Book Title: Satthisay Payaranam
Author(s): Hargovinddas
Publisher: Atmaram Sharma

View full book text
Previous | Next

Page 15
________________ ... सट्ठिसयपयरणं । तुल्येऽपि जठरपूरणे गृहव्यापारकार्य मूढामूढयोरविवेकिविवेकिनोः 'प्रेक्षस्व विपाकम् । एकेषां मूर्खाणां जठरमात्रभरणार्थ नानाविधाकृत्यकतामुत्तरोत्तरमहारम्भादिरतानामातपेद्रध्यायिनां नरकदुःखं भवति । अन्येषाममूढानां कामभोगादिविरक्तचित्तानां दुर्भिक्षादावपि महारम्भ परिहरतां सदयानां शाश्वतमिव शाश्वतमनेकसागरोपमस्थायित्वाद् देवलोकसुखं शाश्वतं सुखम् ॥ २१॥ जिणमयकहापबंधो संवेगकरो जियाण सव्वोवि । संवेगो सम्मत्ते सम्मत्तं सुद्धदेसणया ॥ २२ ॥ ता जिणआणपरेण धम्मो सोअव्व सुगुरुपासम्मि । अह उचियं सड्ढाओ तस्सुवएसस्स कहगाओ ॥ २३ ॥ [जिनमतकथाप्रबन्धः संवेगकरो जीवानां सर्वोऽपि । संवेगः सम्यक्त्वे सम्यक्त्वं शुद्धदेशनया ॥ तस्माजिनाज्ञापरेण धर्मः श्रोतव्यः सुगुरुपार्थे । अथोचितं श्राद्धात् तस्योपदेशस्य कथकात् ॥ ] यस्माज्जिनमतस्य कथाप्रबन्धः सर्वोऽपि संवेगो मोक्षाभिलाषस्तत्करो जीवानां भवति । “चिरसंचियपावपणासणीए" इतिवचनात् । संवेगश्च सम्यक्त्वे सत्येव भवति नान्यथा । सम्यक्त्वं च शुद्धयोत्सूत्ररहितया देशनया भवति । यद्यपि तद् निसर्गादधिगमाद् वोत्पद्यते, तथापि प्रायो मनुष्याणां शुद्धदेशनयैवोत्पद्यत इति तद्ग्रहणम् । 'ता' तस्माज्जिनाशापरेण पुंसा धर्मः श्रोतव्यः । क्वेत्याह-संविग्नगीतार्थसूत्राविरुद्धभाषिगुरुसमीपे । अथेति पक्षान्तरे । यदि साधवो न भवन्ति तदोचितं यथा स्यात्तथा श्राद्धाद् धारणादिसमेतात् श्रोतन्यो धर्म इति । औचित्यं चेदं श्राद्धस्य, एकस्य द्वित्राणां वाग्रे सभाप्रबन्धमकृत्वा यथा सुगुरुवदनादवधारितं तथैव वक्तीति । किंभूतात् । तस्य सुगुरोरुपदेशं कथयतीत्युपदेशकथकस्तस्मादिति गाथाद्वयार्थः ॥२२॥२३॥ सा कहा सो उवएसो तन्नाणं जेण जाणए जीवो । सम्मत्तमिच्छभावं गुरुअगुरुधम्मलोयठिई ॥ २४ ॥ [ सा कथा स उपदेशस्तज्ज्ञानं येन जानाति जीवः । सम्यक्त्वमिथ्याभावं गुर्वगुरुधर्मलोकस्थितीः ॥] १ चिरसंचितपापप्रणाशिन्या।

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56