Book Title: Satthisay Payaranam
Author(s): Hargovinddas
Publisher: Atmaram Sharma

View full book text
Previous | Next

Page 41
________________ सट्ठिसयपयरणं । [संप्रति दुःषमाकाले धर्मार्थिनः सुगुरुश्रावका दुर्लभाः । । नामगुरवो नामश्राद्धाः सरागद्वेषा बहवः सन्ति ॥ ] संप्रति दुःषमाकाले धर्मार्थिनः सुगुरवः श्रावकाश्च दुर्लभाः, नाम्नैव गुरवो द्रव्याचार्याः, नाम्नैव श्राद्धाः सरागद्वेषा बहवः 'अस्ति' इत्यव्ययं सन्तीत्यर्थे ॥११२॥ कहियपि सुद्धधम्म काहिवि धन्नाण जणइ आणंदं । मिच्छत्तमोहियाणं होइ रई मिच्छधम्मेसु ॥११३॥ ( कथितोऽपि शुद्धधर्मः केषामपि धन्यानां जनयत्यानन्दम् । मिथ्यात्वमोहितानां भवति रतिमिथ्याधर्मेषु ॥) लिङ्गव्यत्यये कथितोऽपि शुद्धधर्मः केषामपि स्तोकानामेव धन्यानां जनयत्यानन्दम् , यतो मिथ्यात्वमोहितानां भवति रतिः स्वास्थ्यं मिथ्याधर्मेषु लोकादिधर्मेषु ॥११३॥ इकपि महादुक्ख जिणसमयविऊण सुद्धहिययाणं । जं मूढा पावाइं धम्म भणिऊण सेवेति ॥११॥ ( एकमपि महादुःखं जिनसमयविदां शुद्धहृदयानाम् । यन्मूढाः पापानि धर्म भणित्वा सेवन्ते ॥) अर्हन्मतविदां शुद्धहृदामप्येकं महादुःखं यन्मूढा मिथ्यात्वमोहिताः पापानि अगम्यगमनवधादीनि 'धर्मः' इति भणित्वा सेवन्ते, यदाहुस्ते भागवते; " कामादुपागतां गच्छेदगम्यामपि योषितम्। जितेन्द्रियोऽपि तां त्यक्त्वा युज्यते स्त्रीवधेन सः॥" इत्यादि तथा, "द्वौ मासौ मत्स्यमांसेन" इत्यादि च । तथा, जैनम्मन्या अपि केचिद् 'यथा कथञ्चित् साधुभ्यो देयम् , लिङ्गमात्रमेव च वन्द्यम्' इत्याद्युक्त्वा प्राधाकर्मिकदानासंयतभक्त्यादिकमपि धर्मतया कारयन्ति ॥११४॥ थोवा महाणुभावा जे जिणवयणे रमंति संविग्गा । तत्तो भवभयभीया सम्मं सत्तीइ पालंति ॥११५॥ (स्तोका महानुभावा ये जिनवचने रमन्ते संविग्नाः । ततो भवभयभीताः सम्यक्त्वं शत्या पालयन्ति ॥)

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56