Book Title: Satthisay Payaranam
Author(s): Hargovinddas
Publisher: Atmaram Sharma

View full book text
Previous | Next

Page 40
________________ ३३ सहिसयपयरणं । [ वचनेऽपि सुगुरुजिनवल्लभस्य केषां नोल्लसति सम्यक्वम् । अथ कथं दिनमणितेज उलूकानां हरत्यन्धत्वम् ? ॥ ] वचनात् सुगुरुजिनवल्लस्यापि केषाञ्चित् सम्यक्त्वं नोल्लसति । अत्र दृष्टान्तमाह 'अथ' इति पक्षान्तरे, दिनमणितेज उलूकानामन्धत्वं कथं केन प्रकारेण हरति ? ॥ १०८ ॥ तिहुयणजणं मरतं दद्रूण नियंति जे. न अप्पाणं । विरमंति न पावाउ घिद्धी ! धिकृत्तणं ताण ॥ १०९ ॥ [ त्रिभुवनजनं म्रियमाणं दृष्ट्वा पश्यन्ति ये नात्मानम् । . विरमन्ति न पापाद् धिग्धिग् धृष्टत्वं तेषाम् ॥] त्रिभुवनजनं म्रियमाणं दृष्ट्वा पश्यन्ति ये प्रमादिनो नात्मानम् । कथमेवम् ? । यतो विरमन्ति न पापाद् दुष्कर्मणः, तेषां धृष्टत्वं धिग् धिक् । तस्माद् धर्मप्रमादस्त्याज्य एव ॥ १०६॥ सोएण कंदिऊणं कुट्टेऊणं सिरं च उरउयरं । अप्पं खिवंति नरए तंपि य धिद्धी कुनेहत्तं ॥ ११० ॥ [ शोकेन क्रन्दयित्या कुट्टयित्वा शिरश्चोरोहृदयम् । आत्मानं क्षिपन्ति नरके तदपि च घिधिक् कुस्नेहत्वम् ॥] शोकेनेष्टवियोगजेन क्रन्दयित्वा, कुट्टयित्वा शिर उरो हृदयमुदरं च, ततश्चात्मानं तिपन्ति नरके उपलक्षणत्वात् तिर्यग्गत्यादौ; तस्मादपि धिग् धिक् कुस्नेहत्वं मृतार्थे शिरःकुट्टनादि ॥११०॥ एगंपि य मरणदुहं अन्नं अप्पावि खिप्पए नरए । एगं च मालपडणं अन्नं च लउडेण सिरघाओ ॥ १११ ॥ [ एकमपि च मरणदुःखमन्यदात्मापि क्षिप्यते नरके । एकं च मालपतनमन्यच्च लकुटेन शिरोघातः ॥] एकं प्रियमरणदुःखं तदर्थ शोकश्च प्रात्मानं क्षिप्यते (? ति) नरके। अत्रार्थे लौकिकदृष्टान्तः-एकं पुनर्मालात पतनम् , अन्यः पुनर्लकुटेन यष्ट्या शिरोघातः ॥१११॥ संपइ दूसमकाले धम्मत्थी सुगुरुसावया दुलहा । नामगुरू नामसड्ढा सरागदोसा बहू अस्थि ॥११२॥

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56