Book Title: Satthisay Payaranam
Author(s): Hargovinddas
Publisher: Atmaram Sharma

View full book text
Previous | Next

Page 55
________________ सट्ठिसयपयरणं । ( यज्जीवितमात्रमपि खलु धरामि नाम च श्रावकाणामपि । तदपि प्रभो ! महाश्चर्यमतिविषमे दुःषमे काले || ) 5 यज्जीवितमात्रमपि धारयामि केनचिद् भङ्गकेन देशसंयतजीवितमात्रमपि स्फुटं धाइयामि च पुनः, यत् श्रावकाणां नामापि धारयामि तदपि प्रभो ! 'महाचोज्जं ' महदाश्चर्यमतिविषमे दुःषमाकाले ॥ १५६ ॥ परिभाविऊण एवं तह सुगुरु ! करिज्ज अम्ह सामित्तं । पहुसामग्गिसुजोगे जह सहलं होइ मणुयत्तं ॥ १६० ॥ ( परिभाव्यैवं तथा सुगुरो ! कुर्या अस्माकं स्वामित्वम् । प्रभुसामग्रीसुयोगे यथा सफलं भवेद् मनुजत्वम् ॥ ) परिभाव्य चिन्तयित्वा एवं पूर्वोक्तम्, हे सुगुरो ! कुर्या विदध्या अस्माकं स्वामित्वम्, यथा प्रभुणाऽर्हता दुर्लभतयोक्ता सामग्री धर्म साधनोपस्कारः " चंत्तारि परमंगाणि दुल्लहाणि य जंतुणो ” इत्यादिका तस्याः सुष्ठु योगः प्राप्तिस्तस्मिन् यथा सफलं रत्नत्रयाराधनफलकलितं भवति मनुजत्वम् ॥ १६०॥ एवं भंडारियनेमिचंदरइयावि कवि गाहाओ । विहिमग्गरया भव्वा पढंतु जाणंतु जंतु सिवं ।। १६१ ॥ ( एवं भाण्डागारिकनेमिचन्द्ररचिता अपि कतिचिद् गाथाः । विधिमार्गरता भव्याः पठन्तु जानन्तु यान्तु शिवम् ॥ ) एवं पूर्वोक्तयुक्त्या भाण्डागरिकः स चासौ नेमिचन्द्रश्च सज्जनसुतः श्रीजिनेश्वरसूरेः पिता च तेन रचिताः कतिचित् गाथाः १६० माना: विधिमार्गरता भव्याः पठन्तु सूत्रतः, जानन्तु अर्थपरिज्ञानेन, ततश्चैतत्पाठपरिज्ञानाभ्यां यान्तु शिवम् । शिवशब्दोपादानं चावसानमङ्गलार्थम् ॥१६१ ॥ स्वस्मृतिबीजकमेतत् षष्टिशतप्रकरणस्य सद्वृत्तेः । लिखल्लेखकवदयं शिष्यः श्रीधवलचन्द्रगुरोः ॥ 11 ॥ इति श्रीषष्टिशतप्रकरणावचूरिः ॥ श्री श्री श्री ॥ १ चत्वारि परमाङ्गानि दुर्लभानि च जन्तोः ।

Loading...

Page Navigation
1 ... 53 54 55 56