Book Title: Satthisay Payaranam
Author(s): Hargovinddas
Publisher: Atmaram Sharma

View full book text
Previous | Next

Page 26
________________ सट्ठियपयरणं । [ उत्सूत्रभाषकाणां बोधिनाशोऽनन्तसंसारः । प्राणात्ययेऽपि धीरा उत्सूत्र तस्मान्न भाषन्ते ॥ ] उत्सूत्रभाषकानां (? णां) बोधिनाशः प्रेत्य जिनधर्माप्राप्तिः, अनन्तसंसारश्च । तस्मात् प्राणात्ययेऽपि धीरा उत्सूत्रं न भाषन्ते, कालिकाचार्यवत् ॥५७॥ मुद्धाण रंजणत्थं अविहिपसंसं कयावि न करिज्जा । किं कुलवहुणो कत्थविथुणंति वेसाण चरियाई ? ॥ ५८ ॥ [ मुग्धानां रञ्जनार्थमविधिप्रशंसां कदापि न कुर्यात् । किं कुलवध्वः क्वापि स्तुवन्ति वेश्यानां चरितानि ॥ ] मुग्धानां रञ्जनार्थ प्रीतयेऽविधिप्रशंसां कदापि न कुर्यात् । किं कुलवध्वः कुत्रापि देशकालादौ स्तुवन्ति वेश्याचरितानि ?, अपि तु न, तत्स्तुतौ तासां सकलङ्कत्वप्रसङ्गात् ॥५८॥ जिण आणाभंगभयं भवसयभीयाण होइ जीवाणं । भवसयअभीरुयाणं जिणआणाभंजणं कीडा ॥५९॥ [ जिनाज्ञाभङ्गभयं भवशतभीतानां भवति जीवानाम् । भवशताभीरुकाणां जिनाज्ञाभञ्जनं क्रीडा ॥ ] १६. अदाशाभङ्गभयं भवशतभीतानां जायते जीवानाम् । भवशताभीरूणां जिनाशाभञ्जनं क्रीडेव, यथा मल्लादीनां मुष्टिप्रहाररूपं दुःखमपि क्रीडा भवति ॥ ५६ ॥ को असुयाणं दोसो जं सुयसहियाण चेयणा नट्ठा । धिद्धी ! कम्माण जओ जिणोवि लद्धो अलद्घत्ति ॥ ६० ॥ [ कोऽश्रुतानां दोषो यत् श्रुतसहितानां चेतना नष्टा । विग् धिक् ! कर्माणि यतो जिनोऽपि लब्धोऽलब्ध इति ॥ ] कोऽश्रुतानां दोषो दूषणम् ? यत् सुश्रुतानामपि चेतना बुद्धिर्नष्टा । धिग् धिक् 'कर्मणाम्' इति द्वितीयार्थे षष्ठी, तेन कर्माणि । यतः कर्ममाहात्म्याज्जमाल्यादीनामिवोत्सूत्रोक्तेर्जिनोऽहल्लब्धोऽप्यलब्ध इव ॥६०॥ इराणवि उवहसं तमजुत्तं भाय ! कुलपसूयाणं । एस पुण कावि अग्गी जं हासं सुद्धधम्मम्मि ॥ ६१॥

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56