Book Title: Satthisay Payaranam
Author(s): Hargovinddas
Publisher: Atmaram Sharma

View full book text
Previous | Next

Page 18
________________ सहिसयपयरणं । गुरुणो भट्टा जाया सड्ढे थुणिऊण लिंति दाणाई । दुनिवि अमुणियसारा दूसमसमयम्मि बुड्डेति ॥ ३१ ॥ [गुरवो भट्टा जाताः श्राद्धान् स्तुत्वा लान्ति दानानि । द्वावप्यज्ञातसारा दुःषमासमये बुडन्ति ॥] गुरवो लिङ्गोपजीविनः, भट्टा बन्दिन इव जाताः, श्राद्धान् श्रावकनाम्नः 'त्वं त्यागी, त्वं भोगी, त्वत्पूर्वजा अपि दानशौण्डाः' इत्यादिना स्तुत्वा लान्ति गृह्णन्ति दानानि पिण्डशय्यावस्त्रपात्रादिदेयद्न्याणि । उपलक्षणत्वाद् नैमित्तिका इव निमित्तं मन्त्रतन्त्रादि प्रयुज्य दानानि लान्ति । ददाना अपि ह्येते 'अहो! एते अस्मत्कीर्ति कुर्वते, निमित्तादिना चोपकुर्वते' इति विचार्य यथेप्सितं ददते, न मुधिकया । ततो द्वावपि गुरुश्रावको “गिहिणो वेयावडियं न कुज्जा" इति, तथा “नक्खत्तं सुमिणं जोग" इति, तथा “पौसत्थाई वंदमाणस्स" इत्येवंविधं परमार्थमजानानौ दुःषमासमायां ब्रुडन्ति 'भवाम्बुधौ' इति शेषः ॥३१॥ मिच्छपवाहे रत्तो लोओ परमत्थजाणो थोवो । गुरुणो गारवरसिया सुद्धं धम्मं निगृहंति ॥ ३२॥ [मिथ्याप्रवाहे रक्तो लोकः परमार्थज्ञायकः स्तोकः। गुरवो गारवरसिकाः शुद्ध धर्म निगृहन्ति ॥] : मिथ्या अलीकप्रवाहः-अविचारपूर्विका प्रवृत्तिस्तस्मिन्नासक्तो लोको यतः, ततः परमार्थस्य देवादिसदसद्विचारस्य शायकः स्तोकः । गुरवो नामाचार्या गौरवरसिका ऋद्धिरससातलम्पटाः शुद्ध मार्ग तप:संयमलक्षणं गोपयन्ति, "परिभवइ उम्गकारी सुद्धं मग निगृहई बालो" इति वचनात् ॥३२॥ सव्वोवि अरह देवो सुगुरु गुरू भणइ नाममित्तण । तेसिं सरूवं सुहयं पुनविहूणा न याति ॥ ३३ ॥ [ सर्वोऽप्यर्हन् देवः सुगुरुर्गुरुर्भणति नाममात्रेण । तेषां स्वरूपं सुखदं पुण्यविहीना न जानन्ति ।।] सर्वोऽपि श्राद्धकुलोत्पन्नः पृष्टः सन् 'अर्हन देवः, सुगुरुश्च गुरुः, १ गृहिणो वैयावृत्त्यं न कुर्यात् । २ नक्षत्रं स्वप्नं योगम् । ३ पार्श्वस्थादीन् वन्दमानस्य । ४ परिभवत्युग्रकारिणः शुद्धं धर्म निगूह ति बालः ।

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56