप्रणीतं जिनप्रणयं वा ? ॥ १४५ ॥
जं चिय लोओ मन्नइ तं चिय मन्नति सयललोयावि । जं मन्नइ जिणनाहो तं चि मन्नति के विरला ॥ १४६॥
( यदेव लोको मन्यते तदेव मन्यन्ते सकललोका अपि ।
यद् मन्यते जिननाथस्तदेव मन्यन्ते के विरलाः ॥ )
यदेव स्वकल्पितादि लोक एकः कश्चित् पार्श्वस्थादिर्मन्यते तदेव मन्यन्ते सकला अपि निर्विवेकजनाः । यत्पुनर्मन्यते जिननाथोऽर्हन्, तदेव मन्यन्ते केsपि विरला लघुकर्माणः, अनुश्रोतः प्रस्थितेभ्यः प्रतिश्रोतःप्रस्थिताल्पत्वात् ॥ १४६ ॥
साहम्मियाउ अहिओ बंधुसुयाईसु जाण अणुराओ । तेर्सि नहु सम्मत्तं विन्नेयं समयनीईए ॥ १४७ ॥
( साधर्मिक दधिको बन्धुसुतादिषु येषामनुरागः । तेषां नैव सम्यक्त्वं विज्ञेय समयनीत्या | )
66
साधर्मिकात् समधर्मिणोऽधिको बन्धुसुतादिषु येषामनुरागः, नैवं जानन्ति यथा-
अन्नन्नदेसजाया अन्नन्नाहारवढियसरीरा । जिण सासणं पवन्ना सव्वे ते बंधवा भणिया ॥ १ ॥
वित्थिन्नपाणासणखाइमेहिं पुप्फेहिं पत्तेहिं पुणष्फलेहिं । सुसावयाणं कर णिज्जमेयं कयंव जम्हा भरहाहिवेणं ॥ २ ॥” श्रीवीरस्वामिरामादिदृष्टान्ताश्च । तेषां नैव सम्यक्त्वं विज्ञेयम् । कया । समयनीत्या यागमयुक्त्या ॥४७॥
जइ जाणसि जिणनाहो लोयायारण पक्खओ हूओ । ता तं तं मन्नतो कह मन्नसि लोयमायारे ? || १४८ ॥
-
१ अन्यान्यदेशजाता अन्यान्याहारवर्धितशरीराः । जिनशासनं प्रपन्नाः सर्वे ते बान्धवा भणिताः ॥ १ ॥ विस्तीर्णपानाशनखादिमभिः पुष्पैः पत्रैः पुनः फलैः । सुश्रावकाणां करणीयमेतत् कृतमिव यस्माद् भरताधिपेन ॥ २ ॥
Page #52
--------------------------------------------------------------------------
________________
सट्ठिसयपयरणं । ( यदि जानासि जिननाथो लोकाचाराणां पक्षतो भूतः ।
तदा त्वं तं मन्यमानः कथं मन्यसे लोकाचारान् ? ॥)
यदि जानासि जिननाथो लोकाचाराणां पर्वादिषु जनसत्कारादिरूपाणां पक्षतो भूतो दूरस्थः, तर्हि त्वं भोः श्रोतः ! तमहन्तं मन्यमानः कथं मन्यसे लोकाचारान् ? । मकारोऽलाक्षणिकः ॥१४॥
जे मन्नति जिणिदं पुणोवि पणमंति इयरदेवाणं । मिच्छत्तसंनिवायगघत्थाणं ताण को विज्जो ? ॥१४९॥ ( ये मत्वा जिनेन्द्रं पुनरपि प्रणमन्तीतरदेवान् । मिथ्यात्वसंनिपातग्रस्तानां तेषां को वैद्यः ? ॥)
ये केचिद् मानयित्वाऽर्हदुक्तं धर्ममङ्गीकृत्य पूजादिना प्रणमन्तीतरदेवान हरिहरादीन् , तेषां मिथ्यात्वमेव संनिपातो वातपित्तश्लेष्मणामैक्याद् रोगविशेषस्तेन प्रस्तानां को वैद्यः को भाविभिषग् ? ॥१४॥
एगो सुगुरू एगावि सावया चेइयाणि विविहाणि । तत्थ य जं जिणदव्वं परुप्परं तं न विचंति ॥१५०॥ ( एकः सुगुरुरेकेऽपि श्रावकाश्चैत्यानि विविधानि ।
तत्र च यज्जिनद्रव्यं परस्परं तद् न व्ययन्ते ॥ )
अपेरेवकारार्थत्वादेक एव सुगुरुः,सुगुरुता चास्य बाह्याडम्बरदर्शनेन तादृशलोकापेक्षया न तु पारमार्थिकी, एके एव नामश्रावकाः,तथाचैत्यानि विविधान्येकान्येव । तत्र च सुगुरुश्रावकचैत्यानामैक्येऽपि यज्जिनद्रव्यम्, उपलक्षणेन ज्ञानस्वसाधारणग्रहः, तत् परस्परं न विक्रीणन्ति अज्ञानावृताः सन्तो न व्ययन्ते । अन्यसाधर्मिककारितचैत्ये द्रव्यं सदपि न ददातीत्यर्थः ॥१५०॥
ते न गुरू नो सड्ढा न पूइओ होइ तेहिं जिणनाहो ।
मूढाणं मोहट्टिई सा नज्जइ समयनिउणेहिं ॥१५१॥ ( ते न गुरवो नो श्राद्धा न पूजितो भवति तैर्जिननाथः ।
मूढानां मोहस्थितिः सा ज्ञायते समयनिपुणैः ॥) यदुपदेशात् ते श्राद्धाभासास्तथा कुर्वन्ति ते न गुरवः । गुरवस्तु न स्वदाक्षिण्यादिना श्लिष्टं वदन्ति । तथा, न ते श्राद्धाः। न पूजितो भवति
Page #53
--------------------------------------------------------------------------
________________
सढिसयपयरणं । तैमियोमत्सरग्रस्तैर्जिननाथः, तत्पूजा हि मनःशान्तये क्रियते । किं तर्हि ? । मूढानां मोहस्थितिः सा तादृशी ज्ञायते समयनिपुणैः कुन्तलदेवीवत् ॥१५॥
सो न गुरू जुगपवरो जस्स य वयणम्मि वट्टए भेओ । चियभवणसड्ढगाणं साहारणदव्वमाईणं ॥ १५२ ॥ ( स न गुरुर्युगप्रवरो यस्य च वचने वर्तते भेदः ।
चैत्यभवनश्राद्धानां साधारणद्रव्यादीनाम् ॥) स गुरुर्युगप्रवरो न, यद्वचने वर्तते प्रवर्तते पार्थक्यं चैत्यभवनश्राद्धकानां साधारणद्रव्यादीनां च । मकारोऽलादाणिकः ॥१५२॥
संपइ पहुवयणेणवि जाव न उल्लसइ विहिविवेयरं । ता निबिडमोहमिच्छत्तगंठियादुट्ठमाहप्पं ॥ १५३ ॥ ( संप्रति प्रमुवचनेनापि यावन्नोल्लसति विधिविवेकत्वम् ।
तावन्निबिडमोहमिथ्यात्वग्रन्थितादुष्टमाहात्म्यम् ॥ )
संप्रत्यपि दुःषमायामपि प्रभोर्जिनस्य वचनेन श्रुतेन यावन्नोल्लसति विधेर्देवस्वज्ञानस्वाहत्पूजादिकर्तव्यविशेषस्य विवेको विचारणा तद्भावो विधिविवेकत्वं, तावनिबिडमोहमिथ्यात्वग्रन्थितादुष्टमाहात्म्यम् ॥१५३॥
बंधणमरणभयाइं दुक्खाइं तिक्खाइं नेय दुक्खाई।
दुक्खाणमिह निहाणं पहुवयणासायणाकरण ॥ १५४ ॥ ( बन्धनमरणभयानि दुःखानि तीक्ष्णानि नैव दुःखानि ।
दुःखानामिह निधानं प्रमुवचनाशातनाकरणम् ॥ ) बन्धनमरणभयानि दुःखानि तीक्ष्णानि, तानि च नैव दुःखानि, अल्पकालभावित्वात् तेषाम् । किं तर्हि ? । दुःखानामिह जगति निधानं प्रभुवचनाशातनाकरणम् , "ओसायणमिच्छत्तं" इत्याधुक्तेः ॥१५४॥
पहुवयणविहिरहस्सं नाऊणवि जाव दीसए अप्पा ।
ता कह सुसावयत्तं जे चिनं धीरपुरिसेहिं ? ॥ १५५ ॥ (प्रमुवचनविधिरहस्यं ज्ञात्वापि यावद् दृश्यत आत्मा ।
तदा कथं सुश्रावकत्वं यच्चीर्णं धीरपुरुषैः ? ॥ ) . १ आशातनामिथ्यात्वम् ।
Page #54
--------------------------------------------------------------------------
________________
सट्ठियपयरणं ।
४७
प्रभुवचनोक्तविधितत्त्वं " वंदे उभओकालंपि " इत्यादि ज्ञात्वा यावदात्मा दृश्यते प्रतिमापन्नश्रावकस्यात्मनः स्वरूपं विचार्यते, 'ता' तदा ' कह ' इति कुत्र सुभावकत्वं यच्चीर्ण धीरपुरुषैः कामदेवादिभिः ॥ १५५ ॥ जोवि हु उत्तमसावयपयडीए चडणकरणअसमत्थो । तहविहु पहुवयणकरणे मणोरहो मज्झ हिययस्मि ॥ १५६ ॥ ( यद्यपि खत्तमश्रा वकपदिकायां चटनकरणासमर्थः । तथापि खलु प्रभुवचनकरणे मनोरथो मम हृदये || )
यद्यपि ' हु' निश्चये उत्तमश्रावक परिपाट्यां चटनकरणे आरोहणविधानेऽसमर्थोऽहमस्मि, कालादिवैषम्यात् ; तथाप्यर्हदुक्तविधाने मनोरथो मम हृदये 'अस्ति ' इति गम्यते ॥ १५६ ॥
ता पहु ! पणमिय चलणे एकं पत्थेमि परमभावेण । तुहवयणरयणगहणे अइलोहो हुज्ज मज्झ सया ॥ १५७ ॥ ( तस्मात् प्रभो ! प्रणम्य चरणावेकं प्रार्थये परमभावेन । त्वद्वचनरत्नग्रहणेऽतिलोभो भवेद् मम सदा ॥ )
तस्माद् हे प्रभो ! अर्हन् श्रीजिनपत्तिसूरिगुरो वा, त्वच्चरणौ प्रणम्य एकमेव प्रार्थयामि परमभावेन, त्वद्वचनान्येव रत्नानीव रत्नानि तद्ग्रहणेऽतिलोभो मम भवेत् सदा ॥ १५७ ॥
इह मिच्छवासनिक भावओ गलियगुरूविवेयाणं । अम्हाण कह सुहाई संभाविज्जंति सुमिणेवि ? ॥ १५८ ॥
( इह मिथ्यावास निकृष्टभावतो गलितगुरुविवेकानाम् । अस्माकं कथं सुखानि संभाव्यन्ते स्वप्नेऽपि ? || )
इह दुष्षमाकाले मिथ्यावासेन मिथ्यात्ववासनया निकृष्टो विरूपो भावो मिथ्यावासनिकृष्टभावस्तस्माद् गलितगुरुविवेकानामस्माकं कथं सुखानि संभाव्यन्ते गण्यन्ते स्वप्नेऽपि ? ॥१५८
जं जीवियमित्तंपि ह धरेमि नामं च सावयाणंपि ।
तंपि पहु ! महाचोज्जं अइविसमे दूसमे काले || १५९ ॥
९ वन्दत उभयकालमपि ।
1
Page #55
--------------------------------------------------------------------------
________________
सट्ठिसयपयरणं ।
( यज्जीवितमात्रमपि खलु धरामि नाम च श्रावकाणामपि । तदपि प्रभो ! महाश्चर्यमतिविषमे दुःषमे काले || )
5
यज्जीवितमात्रमपि धारयामि केनचिद् भङ्गकेन देशसंयतजीवितमात्रमपि स्फुटं धाइयामि च पुनः, यत् श्रावकाणां नामापि धारयामि तदपि प्रभो ! 'महाचोज्जं ' महदाश्चर्यमतिविषमे दुःषमाकाले ॥ १५६ ॥ परिभाविऊण एवं तह सुगुरु ! करिज्ज अम्ह सामित्तं । पहुसामग्गिसुजोगे जह सहलं होइ मणुयत्तं ॥ १६० ॥ ( परिभाव्यैवं तथा सुगुरो ! कुर्या अस्माकं स्वामित्वम् । प्रभुसामग्रीसुयोगे यथा सफलं भवेद् मनुजत्वम् ॥ )
परिभाव्य चिन्तयित्वा एवं पूर्वोक्तम्, हे सुगुरो ! कुर्या विदध्या अस्माकं स्वामित्वम्, यथा प्रभुणाऽर्हता दुर्लभतयोक्ता सामग्री धर्म साधनोपस्कारः " चंत्तारि परमंगाणि दुल्लहाणि य जंतुणो ” इत्यादिका तस्याः सुष्ठु योगः प्राप्तिस्तस्मिन् यथा सफलं रत्नत्रयाराधनफलकलितं भवति मनुजत्वम् ॥ १६०॥
एवं भंडारियनेमिचंदरइयावि कवि गाहाओ । विहिमग्गरया भव्वा पढंतु जाणंतु जंतु सिवं ।। १६१ ॥ ( एवं भाण्डागारिकनेमिचन्द्ररचिता अपि कतिचिद् गाथाः । विधिमार्गरता भव्याः पठन्तु जानन्तु यान्तु शिवम् ॥ )
एवं पूर्वोक्तयुक्त्या भाण्डागरिकः स चासौ नेमिचन्द्रश्च सज्जनसुतः श्रीजिनेश्वरसूरेः पिता च तेन रचिताः कतिचित् गाथाः १६० माना: विधिमार्गरता भव्याः पठन्तु सूत्रतः, जानन्तु अर्थपरिज्ञानेन, ततश्चैतत्पाठपरिज्ञानाभ्यां यान्तु शिवम् । शिवशब्दोपादानं चावसानमङ्गलार्थम् ॥१६१ ॥
स्वस्मृतिबीजकमेतत् षष्टिशतप्रकरणस्य सद्वृत्तेः । लिखल्लेखकवदयं शिष्यः श्रीधवलचन्द्रगुरोः ॥ 11 ॥ इति श्रीषष्टिशतप्रकरणावचूरिः ॥ श्री श्री श्री ॥
१ चत्वारि परमाङ्गानि दुर्लभानि च जन्तोः ।
Page #56
--------------------------------------------------------------------------
________________ मुनिश्रीमोहनलालजी जैनग्रन्थमालाया प्राप्तव्यानि पुस्तकानि।। 1 सुरसुन्दरीचरिअं / प्राकृतभाषायां चतुःसहसूगाथाबद्धोऽयं ग्रन्थः / अनाधिकृतकथा सरलयाऽथ च सरसया भाषया प्रतिपादिता। विषमस्थलेषु संस्कृतपर्यायैष्टिप्पनकमप्यकारि। अनेकज्ञातव्यवृत्तान्तपरिपूर्णया संस्कृतभाषात्मिकया विस्तीर्णया प्रस्तावनया विभूपितम् / विद्वद्भिभूयः प्रशंसितम् / मूल्य साधारणपत्रात्मकस्य रूप्यकद्वयम् / उच्चपत्रात्मकस्य रूप्यकत्रयम् / 2 हरिभद्रसूरिचरित्रम् / सुप्रसिद्धजैनग्रन्थकारस्य हरिभद्रसूरेरितिहासविषयमद्यावधिसमुपलभ्यमानं समस्तमपि वृत्तं महता परिश्रमेण समासाद्य संकलितम् / ऐतिहासिकदृष्ट्यालिखितपिदं पुस्तकं प्रस्टतविषयेऽत्युपयुक्तताभद्वितीयतां च बिभर्ति, सुदृढपत्रेषु एदितस्याप्यस्य मूल्यं केवलमाणकचतुष्टयम्। सप्तसंधानमहाकाव्यम्।अत्र ऋषभनाथ-शान्तिनाथ-नेमिनाथपार्श्वनाथ-महावीरस्वामि-कृष्ण-रामचन्द्राणां सप्तानामपि महात्मनां विभिन्नघटनाशालीन्यापि चरित्राणि सशैरेव शब्दविन्यासैः प्रति पादितानीति विदुषामत्याश्चर्यकरोऽदृष्टपूर्वश्चायं ग्रन्थो महता :रिशमणापलभ्य संशोध्य च प्रकाशितः / विषमस्थलेषु टिप्पनना लकृतः / सुदृढपत्रेषु मुद्रितस्याप्यस्य मूल्यं केवलमष्टाणकाः / 4 गौतमीयमहाकाव्यम् / अस्मिन् महाकाव्ये गौतमाघेकादशगणधराणां वीरप्रभुपार्थे संशयच्छेदनानन्तरं प्रत्रज्यापर्यन्तं सम्पूर्णतया सुमनोहररीत्या चरितं प्रतिपादितमस्ति / मूल्यमष्टाणकाः / पार्श्वनाथ चरित्रम् / बहून्याचार्यः पार्श्वनाथचरितानि विरचितानि दृश्यन्ते तथाऽप्यस्य रचना हृदयंगमा / प्राप्तिस्थानम् मुनिश्रीमोहनलालजी जैन ग्रन्थमाला कार्यालय ठि, रामवाट जैन मन्दिर मु० बनारस सिटी