Book Title: Satthisay Payaranam
Author(s): Hargovinddas
Publisher: Atmaram Sharma

View full book text
Previous | Next

Page 28
________________ सट्ठिसयपयरणं । न सयं न परं को वा, जइ जिय ! उस्सुत्तभासणं विहियं । ता बुड्डसि निमंतं निरत्ययं तवफडाडोवं ॥६५॥ [न स्वयं न परं को वा, यदि जीव ! उत्सूत्रभाषणं विहितम् । तदा बुडसि निर्धान्तं निरर्थकस्तपःफटाटोपः ॥ ] न स्वयमिति स्वबुद्धया प्रकल्प्योत्सूत्रं वाच्यम् । तथा; परं गुर्वादि. कमपेक्ष्य 'मद्गुरुणेदमित्थमेवोपदिष्टम् ' इति कृत्वोत्सूत्रं न वाच्यम् । तथा, को वक्ति को जानाति गहनमिदम्, केऽप्यन्यथा वदन्ति, तदन्ये चान्यथा, ततोऽसंबद्धं जिनवचनमित्यादि वोत्सूत्रं न वाच्यम्, नस्यात्रापि संबन्धात् । यदि जीव ! उत्सूत्रभाषणं विहित 'ता' तर्हि ब्रुडसि निन्तिम् । निरर्थकं च तप एव स्फटाटोपमिव फणामण्डलमिव तं करोषि ॥६॥ जह जह जिणिंदवयणं सम्म परिणमइ सुद्धहिययाणं । तह तह लोयपवाहे धम्म पडिहाइ नडचरियं ॥६६॥ ( यथा यथा जिनेन्द्रवचनं सम्यक् परिणमति शुद्धहृदयानाम् । तथा तथा लोकप्रवाहे धर्मः प्रतिभाति नटचरितम् ॥ ) यथा यथाऽर्हद्वचः सम्यक् परिणमति चित्तेऽवतिष्ठति?ते) शुद्धहृदयानाम् , तथा तथा लोकप्रवाहे यं धर्ममविधिरूप कुर्वन्ति स धर्मस्तेषां नटचरितमिव प्रतिभाति, तेषां सम्यग्दृष्टीनां ज्ञाततत्त्वानाम् । कथम् । यदेतत् सर्व धर्माडम्बरं लोकरञ्जनमात्रं न पुनः कर्मनिर्जराकरमिति भावार्थः ? ॥६६॥ जाण जिणिंदो निवसइ सम्मं हिययम्मि सुद्धनाणेण । ताण तिणंव विरायइ स मिच्छधम्मो जणो सयलो ॥६॥ [ येषां जिनेन्द्रो निवसति सम्यग्धृदये शुद्धज्ञानेन । तेषां तृणमिव विराजति स मिथ्याधर्मो जनः सकलः ॥] येषां हृदये जिनेन्द्रः सत्यतया ज्ञातधर्मरहस्यत्वेन निवसति सम्यक् स्वान्ते शुद्धज्ञानात्, तेषां तृणमिव विराजते प्रतिभाति स मिथ्याधर्मो जनः सकलः ॥६७॥ लोयपवाहसमीरणउइंडपयंडचंडलहरीए । दढसम्मत्तमहाबलरहिया गरुयावि हल्लंति ॥६८॥

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56