Book Title: Satthisay Payaranam
Author(s): Hargovinddas
Publisher: Atmaram Sharma

View full book text
Previous | Next

Page 50
________________ सट्ठिसयपयरणं। [जानीत मिथ्यादृष्टीन् ये पतितालम्बनानि गृह्णन्ति । ये पुनः सम्यग्दृष्टयस्तेषां मनश्चटनपदिकायाम् ॥) जानीत मिथ्यादृष्टींस्तान ये पतितानां मार्गभ्रष्टपार्श्वस्थादीनां तच्छ्राद्वानां वालम्बनानि तदाचीर्णकुप्रवृत्तिबहुमानवस्तुपालाद्याचीर्णप्रपाकूपारामादिकरणरूपानि गृह्णन्ति । ये पुनः सम्यग्दृष्टयस्तेषां मनश्चित्तं चटनपदिकायां गुणस्थानारोहमार्गे भवति ॥१३२॥ सव्वंपि जए सुलहं सुवन्नरयणाइवत्थुवित्थारं । निच्च चिय मेलावं सुमग्गनिरयाण अइदुलहं ॥१४३॥ ( सर्वोऽपि जगति सुलभः सुवर्णरत्नादिवस्तुविस्तारः । नित्यमेव मेलः सुमार्गनिरतानामतिदुर्लभः ॥) सर्वमपि जगति सुलभं सुवर्णरत्नादिवस्तुविस्तारं जानीत, किन्तु नित्यमेव मेलापकं सुमार्गनिरतानामतिर्दुलभम्, “दुल्लहो माणुसो जम्मो १४३॥ अहिमाणविसोवसमत्थयं च थुव्वंति देव गुरुणो य। तेहिंपि जइ माणो हा ही ! तं पुव्वदुच्चरियं ॥ १४४ ॥ ( अभिमानविषोपशमार्थं च स्तूयन्ते देवा गुरवश्च । तैरपि यदि मानो हा ही ! तत् पूर्वदुश्चरितम् ॥) जात्यादिगर्वविषोपशमार्थमेव च मिथ्यात्वादिदोषोपशान्तये स्तूयन्ते, उपलक्षणत्वात् सेवादीनाम्, देवा गुरवश्च, तैरपि यदि मानो देवमानो 'मत्पूर्वजकारितमिदम् , कोऽमुं विहायान्यत्र चैत्ये पूजादौ वर्तते ? मयि जीवति मत्कारितप्रतिमाने एव बल्यादि कार्यम्' इत्यादिकः, गुरुविषयमानोऽपि यथा तुल्येऽपि सोविहित्ये गुणवत्त्वे च स्वाहतगुरूणां बहुमाननं मत्सरादन्यावमाननम् , हा ही तत् पूर्वदुश्चरितम् ॥१४॥ जो जिणआयरणाए लोओ न मिलेइ तस्स आयारे । हा हा मूढ ! करंतो अप्पं कह भणसि जिणपणयं ? ॥१४॥ ( यो जिनाचरणया लोको न मिलति तस्याचारान् । हा हा मूढ़ ! कुर्वन्नात्मानं कथं भणसि जिनप्रणतम् ? ॥) १ दुर्लभ मानुष्यकं जन्म।

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56