Book Title: Satthisay Payaranam
Author(s): Hargovinddas
Publisher: Atmaram Sharma

View full book text
Previous | Next

Page 34
________________ सहिसयपयरणं । [ मुन्चन्ति निजजीवितं तृणमिवं मोक्षार्थिनो न पुनः सम्यक्त्वम् । लभ्यते पुनरपि जीवितं सम्यक्त्वं हारितं कुतः ? ॥] त्यजति निजकजीवं जीव-जीवितयोरभेदात् जीवितम्, तृणमिव मोक्षार्थिनः, न पुनः सम्यक्त्वम् । यतो लभ्यते पुनरपि जीवितमुत्तरभवे, सम्यक्त्वं तु हारितं सत् कुतः कस्माल्लभ्यते, निर्गमितस्य तस्य पुनः प्राप्तिरुत्कर्षतोऽनन्तकालात् ॥८७॥ गयविहवावि सविहवा सहिया सम्मत्तरयणराएण। सम्मत्तरयणरहिया संतेवि धणे दरिद्दत्ति ॥ ८८ ॥ [ गतविभवा अपि सविभवाः सहिताः सम्यक्त्वरत्नराजेन । सम्यक्त्वरत्नरहिताः सत्यपि धने दरिद्रा इति ॥] गतविभवा अपि सद्व्या एव ते । के ?। सहिताः सम्यक्त्वरत्नराज्येन, तद्युक्तानमायताववश्यं विभवलाभात् । तद्रहिताः पुनः सत्यपि धने दरिदा एव । 'इति' वाक्यसमाप्त्यर्थः॥८॥ जिणपूयणपत्थावे जइ कुवि सड्ढाण देइ धणकोडिं । मोत्तूण तं असारं सारं विरयंति जिणपूयं ॥ ८९॥ [ जिनपूजनप्रस्तावे यदि कोऽपि श्राद्धेभ्यो ददाति धनकोटिम् । मुक्त्वा तामसारां सारां विरचयन्ति जिनपूजाम् ॥] जिनस्य द्रव्यार्चनावसरे यदि कोऽपि देवादिः 'पूजां त्यज' इत्युक्त्वा श्राद्धानां ददाति धनकोटिम, मुक्त्वा तामसारां चौराग्निभूपादिहार्या, सारां सम्यक्त्वशुद्धिकी विरचयन्ति जिनपूजाम् ॥८६॥ तित्थयराणं पूया सम्मत्तगुणाण कारणं भणियं । सावि य मिच्छत्तयरी जिणसमए देसिय अपूया ॥१०॥ [ तीर्थकराणां पूजा सम्यक्त्वगुणानां कारणं भणितम् । सापि च मिथ्यात्वकरी जिनसमये देशिताऽपूजा ॥] तीर्थकृतां पूजा सम्यक्त्वगुणानां सम्यक्त्वं प्रतीतं गुणा शानादयस्तेषां कारणं हेतुर्भणिताऽऽगमे । यदुक्तं श्रीआवश्यके- "अंकसिणपवत्तगाणं" इति । सापि च मिथ्यात्वकरी जिनसमये देशितोका। 'यदि' इत्यध्याहारात्, यद्यपूजा कुत्सिता पूजाऽविधिपूजेति ॥६०॥ १ अकृत्स्नप्रवर्तकानाम् ।

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56