Book Title: Satthisay Payaranam
Author(s): Hargovinddas
Publisher: Atmaram Sharma

View full book text
Previous | Next

Page 13
________________ . सहिसयपवरणं । [ एकोऽपि न संदेहो यजिनधर्मेणास्ति मोक्षसुखम् । स पुनर्विज्ञेयोऽत्युत्कटपुण्यरहितानाम् ॥] इह 'अपि' पुनरर्थे, एकः पुनर्न संदेहो यज्जिनधर्मे, तृतीयाऽत्र सप्तम्यर्थे, आराध्यमानेऽस्ति मोक्षसुखम् । तं पुनर्जिनधर्ममत्युत्कटपुण्येन सम्यक्त्वलक्षणेन रहितानामभिनिवेशिनां दुर्विज्ञेयम्, न तु सर्वेषां लघुकर्मणाम् ॥१५॥ सव्वपि वियाणिज्जइ लब्भइ तह चउरिमाइ जणमझे । एकंपि भाय ! दुलहं जिणमयविहिरयणसुवियाणं ॥ १६ ॥ [ सर्वमपि विज्ञायते लभ्यते तथा चतुरिमादि जनमध्ये । एकमपि भ्रातः ! दुर्लभं जिनमतविधिरत्नविज्ञानम् ॥] सर्वमपि लोकव्यवहारजनरञ्जनादि विज्ञायते, तथा, लभ्यते चतुरिमा-उचितकार्येषु दक्षता तथाविधजनमध्ये । किं तर्हि ? । 'अपिः' अवधारणे । एकमेव हे भ्रातः! दुर्लभम् । किं तत्?। अर्हन्मतस्य विधिरेव रत्नमिव रत्नं तस्य सुष्टु विज्ञानम्, उपलक्षणत्वात् करणं च ॥१६॥ मिच्छत्तबहुलयाए विसुद्धसम्मत्तकहणमवि दुलहं । जह वरनरवइचरियं पावनरिदस्स उदयम्मि ॥ १७॥ [ मिथ्यात्वबहुलतायां विशुद्धसम्यक्त्वकथनमपि दुर्लभम् । यथा वरनरपतिचरितं पापनरेन्द्रस्योदये ॥] मिथ्यात्वस्य पञ्चभेदस्य कालादिदोषाद् बहुलतायां मिथ्यात्वमिथ्यात्ववतोरभेदाद् मिथ्यात्वप्राचुर्ये विशुद्धसम्यक्त्वकथनमपि,प्रास्तां पालनम्, दुर्लभम्; यथा वरनरवरस्य राक्षश्चरितं शिष्टपालनदुष्टनिनहादि,तत् पापनरेन्द्रस्यान्यायनृपतेरुदये कथयितुमपि दुर्लभामिति ॥१७॥ बहुगुणविज्जानिलओ उस्सुत्तभासी तहावि मुत्तव्यो । जह वरमणिजुत्तोवि हु विग्धकरो विसहरो लोए ॥ १८ ॥ [ बहुगुणविद्यानिलय उत्सूत्रभाषी तथापि मोक्तव्यः । यथा वरमणियुक्तोऽपि हि विघ्नकरो विषधरो लोके ॥] १ अत्र 'विदुः' इति क्रियाऽध्याहार्या, द्वितीयाया अन्यथानुपपत्तेः, धर्मशब्दस्य संस्कृते पुल्लिङ्गत्वात् ।

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56