Book Title: Satthisay Payaranam
Author(s): Hargovinddas
Publisher: Atmaram Sharma

View full book text
Previous | Next

Page 32
________________ सद्वियपयरं । २५ यथा वारां दलं वार्दलं तेन प्रभ्रेण सूरं महीतलप्रकटमपि नैव प्रेक्षन्ते लोकाः, तथैव मिथ्यात्वस्योदये न पश्यन्ति भावद्दशा जिनदेवं गुर्वाद्यपि वा ॥८०॥ किं सोवि जणणि जाओ जाओ जणणीइ किं गओ विद्धिं । जई मिच्छरओ जाओ गुणेसु तह मच्छरं वहइ ? ॥८१॥ [ किं सोऽपि जनन्या जातो जातो जनन्या किं गतो वृद्धिम् । यदि मिथ्यात्वरतो जातो गुणेषु तथा मत्सरं वहति ? ॥ ] किमिति किमर्थं सोऽपि मानवो लुप्तविभक्तिकत्वाज्जनम्या जात एव प्रसूत एव, " जननी यानि चिह्नानि करोति मदविह्वला । प्रकटानि तु जायन्ते तानि चिह्नानि जातके ॥ " इत्यादिजनोक्तेर्मातुर्दोषापत्तेः अथच जातो मात्रा तथापि किं गतो वृद्धिं पुष्टिम्, यदि मिथ्यात्वरतः, 'गुणेषु' इत्यभेदोपचाराद् गुणिषु तथा मत्सरमसहिष्णुत्वं वहति करोति, पीठमहापीठऋषिवत् ? ॥ ८१ ॥ dure बंदियाण य माहणडुंबाण जक्खसिक्खाणं । भत्ता भक्खट्टाणं विरयाणं जति दूरे णं ॥ ८२ ॥ ( वेश्यानां बन्दिकानां च ब्राह्मणचाण्डालानां यक्षशेखानाम् । भक्ता भक्ष्यस्थानं विरतेभ्यो यान्ति दूरे ॥ ) वेश्यानां बन्दिकानां भट्टानां, बाह्मणा द्विजाः, डुम्बाश्चाण्डाला: सन्तो ये गीत गायन्ति ततो द्वन्द्वे तेषाम्, यज्ञाः क्षेत्रपालनारसिंहाद्याः, शेखास्तुरुष्कगुरवः, ततो द्वन्द्वे तेषां भक्ता भोज्यसमाः, षष्ठ्याः पञ्चम्यर्थेन विरतेभ्यो यान्ति दूरे 'ग' इत्यलङ्कारे ॥८२॥ सुने मग्गे जाया सुहेण गच्छति सुद्धमग्गम्मि । जं पुण अमग्गजाया मग्गे गच्छंति तं चुज्जं ॥ ८३ ॥ [ शुद्धे मार्गे जाताः सुखेन गच्छन्ति शुद्धमार्गे । यत्पुनरमार्गजाता मार्गे गच्छन्ति तच्चित्रम् ॥ ] शुद्धे मार्गे सुविहितपथि जाताः श्राद्धाः साधवो वा ते सुखेनानायासेन गच्छन्ति शुद्धमार्गे, नाश्चर्यमत्र । ये पुनरुन्मार्गे जाताः पार्श्व ३

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56