Book Title: Satthisay Payaranam
Author(s): Hargovinddas
Publisher: Atmaram Sharma

View full book text
Previous | Next

Page 16
________________ सट्ठियपयरणं । विकथाया नेहाधिकारः, किन्तु सुकथाया एव । तत्रापिण्यादिका सैव कथा प्रमाणम्, एवं स एव धर्मप्ररूपणात्मक उपदेशः, तदेव ज्ञानमवबोधरूपम् येन जानाति जीवः सम्यक्त्वमिथ्यात्वभावम् ; तथा, "महाव्रतधरा धीराः" इति, “ सर्वाभिलाषिणः- " इति च गुर्वगुर्वोर्भावम्; तथा, 'राईभोयणविरई' इत्यादि, "यस्यास्ति वित्तं स नरः कुलीनः " इत्यादि च धर्मस्थितिलोकस्थित्योर्भावमुपादेयहेयभावेन । तदन्या न कथा, नोपदेशः, न ज्ञानम्, अफलत्वादिति ॥ २४ ॥ जिणगुणरयणमहानिहिं लद्धूणवि किं न जाइ मिच्छत्तं ? | अह पत्ते यवि निहाणे किवणाण पुणोवि दारिदं ॥ २५ ॥ [ जिनगुणरत्नमहानिधिं लब्ध्वापि किं न याति मिथ्यात्वम् ? | अथ प्राप्ते चापि निधाने कृपणानां पुनरपि दारिद्र्यम् ॥ ] जिनगुणा ज्ञानचारित्रादयस्त एव रत्नानि तेषां महानिधिरिव, स च सिद्धान्तः, तस्यैवागमे गणिपिटकत्वात्, ततस्तं लब्ध्वापि श्रुत्वेत्यर्थः । ' किम्' इति प्रश्ने, न याति मिथ्यात्वमभिनिवेशवत्ता ? | अथवा प्राप्तेऽपि निधाने कृपणानां पुनरपि तत्प्राप्त्यनन्तरमपि दारिद्र्यं 'न याति' इति संबध्यते, दानभोगयोरसंभवेन तेषाम् ||२५|| सो जय जेण विहिया संवच्छर चाउम्पासियसुपव्वा । निर्द्धधसाण जाय जेसिं पभावाउ धम्ममई ॥ २६ ॥ [ स जयतु येन विहितानि सांवत्सरचातुर्मासिकसुपर्वाणि । निष्ठुराणां जायते येषां प्रभावाद् धर्ममतिः ॥ ] स प्रक्रमाज्जिनो जयतु येन भगवताऽनुपकृतोपकारिणा विहितानि सांवत्सरिकचातुर्मासिकसुपर्वाणि, प्राकृतत्वात् पुंस्त्वम् उपलक्षणत्वाश्चतुर्दश्यष्टमीपूर्णिमामावासीकल्याणिकदिनानि । येषां सुपर्वणां प्रभावाद 'निर्द्धधसानां' निर्दयानामपि जायते धर्ममतिः ॥ २६ ॥ नामपि तस्स असुहं जेण निदिट्टाई मिच्छपव्वाई | जेसिं अणुसंगाओ धम्मीणवि होइ पावमई ॥ २७ ॥ [ नामापि तस्याशुभं येन निर्दिष्टानि मिथ्यापर्वाणि । येषामनुषङ्गाद् धर्मिणामपि भवति पापमतिः ॥ ] १ रात्रिभोजनविरतिः । !

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56