Book Title: Satthisay Payaranam
Author(s): Hargovinddas
Publisher: Atmaram Sharma

View full book text
Previous | Next

Page 42
________________ सहिसयपयरणं । स्तोका महानुभावा महासत्त्वाः सन्ति येऽर्हदुक्तौ रमन्ति ( ? न्ते) रतिं कुर्वन्ति तद्वचनं शृण्वन्तीत्यर्थः । किं० । संविग्नाः संवेगशालिनः । ततस्तेभ्यः शुश्रूषकेभ्यः सकाशाद् ये भवभयभीताः सन्तः स्वशक्त्यनुसारेण सम्यक्त्वं पालयन्ति ते स्तोकाः, शुश्रूषाया निह्नवादिष्वपि सत्त्वात् । कोऽर्थः ? ।ये जिनवचःशुश्रूषन्ति तेऽल्पाः, तेभ्योऽपि सम्यक्त्वधारकाः स्तोकाः ॥११॥ सव्वंगपि हु सगडं जह न चलइ इक्कबडहिलरहिये । तह धम्मफडाडोवं न चलइ सम्मत्तपरिहीणं ॥११६॥ ( सर्वाङ्गमपि खलु शकटं यथा न चलत्येककीलिकारहितम् । तथा धर्मस्फटाटोपो न चलति सम्यक्त्वपरिहीनः ॥) सर्वाङ्गयुक्तमप्यनो यथा न चलति, एका चासौ 'बडहिला' च लोकप्रसिद्धौ धूर्मूले कीलिकाविशेषस्तया रहितम्, तथा धर्माडम्बरः, नपुंसकत्वं प्राकृतशैल्या, न चलति सम्यक्त्वपरिहीनः ॥११६॥ न मुणंति धम्मतत्तं सत्थं परमत्थगुणहिय अहियं । बालाण ताण उवरि कह रोसो मुणियधम्माण?॥११७॥ ( न जानन्ति धर्मतत्त्वं शास्त्रं परमार्थगुणहितमधिकम् । बालानां तेषामुपरि कथं रोषो ज्ञातधर्मणाम् ? ॥) न मुणन्ति धर्मरहस्यम् , तथा, शास्त्रं न जानन्ति । किंभूतं शास्त्रम्, अधिकं यथा भवत्येवं परमार्थगुणानां ज्ञानादीनां हितम् । तेषां बालानामुपरि को रोषो मुणितधर्माणाम् ? प्रत्युतानुकम्पैव भवति ॥११७॥ अप्पावि जाण वयरी तेसिं कह होइ परजिए करुणा । चोराण बंदियाण य दिलुतेणं मुणेयव्वं ॥११८॥ ( आत्मापि येषां वैरी तेषां कथं भवति परजीवे करुणा । चौराणां बन्दिनां च दृष्टान्तेन ज्ञातव्यम् ॥ ) स्वजीवोऽपि, आस्तामन्यः, येषां वैरी इव, जानन्तोऽपि कदाग्रहअस्ता उत्सूत्रोक्त्यादिनाऽऽत्मानमपि नरकं प्रापयन्ति, तेषामात्मशत्रूणां कथं भवति परजीवे उपदेश्ये करुणा । चौराणां तथा बन्दिकानां, ये बलादन्यान् गृहीत्वा धनार्थ बन्दीकुर्वन्ति तेषां दृष्टान्तेन मुणितव्यमेतत् पूर्वोक्तम् । ते हि प्राक् स्वमरणमङ्गीकृत्य ततोऽन्यान् प्रहरन्तीति ॥११॥

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56