Book Title: Satthisay Payaranam
Author(s): Hargovinddas
Publisher: Atmaram Sharma

View full book text
Previous | Next

Page 46
________________ ३६ सहिसयपयरणं । ३६ अजिया अइपाविट्ठा सुद्धगुरू जिणवरिंदतुल्लत्ति । जो इह एवं मन्नइ सो विमुहो सुद्धधम्मस्स ॥१३०॥ [अजिता अतिपापिष्ठाः शुद्धगुरवो जिनवरेन्द्रतुल्या इति । य इहैवं मन्यते स विमुखः शुद्धधर्मस्य ॥] अजिताः षड्जीववधनिरपेक्षा अत एवातिपापिष्ठा ये भवन्ति तेऽपि शुद्धगुरवो गौतमादिकल्पा अथवा जिनवरेन्द्रतुल्या इत्येवं यः कोऽप्यविवेकलुप्तदृगिह मन्यते स विमुखः पराङ्मुखः शुद्धधर्मस्य ॥१३०॥ जो तं वंदसि पुजसि वयणं हीलेसि तस्स रागेण । ता कह वंदसि पुज्जसि जणवायटिइंपि न मुणेसि ॥१३१॥ [यं त्वं वन्दसे पूजयास वचनं हेलयसि तस्य रागेण । तदा कथं वन्दसे पूजयसि जनवादस्थितिमपि न जानासि ॥] "व्यत्ययोऽप्यासाम्" इत्युक्तेद्वितीयार्थे प्रथमा,ततोयं जिनं त्वं वन्दसे, तथा पूजयसि, तस्यैव चाहतो वचनमागमरूपं हीलयसि रागेण प्रस्तावात्स्वगुरुप्ररूपितोत्सूत्रादिष्टिरागण । 'ता' तर्हि कथं त्वं वन्दसे पूजयसि वा ? । 'किम्' इत्याध्याहार्यम् । किं जनवादस्थितिमपि लोकोक्तिव्यवहारमपि न जानासि ? ॥१३॥ का सा स्थितिरित्याहलोएवि इमं सुणियं जो आराहिज्जइ सो न कोविज्जा । मनिज तस्स वयणं जइ इच्छसि इच्छियं काउं ॥१३२॥ [ लोकेऽपीदं श्रुतं यमाराधयेत् तं न कोपयेत् । मन्येत तस्य वचनं यदीच्छसीप्सितं कर्तुम् ॥ ] लोकेऽपीदं श्रुतम् , आस्तां लोकोत्तरे, यमाराधयेद् राजादिकं तं न कोपयेत्, मानयेत् तस्य वचनमाशारूपम् , यदि चेदिच्छसि ईप्सितं स्वहितमनुष्ठातुम् ॥१३२॥ दूसमदंडे लोए सुदुक्खसिद्धम्मि दुक्खउदयम्मि । धन्नाण जाण न चलइ सम्मत्तं ताण पणमामि ॥१३३॥ दुःषमादण्डे लोके सुदुःखसिद्धे दुःखोदये । धन्यानां येषां न चलति सम्यक्त्वं तान् प्रणमामि ॥]

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56