Book Title: Satthisay Payaranam
Author(s): Hargovinddas
Publisher: Atmaram Sharma

View full book text
Previous | Next

Page 11
________________ सढिसयपयरण । विरयाणं अविरए जीवे दद्रूण होइ मणतावो । हाहा ! कह भवकूवे बुडंता पिच्छ नचंति ? ॥ ९ ॥ [विरतानामविरताञ्जीवान् दृष्टा भवति मनस्तापः । हाहा ! कथं भवकूपे ब्रुडन्तः पश्य नृत्यन्ति ? ॥] विरतानां षड्जीवनिकायवधादिविरतिमतामविरतान् जीवान् दृष्ट्वा भवति मनस्ताप इव, तेषां भाव्यपायचिन्तया करुणेत्यर्थः । कौशिक दृष्ट्वा श्रीवीरस्येव । 'हाहा' इति खेदे । कथं भवकृपे डन्तो मजन्तः, पश्य, 'हे प्रात्मन्' इति शेषः, नृत्यन्तीव हण्यन्तीत्यर्थः ॥६॥ आरंभयम्मि पावे जीवा पावंति तिक्खदुक्खाई । जं पुण मिच्छत्तलवं तेण न लहंति जिणबोहिं ॥ १० ॥ [ आरम्भने पापे जीवाः प्राप्नुवन्ति तीक्ष्णदुःखानि । यत्पुनर्मिथ्यात्वलवं तेन न लभन्ते जिनबोधिम् ॥ ] आरम्भो जीवोपद्रवणं तस्माजाते पापे कृते जीवाः प्राप्नुवन्ति, कटुविपाकदुःखान्येव कृष्णादयः । यत् पुनर्मिथ्यात्वलवं कुर्वन्ति तेन न लभन्ते जिनबोधि प्रेत्य सम्यक्त्वम् ॥ १०॥ अथ येन बोधिर्न लभ्यते तमाहजिणवरआणाभंगं उम्मग्गउस्सुत्तलेसदेसणया । आणाभंगे पावं ता जिणमय दुकरं धम्मं ॥ ११ ॥ [जिनवराज्ञाभङ्ग उन्मार्गोत्सूत्रलेशदेशनात् । आज्ञाभङ्गे पापं तस्माजिनमतो दुष्करो धर्मः ॥] जिनवराशाऽर्हदागमस्तद्भङ्गः खण्डनं तम् । किमित्याह-उन्मार्गोत्सूत्रयोर्लेशस्य देशनात् कथनात् 'जातं वदन्ति तीर्थङ्कराः' इति क्रियाध्याहार्या । तर्हि को दोषः? । प्राक्षाभङ्गे पापं स्यात् । 'ता' तस्मात् पापात् जिनमतो धर्मो दुष्करः॥ ११ ॥ जिणवरआणारहियं वद्धारंतावि केवि जिणदव्वं । बुड्डुति भवसमुद्दे मूढा मोहेण अन्नाणी ॥ १२ ॥ [जिनवराज्ञारहितं वर्धयन्तोऽपि केऽपि जिनद्रव्यम् । ब्रुडन्ति भवसमुद्रे मूढा मोहेनाज्ञानाः ॥] -

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56