Book Title: Satthisay Payaranam
Author(s): Hargovinddas
Publisher: Atmaram Sharma

View full book text
Previous | Next

Page 39
________________ सहिसयपयरणं । क्रियन्ते' इति शेषः । उप० देवान् निर्दोषान् , प्रोक्तं च धर्ममङ्गीकुर्मः । शेषानेतद्विपरीतान् व्युत्सृजामः ॥१०४॥ नो अप्पणा पराया गुरुणो कइयावि हुंति सुद्धाणं । जिणवयणरयणमंडणमंडिय सव्वेवि ते सुगुरू ॥ १०५॥ · [नो आत्मीयाः परकीया गुरवः कदापि भवन्ति शुद्धानाम् । जिनवचनरत्नमण्डनमण्डिताः सर्वेऽपि ते सुगुरवः ] नो नैव आत्मीयाः परकीया वा गुरवः कदापि भवन्ति शुद्धानाम् । 'एते हि अस्मत्पूर्वजाहतास्तेन यादृशास्तादृशा वा भवन्तु, एतत्पार्श्व एव बतायुच्चारः कार्यः, वस्त्रपात्रादि वा एतेभ्य एव दयम् , इति विभागो न कल्पते । किं तर्हि । जिनवचनरत्नमण्डनमण्डिता ये, सर्वेऽपि ते स्वगुरवः ॥१०॥ बलिकिज्जामो सज्जणजणस्स सुविसुद्धपुन्नजुत्तस्स । जस्स लहु संगमेणं विसुद्धबुद्धी समुल्लसइ ॥ १०६ ॥ [ बलीक्रियामहे सज्जनजनस्य सुविशुद्धपुण्ययुक्तस्य । ... यस्य लघु संगमेन विशुद्धबुद्धिः समुल्लसति ॥] वयं बलिक्रियामहे सजनजनस्य सुगुरोः सुविशुद्धेन पुण्येन श्रुतचारित्ररूपेण युक्तस्य, यस्य संगमेन लघु शीशुद्धबुद्धिर्धर्मकरणोद्यमः समुल्लसति ॥१०६॥ अज्जवि गुरुणो गुणिणो सुद्धा दीसंति तडयडा केइ । परं जिणवल्लहसरिसो पुणोवि जिणवल्लहो चेव ॥ १०७ ॥ [ अद्यापि गुरवो गुणिनः शुद्धा दृश्यन्ते क्रियाकठोराः । परं जिनवल्लभसदृशः पुनरपि जिनवल्लभ एव ॥] अस्मिन्नपि काले गुरवो गुणिनो ज्ञानादियुक्ताः शुद्धाः शुद्धप्ररूपकाः साक्षाद् वीक्ष्यन्ते । 'तडयडा' इति देश्यत्वात् क्रियाकठोराः केऽपि कियन्तः । परं जिनवल्लभसदृशः पुनरपि जिनवल्लभ एव । स हि जिनेश्वरराचार्यदीक्षितोऽपि चैत्यवासं कटुविपाकं मत्वा संवेगात सुविहितशिरोमणिश्रीमदभयदेवसूरिपार्श्वमुपसंपन्नः ॥ १०७ ॥ वयणेवि सुगुरुजिणवल्लहस्स केसिं न उल्लसइ सम्मं । अह कह दिणमाणतेयं उलुयाणं हरइ अंधत्तं ? ॥ १०८ ॥

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56