Book Title: Satthisay Payaranam
Author(s): Hargovinddas
Publisher: Atmaram Sharma

View full book text
Previous | Next

Page 19
________________ सहिसयपयरणं । उपलक्षणवादईदुक्तो धर्मश्च मम' इति नाममात्रेण भणति । परं तेषां स्वरूपं शुभदं सुखदं वा पुण्यविहीना न जानन्ति ॥३३॥ सुद्धा जिणआणरया केसि पावाण हुंति सिरमूलं । जेसिं ते सिरसूलं केसि मूढाण ते गुरवो ॥ ३४ ॥ [ शुद्धा जिनाज्ञारताः केषां पापानां भवन्ति शिरःशूलम् । ___ येषां ते शिरःशूलं केषां मूढानां ते गुरवः ॥] शुद्धाश्चित्तशुद्धिमन्तो यतयो जिनाकारताः केषाञ्चित् पापानां भवन्ति शिरःशूलमिव । येषां च ते शुद्धाः शिरःशूलं, केषांचिन्मूढानां ते तादृशा अपि गुरवः सन्तीति । तेभ्यश्च शुद्धस्वरूपवेषिभ्यः कथं देवादिस्वरूपज्ञानं भवतीत्यर्थः ॥३४॥ हाहा ! गुरुअअकज्जं सामी नहु अस्थि कस्स पुक्करिमो ? । कह जिणवयणं कह सुगुरुसावया कह इय अकज्ज ? ॥३५॥ [ हाहा ! गुर्वकार्य स्वामी नैवास्ति कस्य पूत्कर्मः ? । कथं जिनवचनं कथं सुगुरुश्रावकाः कथमित्यकार्यम् ! ॥] 'हाहा' इति खेदे गुरुकमकर्तव्यं यदेवंविधा अपि गुरुत्वेनाङ्गीक्रियन्ते । स्वामी राजा 'नहु' नैवास्ति, ततः कस्याने पूत्कुर्महे कार्यमकार्यमिति ?। तद्भिया हि ते स्वयं निवर्तन्ते, स वा हठाद् निवर्तयति तान् । तद्भावे तदनर्थकमेव । कुतः ? । 'कह' इति कुत्र जिनवचनम्, कुत्र सुगुरुश्रावकाः, कुत्र चेदमकार्य कुगुर्वङ्गीकाररूपम् ? ॥३५॥ सप्पे दिढे नासइ लोओ नहु किंपि कोइ अक्खेइ । ....... जो चयइ कुगुरुसप्पं हा ! मूढा भणइ तं दुटुं ॥ ३६ ॥ [ सर्प दृष्टे नश्यति लोको नैव किमपि कोऽप्याख्याति । यस्त्यजति गुरुसर्प हा ! मूढा भणन्ति तं दुष्टम् ॥] सर्प दृष्टे नश्यति लोकः, नैव कोऽपि दुर्मुखोऽपि किमपि 'कातरोऽयम्' इत्यादि किञ्चिदप्याख्याति तस्य । यश्च लघुकर्मा शाततत्त्वः सन् परिहरति कुगुरुसर्पम् , हा! मूढाः कुगुरुमोहिता भणन्ति तं त्यागिनं दोषवन्तम्, 'किलानेन स्ववंशागता गुरवो मुक्ताः' इति निन्दन्तीत्यर्थः॥३६॥ सप्पो इक्कं मरणं कुगुरू अणताई देइ मरणाई । तो वर सप्पं गहिउँ मा कुगुरुसेवणं भद्द ! ॥ ३७॥

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56