________________
सटिसयपयरणं । यदीत्यभ्युपगमे, न कुरुषे तपः प्रधानं द्विभेदम्, चरणं चारित्रं तपश्चरणम्, तपसश्चरणं करणं वा, तस्य दुरनुष्ठेयत्वात् । तथा, न पठसि श्रुतं प्रकरणादि, आलस्यादिदोषात् । तथा, न गुणयसि निद्राविकथादिना पूर्वाधीतम् । न ददासि दानं देयवस्तु । 'ता' तदा, 'इत्तियं' इति एतावद् न शक्नोषि कर्तुम्, यद् देव एकोद्वितीयोऽर्हनेव ममाराध्य इति । उपलक्षणात् सुगुरुः सुधर्मश्च, श्रेणिकादेरिव ॥२॥
रे जीव ! भवदुहाई एकं चिय हरइ जिणमयं धम्म । इयराणं पणमंतो सुहकज्जे मूढ ! मुसिओ सि ॥३॥ [रे जीव ! भवदुःखान्येक एव हरति जिनमतो धर्मः ।
इतरान् प्रणमन् शुभकार्ये मूढ ! मूषितोऽसि ॥ ] 'रे' इति संभाषणेऽव्ययम्, जीव आत्मन् ! भवदुःखानि एक एव हरति जिनमतोऽहत्प्रणीतो धर्मः, उपलक्षणत्वात् प्रणेता देवः, तदुपदेष्टा च गुरुः । इह द्वितीया प्रथमार्थे । ततश्च 'इयराणं' इति द्वितीयास्थाने षष्ठीनिर्देशात्, इतरान् देवविशेषान् कुगुरूंश्च प्रणमन् शुभकार्ये पुण्यार्थ, मूढ मूर्ख ! मुषितोऽसि निस्सारीकृतोऽसि ॥३॥
देवेहिं दाणवेहि य सुओ मरणाओ रक्खिओ कोइ ?। दढकयजिणसम्मत्ता बहुयवि अजरामरं पत्ता ॥४॥ [ देवैर्दानवैश्च श्रुतो मरणाद् रक्षितो कोऽपि ।
दृढकृतजिनसम्यक्त्वा बहवोऽप्यजरामरं प्राप्ताः ॥] देवैः सुरैः, दानवैश्वासुरैः, श्रुत उपलक्षणत्वाद् दृष्टो वा मरणाद् रक्षितः कश्चिदपि ? प्रसादितप्रेतपतिशङ्करवन्न कश्चित् । किन्तु दृढीकृतजिनप्रणीतसम्यग्दर्शना बहवोऽपि जीवा अजरामरं 'पदम्' इति शेषः, प्राप्ताः, उपलक्षणत्वात् प्राप्नुवन्ति, प्राप्स्यन्ति चेति । भावप्रधानत्वानिर्देशस्याजरामरत्वं वा ॥४॥
जह कुवि वेसारत्तो मुसिज्जमाणोवि मन्नए हरिसं । तह मिच्छवेसमुसिया गयंपि न मुणंति धम्मनिहिं ॥५॥ [ यथा कोऽपि वेश्यारक्तो मुष्यमाणोऽपि मन्यते हर्षम् । तथा मिथ्यात्ववेश्यामुषिता गतमपि न जानन्ति धर्मनिधिम् ॥] यथा कश्चिद् वेश्यारक्तो मुष्यमाणोऽपि मन्यते हर्षम्, 'तथा'