Book Title: Satthisay Payaranam
Author(s): Hargovinddas
Publisher: Atmaram Sharma

View full book text
Previous | Next

Page 49
________________ सहिसयपयरणं । "जो जिणमयं पवजह ता मा ववहारनिच्छयं मुयह । ववहारनयच्छेए तित्थुच्छेओ जो भणिो ॥१॥"१३८।। जे जे दीसंति गुरू समयपरिक्खाए ते न पुजंति । पुणमेगं सदहणं दुप्पसहो जाव जं चरणं ॥१३९॥ [ ये ये दृश्यन्ते गुरवः समयपरीक्षया ते न पूर्यन्ते । पुनरेकं श्रद्धानं दुष्पसहं यावद् यच्चरणम् ॥ ] ये ये दृश्यन्ते गुरवः संप्रति समयपरीक्षया ते न पूर्यन्ते परीक्षां न सहन्ते । पुनरेकं श्रद्धानं वर्तते । दुष्प्रसहो यावद् यद् यस्माचरणं प्रतिपादितमस्ति ॥ १३६ ॥ ता एगो जुगपवरो मज्झत्थमणेहि समयदिट्ठीए । सम्मं परिक्खियव्यो मुत्तूणं पवाहहलबोल ॥१४०॥ [ तस्मादेको युगप्रवरो मध्यस्थमनोभिः समयदृष्टया । सम्यक्परीक्षितव्यो मुक्त्वा प्रवाहकलकलम् ॥] तस्मादेको युगप्रवरो मध्यस्थमनोभिः पुम्भिः समयं दृष्ट्वा निशीथव्यवहारादिश्रुतविचारणया सम्यक् परीक्षणीयः। किं कृत्वा ? । मुक्त्वा प्रवाहकलकलम् ॥१४०॥ संपइ दसमच्छेरयनामायरिएहिं जणियजणमोहा । सुहधम्माउ निउणवि चलंति बहुजणपवाहाओ ॥१४१॥ [ संप्रति दशमाश्चर्यनामाचार्यैर्जनितजनमोहाः । शुभधर्मान्निपुणा अपि चलन्ति बहुजनप्रवाहात् ॥ ] संप्रति दुःषमायां दशमाश्चर्य चासंयतपूजालक्षणम्, नामाचार्याश्च लिङ्गमात्रोपजीविनः साधुक्रियाविकलाः सूरयस्तैर्दशमाचार्यैर्जनितो 'जण' इति प्राकृतजनोचितो मोहो येषां मध्यपदलोपात् ते जनितजनमोहा निपुणा अपिशुद्धधर्माञ्चलन्ति । कस्मात् ? । बहुजनप्रवाहात् 'वंशक्रमायाता भ्रष्टा अपि गुरवो मान्या एव' इत्यादिकात् ॥१४१॥ जाणिज्ज मिच्छदिट्ठी जे पडियालंबणाई गिण्हंति । जे पुण सम्मट्ठिी तेसिं मणो चडणपयडीए ॥१४२॥ १ यदि जिनमतं प्रपद्यध्वं ततो मा व्यवहार-निश्चयौ मुश्चत । व्यवहारनयच्छेदे तीर्थच्छेदो यतो भणितः ॥ १॥

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56